स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०९४


अध्याय ९४

श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं राजन्नन्दितीर्थं व्रजेच्छुभम् ।
सर्वपापहरं पुंसां नन्दिना निर्मितं पुरा ॥ ९४.१ ॥
पापौघहतजन्तूनां मोक्षदं नर्मदातटे ।
अहोरात्रोषितो भूत्वा नन्दिनाथे युधिष्ठिर ॥ ९४.२ ॥
पञ्चोपचारपूजायामर्चयेन्नन्दिकेश्वरम् ।
रत्नानि चैव विप्रेभ्यो यो दद्याद्धर्मनन्दन ॥ ९४.३ ॥
स याति परमं स्थानं यत्र वासः पिनाकिनः ।
सर्वसौख्यसमायुक्तोऽप्सरोभिः सह मोदते ॥ ९४.४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दिकेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्नवतितमोऽध्यायः ॥