स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०७२

श्वेत-कृष्ण अश्वाभ्यां श्येनचितेः परिक्रमणम्
उच्चैश्रवा


अध्याय ७२

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र मणिनागेश्वरं शुभम् ।
उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ।
स्थापितं मणिनागेन लोकानां हितकाम्यया ॥ ७२.१ ॥

युधिष्ठिर उवाच -
आशीविषेण सर्पेण ईश्वरस्तोषितः कथम् ।
क्षुद्राः सर्वस्य लोकस्य भयदा विषशालिनः ॥ ७२.२ ॥
कथ्यतां तात मे सर्वं पातकस्योपशान्तिदम् ।
मम सन्तापजं दुःखं दुर्योधनसमुद्भवम् ॥ ७२.३ ॥
कर्णभीष्मोद्भवं रौद्रं दुःखं पाञ्चालिसम्भवम् ।
तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतः ॥ ७२.४ ॥
श्रुत्वा तव मुखोद्गीतां कथां वै पापनाशिनीम् ।
अयुक्तमिदमस्माकं द्विज क्लेशो न शाम्यति ॥ ७२.५ ॥
अथवा प्राप्स्यते तात विद्यादानस्य यत्फलम् ।
तत्फलं प्राप्यते नित्यं कथाश्रवणतो हरेः ॥ ७२.६ ॥

श्रीमार्कण्डेय उवाच -
यथायथा त्वं नृप भाषसे च तथातथा मे सुखमेति भारती ।
शैथिल्यता वा जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात ।
शृणुष्व तस्मात्सह बान्धवैश्च कथामिमां पापहरां प्रशस्ताम् ॥ ७२.७ ॥
कथयामि यथावृत्तमितिहासं पुरातनम् ॥ ७२.८ ॥
कथितं पूर्वतो वृत्तैः पारम्पर्येण भारत ॥ ७२.९ ॥
द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे ।
गरुत्मन्तं च विनतासूत कद्रूरहीनथ ॥ ७२.१० ॥
संतोषेण च ते तात तिष्ठतः काश्यपे गृहे ।
कद्रूश्च विनता नाम हृष्टे च वनिते सदा ॥ ७२.११ ॥
ताभ्यां सार्द्धं क्रीडते च कश्यपोऽपि प्रजापतिः ।
ततस्त्वेकदिने प्राप्ते आश्रमस्था शुभानना ॥ ७२.१२ ॥
उच्चैःश्रवं हयं दृष्ट्वा मनोवेगसमन्वितम् ।
पश्य पश्य हि तन्वङ्गी हयं सर्वत्र पाण्डुरम् ॥ ७२.१३ ॥
धावमानमविश्रान्तं जवेन मनसोपमम् ।
तं दृष्ट्वा सहसा चाश्वमीर्ष्याभावेन चाब्रवीत् ॥ ७२.१४ ॥

कद्रूरुवाच -
ब्रूहि भद्रे सहस्रांशोरश्वः किंवर्णको भवेत् ।
अहं ब्रवीमि कृष्णोऽयं त्वं किं वदसि तद्वद ॥ ७२.१५ ॥

विनतोवाच -
पश्यसे ननु नेत्रैश्च कृष्णं श्वेतं न पश्यसि ।
असत्यभाषणाद्भद्रे यमलोकं गमिष्यसि ॥ ७२.१६ ॥
सत्यानृते तु वचने पणस्तव ममैव तु ।
सहस्रं चैव वर्षाणां दास्यहं तव मन्दिरे ॥ ७२.१७ ॥
असत्या यदि मे वाणी कृष्ण उच्चैःश्रवा यदि ।
तदाहं त्वद्गृहे दासी भवामि सर्पमातृके ॥ ७२.१८ ॥
यदि उच्चैःश्रवाः श्वेतोऽहं दासी च तवैव तु ।
एवं परस्परं द्वाभ्यां संवादोऽयं व्यवर्धत ॥ ७२.१९ ॥
आश्रमेषु गता बाला रात्रौ चिन्तापरा स्थिता ।
बन्धुवर्गस्य कथितं समस्तं तद्विचेष्टितम् ॥ ७२.२० ॥
पुत्राणां कथितं पार्थ पणं चैव मया कृतम् ।
हाहाकारः कृतः सर्पैः श्रुत्वा मात्रा पणं कृतम् ॥ ७२.२१ ॥
जाता दासी न सन्देहः श्वेतो भास्करवाहनः ।
उच्चैःश्रवा हयः श्वेतो न कृष्णो विद्यते क्वचित् ॥ ७२.२२ ॥

