स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०७४


अध्याय ७४

श्रीमार्कण्डेय उवाच -
रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
सर्वपापहरं मर्त्ये नाम्ना वै गौतमेश्वरम् ॥ ७४.१ ॥
स्थापितं गौतमेनैव लोकानां हितकाम्यया ।
स्वर्गसोपानरूपं तु तीर्थं पुंसां युधिष्ठिर ॥ ७४.२ ॥
तत्र गच्छ परं भक्त्या यत्र देवो जगद्गुरुः ।
पातकस्य विनाशार्थं स्वर्गवासप्रदस्तथा ॥ ७४.३ ॥
सौभाग्यवर्द्धनं तीर्थं जयदं दुःखनाशनम् ।
पिण्डदानेन चैकेन कुलानामुद्धरेत्त्रयम् ॥ ७४.४ ॥
यत्किंचिद्दीयते भक्त्या स्वल्पं वा यदि वा बहु ।
तत्सर्वं शतसाहस्रमाज्ञया गौतमस्य हि ॥ ७४.५ ॥
तीर्थानां परमं तीर्थं स्वयं रुद्रेण भाषितम् ॥ ७४.६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःसप्ततितमोऽध्यायः ॥