स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०७७


अध्याय ७७

श्रीमार्कण्डेय उवाच -
भीमेश्वरं ततो गच्छेत्सर्वपापक्षयंकरम् ।
सेवितं ऋषिसङ्घैश्च भीमव्रतधरैः शुभैः ॥ ७७.१ ॥
तत्र तीर्थे तु यः स्नात्वा सोपवासो जितेन्द्रियः ।
जपेदेकाक्षरं मन्त्रमूर्ध्वबाहुर्दिवाकरे ॥ ७७.२ ॥
तस्य जन्मार्जितं पापं तत्क्षणादेव नश्यति ।
सप्तजन्मार्जितं पापं गायत्र्या नश्यते ध्रुवम् ॥ ७७.३ ॥
दशभिर्जन्मभिर्जातं शतेन तु पुरा कृतम् ।
सहस्रेण त्रिजन्मोत्थं गायत्री हन्ति किल्बिषम् ॥ ७७.४ ॥
वैदिकं लौकिकं वापि जाप्यं जप्तं नरेश्वर ।
तत्क्षणाद्दहते सर्वं तृणं तु ज्वलनो यथा ॥ ७७.५ ॥
न देवबलमाश्रित्य कदाचित्पापमाचरेत् ।
अज्ञानान्नश्यते क्षिप्रं नोत्तरं तु कदाचन ॥ ७७.६ ॥
तत्र तीर्थे तु यो दानं शक्तिमाश्रित्य चाचरेत् ।
तदक्षय्यफलं सर्वं जायते पाण्डुनन्दन ॥ ७७.७ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भीमेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्ततितमोऽध्यायः ॥