कद्रूरुवाच -
यथाहं न भवे दासी तत्कार्यं च विचिन्त्यताम् ।
विशध्वं रोमकूपेषु ह्युच्चैःश्रवहयस्य तु ॥ ७२.२३ ॥
एकं मुहूर्तमात्रं तु यावत्कृष्णः स दृश्यते ।
क्षणमात्रेण चैकेन दासी सा भवते मम ॥ ७२.२४ ॥
दासीं कृत्वा तु तां तन्वीं विनतां सत्यगर्विताम् ।
ततः स्वस्थानगाः सर्वे भविष्यथ यथासुखम् ॥ ७२.२५ ॥
सर्पा ऊचुः ।
यथा त्वं जननी चाम्ब सर्वेषां भुवि पूजिता ।
तथा सापि विशेषेण वञ्चितव्या न मातरः ॥ ७२.२६ ॥
माता च पितृभार्या च मातृमाता पितामही ।
कर्मणा मनसा वाचा हितं तासां समाचरेत् ॥ ७२.२७ ॥
सा ततस्तेन वाक्येन क्रुद्धा कालानलोपमा ।
मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः ॥ ७२.२८ ॥
हव्यवाहमुखे सर्वे ते यास्यन्त्यविचारितम् ।
मातुस्तद्वचनं श्रुत्वा सर्वे चैव भुजङ्गमाः ॥ ७२.२९ ॥
केचित्प्रविष्टा रोमेषु उच्चैःश्रवहयस्य च ।
नष्टाः केचिद्दशदिशं कद्रूशापभयात्ततः ॥ ७२.३० ॥
केचिद्गङ्गाजले नष्टाः केचिन्नष्टाः सरस्वतीम् ।
केचिन्महोदधौ लीनाः प्रविष्टा विन्ध्यकन्दरे ॥ ७२.३१ ॥
आश्रित्य नर्मदातोये मणिनागोत्तमो नृप ।
तपश्चचार विपुलमुत्तरे नर्मदातटे ॥ ७२.३२ ॥
मातृशापभयात्पार्थ ध्यायते कामनाशनम् ।
अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥ ७२.३३ ॥
वायुभक्षः शतं साग्रं तदर्धं रविवीक्षकः ।
एवं ध्यानरतस्यैव प्रत्यक्षस्त्रिपुरान्तकः ॥ ७२.३४ ॥
साधु साधु महाभाग सत्त्ववांस्तु भुजंगम ।
त्वया भक्त्या गृहीतोऽहं प्रीतस्ते ह्युरगेश्वर ।
वरं याचय मे क्षिप्रं यस्ते मनसि वर्तते ॥ ७२.३५ ॥

मणिनाग उवाच -
मातृशापभयान्नाथ क्लिष्टोऽहं नर्मदातटे ।
त्वत्प्रसादेन मे नाथ मातृशापो भवेद्वृथा ॥ ७२.३६ ॥

ईश्वर उवाच -
हव्यवाहमुखं वत्स न प्राप्स्यसि ममाज्ञया ।
मम लोके निवासश्च तव पुत्र भविष्यति ॥ ७२.३७ ॥

मणिनाग उवाच -
अत्र स्थाने महादेव स्थीयतामंशभागतः ।
सहस्रांशेन भागेन स्थीयतां नर्मदाजले ।
उपकाराय लोकानां मम नाम्नैव शङ्कर ॥ ७२.३८ ॥

ईश्वर उवाच -
स्थापयस्व परं लिङ्गमाज्ञया मम पन्नग ।
इत्युक्त्वान्तर्हितो देवो जगाम ह्युमया सह ॥ ७२.३९ ॥

