स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०७१


अध्याय ७१

श्रीमार्कण्डेय उवाच -
कामेश्वरं ततश्चान्यच्छृणु पाण्डवसत्तम ।
सिद्धो यत्र गणाध्यक्षो गौरीपुत्रो महाबलः ॥ ७१.१ ॥
तत्र तीर्थे तु यो भक्त्या भक्तियुक्तो जितेन्द्रियः ।
पञ्चामृतेन संस्नाप्य धूपनैवेद्यपूजनैः ॥ ७१.२ ॥
प्रसाद्य जगतामीशं सर्वपापैः प्रमुच्यते ।
अष्टम्यां मार्गशीर्षस्य तत्र स्नात्वा युधिष्ठिर ॥ ७१.३ ॥
यो येन यजते तत्र स तं काममवाप्नुयात् ॥ ७१.४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कामेश्वरतीर्थमाहात्म्यवर्णनं नामैकसप्ततितमोऽध्यायः ॥