स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०८६


अध्याय ८६

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज पिङ्गलावर्तमुत्तमम् ।
सङ्गमस्य समीपस्थं रेवाया उत्तरे तटे ।
हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः ॥ ८६.१ ॥

युधिष्ठिर उवाच -
हव्यवाहेन भगवन्नीश्वरः स्थापितः कथम् ।
एतदाख्याहि मे सर्वं प्रसादाद्वक्तुमर्हसि ॥ ८६.२ ॥

मार्कण्डेय उवाच -
शम्भुना रेतसा राजंस्तर्पितो हव्यवाहनः ।
प्राप्तसौख्येन रौद्रेण गौर्याक्रीडनचेतसा ॥ ८६.३ ॥
हव्यवाहमुखे क्षिप्तं रुद्रेणामिततेजसा ।
रुद्रस्य रेतसा दग्धस्तीर्थयात्राकृतादरः ॥ ८६.४ ॥
सागरांश्च नदीर्गत्वा क्रमाद्रेवां समागतः ।
चचार परया भक्त्या ध्यानमुग्रं हुताशनः ॥ ८६.५ ॥
वायुभक्षः शतं साग्रं यावत्तेपे हुताशनः ।
तावत्तुष्टो महादेवो वरदो जातवेदसः ।
संनिधौ समुपेत्याथ वचनं चेदमब्रवीत् ॥ ८६.६ ॥

ईश्वर उवाच -
वरं वृणीष्व हव्याश यस्ते मनसि वर्तते ॥ ८६.७ ॥

वह्निरुवाच -
नमस्ते सर्वलोकेश उग्रमूर्ते नमोऽस्तु ते ।
रेतसा तव संदग्धः कुष्ठी जातो महेश्वर ।
कृपां कुरु महादेव मम रोगं विनाशय ॥ ८६.८ ॥

ईश्वर उवाच -
हव्यवाह भवारोगो मत्प्रसादाच्च सत्वरम् ।
अत्र तीर्थे कृतस्नानः स्वरूपं प्रतिपत्स्यसे ॥ ८६.९ ॥
इत्युक्त्वा च महादेवस्तत्रैवान्तरधीयत ।
अनन्तरं हव्यवाहः सस्नौ रेवाजले त्वरन् ॥ ८६.१० ॥
तदैव रोगनिर्मुक्तोऽभवद्दिव्यस्वरूपवान् ।
स्थापयामास देवेशं स वह्निः पिङ्गलेश्वरम् ॥ ८६.११ ॥
नाम्ना संपूजयामास तुष्टाव स्तुतिभिर्मुदा ।
ततो जगाम देशं स्वं देवानां हव्यवाहनः ॥ ८६.१२ ॥
हव्यवाहेन भूपैवं स्थापितः पिङ्गलेश्वरः ।
जितक्रोधो हि यस्तत्र उपवासं समाचरेत् ॥ ८६.१३ ॥
अतिरान्त्रफलं तस्य अन्ते रुद्रत्वमाप्नुयात् ।
गुणान्विताय विप्राय कपिलां तत्र भारत ॥ ८६.१४ ॥
अलंकृत्य सवत्सां च शक्त्यालङ्कारभूषिताम् ।
यः प्रयच्छति राजेन्द्र स गच्छेत्परमां गतिम् ॥ ८६.१५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीतितमोऽध्यायः ॥