मार्कण्डेय उवाच -
तत्र तीर्थे तु ये गत्वा शुचिप्रयतमानसाः ।
पञ्चम्यां वा चतुर्दश्यामष्टम्यां शुक्लकृष्णयोः ॥ ७२.४० ॥
अर्चयन्ति सदा पार्थ नोपसर्पन्ति ते यमम् ।
दध्ना च मधुना चैव घृतेन क्षीरयोगतः ॥ ७२.४१ ॥
स्नापयन्ति विरूपाक्षमुमादेहार्धधारिणम् ।
कामाङ्गदहनं देवमघासुरनिषूदनम् ॥ ७२.४२ ॥
स्नाप्यमानं च ये भक्त्वा पश्यन्ति परमेश्वरम् ।
ते यान्ति च परे लोके सर्वपापविवर्जितैः ॥ ७२.४३ ॥
श्राद्धं प्रेतेषु ये पार्थ चाष्टम्यां पञ्चमीषु च ।
ब्राह्मणैश्च सदा योग्यैर्वेदपाठकचिन्तकैः ॥ ७२.४४ ॥
स्वदारनिरतैः श्लक्ष्णैः परदारविवर्जितैः ।
षट्कर्मनिरतैस्तात शूद्रप्रेषणवर्जितैः ॥ ७२.४५ ॥
खञ्जाश्च दर्दुराः षण्ढा वार्द्धुष्याश्च कृषीवलाः ।
भिन्नवृत्तिकराः पुत्र नियोज्या न कदाचन ॥ ७२.४६ ॥
वृषलीमन्दिरे यस्य महिषीं यस्तु पालयेत् ।
स विप्रो दूरतस्त्याज्यो व्रते श्राद्धे नराधिप ॥ ७२.४७ ॥
काणाष्टुंटाश्च मण्टाश्च वेदपाठविवर्जिताः ।
न ते पूज्या द्विजाः पार्थ मणिनागेश्वरे शुभे ॥ ७२.४८ ॥
यदीच्छेदूर्ध्वगमनमात्मनः पितृभिः सह ।
सर्वाङ्गरुचिरां धेनुं यो दद्यादग्रजन्मने ॥ ७२.४९ ॥
स याति परमं लोकं यावदाभूतसम्प्लवम् ।
ततः स्वर्गाच्च्युतः सोऽपि जायते विमले कुले ॥ ७२.५० ॥
ये पश्यन्ति परं भक्त्या मणिनागेश्वरं नृप ।
न तेषां जायते वंशे पन्नगानां भयं नृप ॥ ७२.५१ ॥
पन्नगः शङ्कते तेषां मणिनागप्रदर्शनात् ।
सौपर्णरूपिणस्ते वै दृश्यन्ते नागमण्डले ॥ ७२.५२ ॥
फलानि चैव दानानां शृणुष्वाथ नृपोत्तम ।
अन्नं संस्कारसंयुक्तं ये ददन्ते नरोत्तमाः ॥ ७२.५३ ॥
तोयं शय्यां तथा छत्रं कन्यां दासीं सुभाषिणीम् ।
पात्रे देयं यतो राजन् यदीच्छेच्छ्रेय आत्मनः ॥ ७२.५४ ॥
सुरभीणि च पुष्पाणि गन्धवस्त्राणि दापयेत् ।
दीपं धान्यं गृहं शुभ्रं सर्वोपस्करसंयुतम् ॥ ७२.५५ ॥
ये ददन्ते परं भक्त्या ते व्रजन्ति त्रिविष्टपम् ।
मणिनागे नृपश्रेष्ठ यच्च दानं प्रदीयते ॥ ७२.५६ ॥
तस्य दानस्य भावेन स्वर्गे वासो भवेद्ध्रुवम् ।
पातकानि प्रलीयन्ते आमपात्रे यथा जलम् ॥ ७२.५७ ॥
नर्मदातोयसंसिद्धं भोज्यं विप्रे ददाति यः ।
सोऽपि पापैर्विनिर्मुक्तः क्रीडते दैवतैः सह ॥ ७२.५८ ॥
ततः स्वर्गच्युतानां हि लक्षणं प्रवदाम्यहम् ।
दीर्घायुषो जीवपुत्रा धनवन्तः सुशोभनाः ॥ ७२.५९ ॥
सर्वव्याधिविनिर्मुक्ताः सुतभृत्यैः समन्विताः ।
त्यागिनो भोगसंयुक्ता धर्माख्यानरताः सदा ॥ ७२.६० ॥
देवद्विजगुरोर्भक्तास्तीर्थसेवापरायणाः ।
मातापितृवशा नित्यं द्रोहक्रोधविवर्जिताः ॥ ७२.६१ ॥
एभिरेव गुणैर्युक्ता ये नराः पाण्डुनन्दन ।
सत्यं ते स्वर्गादायाताः स्वर्गे वासं व्रजन्ति ते ॥ ७२.६२ ॥
सर्वतीर्थवरं तीर्थं मणिनागं नृपोत्तम ।
तीर्थाख्यानमिदं पुण्यं यः पठेच्छृणुयादपि ॥ ७२.६३ ॥
सोऽपि पापैर्विनिर्मुक्तः शिवलोके महीयते ।
न विषं क्रमते तेषां विचरन्ति यथेच्छया ॥ ७२.६४ ॥
भाद्रपद्यां च यत्षष्ठ्यां पुण्यं सूर्यस्य दर्शने ।
तत्फलं समवाप्नोति आख्यानश्रवणेन तु ॥ ७२.६५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मणिनागेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विसप्ततितमोऽध्यायः ॥