स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०८४


 अध्याय ८४

श्रीमार्कण्डेय उवाच -
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
कैलासे पृच्छते भक्त्या षण्मुखाय शिवोदितम् ॥ ८४.१ ॥

ईश्वर उवाच -
पूर्वं त्रेतायुगे स्कन्द हतो रामेण रावणः ।
चतुर्दश तदा कोट्यो निहता ब्रह्मरक्षसाम् ॥ ८४.२ ॥
हतेषु तेषु वै तत्र रक्षणाय दिवौकसाम् ।
महानन्दस्तदा जातस्त्रिषु लोकेषु पुत्रक ॥ ८४.३ ॥
ततः सीतां समासाद्य समं वानरपुंगवैः ।
रामोऽप्ययोध्यामायातो भरतेन कृतोत्सवः ।
तस्मै समर्पयामास स राज्यं लक्ष्मणाग्रजः ॥ ८४.४ ॥
तस्मिन्प्रशासति ततो राज्यं निहतकण्टकम् ।
कृतकार्योऽथ हनुमान्कैलासमगात्पुरा ॥ ८४.५ ॥
ततो नन्दी प्रतीहारो रुद्रांशमपि तं कपिम् ।
न च संगमयामास रुद्रेणाघौघहारिणा ॥ ८४.६ ॥
तेन पृष्टस्तदा नन्दी किं मया पातकं कृतम् ।
येन रुद्रवपुः पुण्यं न पश्याम्यम्बिकान्वितम् ॥ ८४.७ ॥

नन्द्युवाच -
त्वयावतरणं चक्रे कपीन्द्रामरहेतुना ।
तथापि हि कृतं पापमुपभोगेन शाम्यति ॥ ८४.८ ॥

हनुमानुवाच -
किं मयाकारि तत्पापं नन्दिन्देवार्थकारिणा ।
राक्षसाश्च हता दुष्टा विप्रयज्ञाङ्गघातिनः ॥ ८४.९ ॥
ततस्तदालापकुतूहली हरो निजांशभाजं कपिमुग्रतेजसम् ।
उवाच द्वारान्तरदत्तदृष्टिः पुरःस्थितं प्रेक्ष्य कपीश्वरं पुनः ॥ ८४.१० ॥

ईश्वर उवाच -
गङ्गा गया कपे रेवा यमुना च सरस्वती ।
सर्वपापहरा नद्यस्तासु स्नानं समाचर ॥ ८४.११ ॥
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
सोमनाथसमीपस्थं तत्र त्वं गच्छ वानर ॥ ८४.१२ ॥
तत्र स्नात्वा महापापं गमिष्यति ममाज्ञया ।
उत्पत्य वेगाद्धनुमाञ्छ्रीरेवादक्षिणे तटे ॥ ८४.१३ ॥
जगाम सुमहानादस्तपश्चक्रे सुदुष्करम् ।
तस्य वै तप्यमानस्य रक्षोवधकृतं तमः ॥ ८४.१४ ॥
विलीनं पार्थ कालेन कियतेशप्रसादतः ।
ततो देवैः समं देवस्तत्तीर्थमगमद्धरः ॥ ८४.१५ ॥
कपिमालिङ्गयामास वरं तस्मै प्रदत्तवान् ।
अद्यप्रभृति ते तीर्थं भविष्यति न संशयः ॥ ८४.१६ ॥
कपितीर्थं ततो जातं तस्थौ तत्र स्वयं हरः ।
हनूमन्तेश्वरो नाम्ना सर्वहत्याहरस्तदा ॥ ८४.१७ ॥
तत्र तीर्थे तु यः स्नात्वा भक्त्या लिङ्गं प्रपूजयेत् ।
सर्वपापानि नश्यन्ति हरस्य वचनं यथा ॥ ८४.१८ ॥
तत्रास्थीनि विलीयन्ते पिण्डदानेऽक्षया गतिः ।
यत्किंचिद्दीयते तत्र तद्धि कोटिगुणं भवेत् ॥ ८४.१९ ॥
हनुमानप्ययोध्यायां रामं द्रष्टुमथागमत् ।
चकार कुशलप्रश्नं स्वस्वरूपं न्यवेदयत् ॥ ८४.२० ॥

