स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०८९


अध्याय ८९

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र पूतिकेश्वरमुत्तमम् ।
नर्मदादक्षिणे कूले सर्वपापक्षयंकरम् ॥ ८९.१ ॥
स्थापितं जाम्बुवन्तेन लोकानां तु हितार्थिना ।
राजा प्रसेनजिन्नाम तस्यां वक्षस्थलान्मणौ ॥ ८९.२ ॥
समुत्क्षिप्ते तु तेनैव सपूतिरभवद्व्रणः ।
तत्र तीर्थे तपस्तप्त्वा निर्व्रणः समजायत ॥ ८९.३ ॥
तेन तत्स्थापितं लिङ्गं पूतिकेश्वरमुत्तमम् ।
यस्तत्र मनुजो भक्त्या स्नायाद्भरतसत्तम ॥ ८९.४ ॥
सर्वान्कामानवाप्नोति सम्पूज्य परमेश्वरम् ।
कृष्णाष्टम्यां चतुर्दश्यां सर्वकालं नराधिप ।
येऽर्चयन्ति सदा देवं ते न यान्ति यमालयम् ॥ ८९.५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पूतिकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोननवतितमोऽध्यायः ॥