श्रीराम उवाच -
कुर्वतो देवकार्यं ते मम कार्यं च कुर्वतः ।
ततोऽहमपि पापीयांस्तपस्तप्स्याम्यसंशयम् ॥ ८४.२१ ॥
तत्रैव दक्षिणे कूले रेवायाः पापहारिणि ।
चतुर्विंशतिवर्षाणि तपस्तेपेऽथ राघवः ॥ ८४.२२ ॥
ज्योतिष्मतीपुरीसंस्थः श्रीरेवास्नानमाचरन् ।
तस्य शुश्रूषणं चक्रे लक्ष्मणोऽपि तदाज्ञया ॥ ८४.२३ ॥
स्थापयामासतुर्लिङ्गे तौ तदा रामलक्ष्मणौ ।
प्रभावात्सत्यतपसो रेवातीरे महामती ।
निष्पापतां तदा वीरौ जग्मतू रामलक्ष्मणौ ॥ ८४.२४ ॥
ततस्तदा देवपुरोगमो हरो गतो हि वै पुण्यमुनीश्वरैः सह ।
आगत्य तीर्थं च वरं ददौ तदा निजां कलां तत्र विमुच्य तीर्थे ॥ ८४.२५ ॥
मुनिभिः सर्वतीर्थानां क्षिप्तं कुम्भोदकं भुवि ।
एकस्थं लिङ्गनामाथ कलाकुम्भस्तथाभवत् ॥ ८४.२६ ॥
कुम्भेश्वर इति ख्यातस्तदा देवगणार्चितः ।
रामोऽपि पूजयामास तल्लिङ्गं देवसेविवतम् ॥ ८४.२७ ॥
ततो वरं ददौ देवो रामकीर्त्यभिवृद्धये ।
चतुर्विंशतिमे वर्षे रामो निष्पापतां गतः ॥ ८४.२८ ॥
यदा कन्यागतः पङ्गुर्गुरुणा सहितो भवेत् ।
तदेव देवयात्रेयमिति देवा जगुर्मुदा ॥ ८४.२९ ॥
यथा गोदावरीतीर्थे सर्वतीर्थफलं भवेत् ।
तथात्र रेवास्नानेन लिङ्गानां दर्शनैर्नृणाम् ॥ ८४.३० ॥
करिष्यन्त्यत्र ये श्राद्धं पितॄणां नर्मदातटे ।
कुम्भेश्वरसमीपस्थास्तत्फलं शृणु षण्मुख ॥ ८४.३१ ॥
यावन्तो रोमकूपाः स्युः शरीरे सर्वदेहिनाम् ।
तावद्वर्षप्रमाणेन पितॄणामक्षया गतिः ॥ ८४.३२ ॥
पृथिव्यां देवताः सर्वाः सर्वतीर्थानि यानि तु ।
लभन्ते तत्फलं मर्त्या लिङ्गत्रयविलोकनात् ॥ ८४.३३ ॥
अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ।
सरोगो मुच्यते रोगान्नात्र कार्या विचारणा ॥ ८४.३४ ॥
सिंहराशिं गते जीवे यत्स्याद्गोदावरीफलम् ।
तद्द्वादशगुणं स्कन्द कुम्भेश्वरसमीपतः ॥ ८४.३५ ॥
ये जानन्ति न पश्यन्ति कुम्भशम्भुमुमापतिम् ।
नर्मदादक्षिणे कूले तेषां जन्म निरर्थकम् ॥ ८४.३६ ॥
यथा गोदावरीयात्रा कर्तव्या मुनिशासनात् ।
चतुर्विंशतिमे वर्षे तथेयं देवभाषितम् ॥ ८४.३७ ॥
यावच्चन्द्रश्च सूर्यश्च यावद्वै दिवि तारकः ।
तावत्तदक्षयं दानं रेवाकुम्भेश्वरान्तिके ॥ ८४.३८ ॥
महादानानि देयानि तत्र लौकैर्विचक्षणैः ।
गोदानमत्र शंसन्ति सौवर्णं राजतं तथा ॥ ८४.३९ ॥
यस्याः स्मरणमात्रेण नश्यते पापसञ्चयः ।
स्नानेन किं पुनः स्कन्द ब्रह्महत्यां व्यपोहति ॥ ८४.४० ॥
तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्याद्युधिष्ठिर ।
एकोत्तरं कुलशतमुद्धरेच्छिवशासनात् ॥ ८४.४१ ॥
यानि कानि च तीर्थानि चासमुद्रसरांसि च ।
शिवलिङ्गार्चनस्येह कलां नार्हन्ति षोडशीम् ॥ ८४.४२ ॥
एवं देवा वरं दत्त्वा हरीश्वरपुरोगमाः ।
स्वस्थानमगमन् पूर्वं मुक्त्वा तन्नाम चोत्तमम् ॥ ८४.४३ ॥
तीर्थस्यास्य वरं दत्त्वा स रामो लक्ष्मणाग्रजः ।
अयोध्यां प्रविवेशासौ निष्पापो नर्मदाजलात् ॥ ८४.४४ ॥
सौवर्णीं च ततः कृत्वा सीतां यज्ञं चकार सः ।
अनुमन्त्र्य मुनींल्लोकान्देवताश्च निजं कुलम् ॥ ८४.४५ ॥
पुरा त्रेतायुगे जातं तत्तीर्थं स्कन्दनामकम् ।
नियमेन ततो लोकैः कर्तव्यं लिङ्गदर्शनम् ॥ ८४.४६ ॥
तावत्पापानि देहेषु महापातकजान्यपि ।
यावन्न प्रेक्षते जन्तुस्तत्तीर्थं देवसेवितम् ॥ ८४.४७ ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
ज्योतिष्मतीपुरीसंस्थं ये द्रक्ष्यन्ति हरं परम् ॥ ८४.४८ ॥
तस्मान्मोहं परित्यज्य जनैर्गन्तव्यमादरात् ।
तीर्थाशेषफलावाप्त्यै तीर्थं कुम्भेश्वराह्वयम् ॥ ८४.४९ ॥

मार्कण्डेय उवाच -
श्रुत्वेति शम्भुवचसा स षडाननोऽथ नत्वा पितुः पदयुगाम्बुजमादरेण ।
सम्प्राप्य दक्षिणतटं गिरिशस्रवन्त्याः कीशाग्र्यरामकलशाख्यशिवान् ददर्श ॥ ८४.५० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपितीर्थरामेश्वरलक्ष्मणेश्वरकुम्भेश्वरमाहात्म्यवर्णनं नाम चतुरशीतितमोऽध्यायः ॥