स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०९५


अध्याय ९५

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र बदर्याश्रममुत्तमम् ।
सर्वतीर्थवरं पुण्यं कथितं शंभुना पुरा ॥ ९५.१ ॥
यश्चैष भारतस्यार्थे तत्र सिद्धः किरीटभृत् ।
भ्राता ते फाल्गुनो नाम विद्ध्येनं नरदैवतम् ॥ ९५.२ ॥
नरनारायणौ द्वौ तावागतौ नर्मदातटे ।
ज्ञानं तस्यैव यो राजन्भक्तिमान्वै जनार्दने ॥ ९५.३ ॥
समं पश्यति सर्वेषु स्थावरेषु चरेषु च ।
ब्राह्मणं श्वपचं चैव तत्र प्रीतो जनार्दनः ॥ ९५.४ ॥
ऐकात्म्यं पश्य कौन्तेय मयि चात्मनि नान्तरम् ।
नरनारायणाभ्यां हि कृतं बदरिकाश्रमम् ॥ ९५.५ ॥
स्थापितः शङ्करस्तत्र लोकानुग्रहकारणात् ।
त्रिमूर्तिस्थापितं लिङ्गं स्वर्गमार्गानुमुक्तिदम् ॥ ९५.६ ॥
तत्र गत्वा शुचिर्भूत्वा ह्येकरात्रोपवासकृत् ।
रजस्तमस्तथा त्यक्त्वा सात्त्विकं भावमाश्रयेत् ॥ ९५.७ ॥
रात्रौ जागरणं कृत्वा मधुमासाष्टमीदिने ।
अथवा च चतुर्दश्यामुभौ पक्षौ च कारयेत् ॥ ९५.८ ॥
आश्विनस्य विशेषेण कथितं तव पाण्डव ।
स्नापयेत्परया भक्त्या क्षीरेण मधुना सह ॥ ९५.९ ॥
दध्ना शर्करया युक्तं घृतेन समलंकृतम् ।
पञ्चामृतमिदं पुण्यं स्नापयेद्वृषभध्वजम् ॥ ९५.१० ॥
स्नाप्यमानं शिवं भक्त्या वीक्षते यो विमत्सरः ।
तस्य वासः शिवोपान्ते शक्रलोके न संशयः ॥ ९५.११ ॥
शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणिने ।
संसारमूलबद्धानामुद्वेष्टनकरो हि यः ॥ ९५.१२ ॥
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनौं नमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥ ९५.१३ ॥
यः पुनः स्नापयेद्भक्त्या एकभक्तो जितेन्द्रियः ।
तस्यापि यत्फलं पार्थ वक्ष्ये तल्लेशतस्तव ॥ ९५.१४ ॥
पीडितो वृद्धभावेन तव भक्त्या वदाम्यहम् ।
ते यान्ति परमं स्थानं भित्त्वा भास्करमण्डलम् ॥ ९५.१५ ॥
संसारे सर्वसौख्यानां निलयास्ते भवन्ति च ।
आश्चर्यं ज्ञातिवर्गाणां धर्माणां निलयास्तु ते ॥ ९५.१६ ॥
सम्पन्नाः सर्वकामैस्ते पृथिव्यां पृथिवीपते ।
श्राद्धं तत्रैव यः कुर्यान्नर्मदोदकमिश्रितम् ॥ ९५.१७ ॥
योग्यैश्च ब्राह्मणैर्राजन्कुलीनैर्वेदपारगैः ।
सुरूपैश्च सुशीलैश्च स्वदारनिरतैः शुभैः ॥ ९५.१८ ॥
आर्यदेशप्रसूतैश्च श्लक्ष्णैश्चैव सुरूपिभिः ।
कारयेत्पिण्डदानं वै भास्करे कुतपस्थिते ॥ ९५.१९ ॥
पित्ःणां परमं लोकं यदीच्छेद्धर्मनन्दन ।
वर्जयेत्तान्प्रयत्नेन काणान्दुष्टांश्च दाम्भिकान् ॥ ९५.२० ॥
तस्मात्सर्वप्रयत्नेन योग्यं विप्रं समाश्रयेत् ।
नरकान्मोचयेत्प्रेतान्कुम्भीपाकपुरोगमान् ॥ ९५.२१ ॥
मोक्षो भवति सर्वेषां पित्ःणां नृपनन्दन ।
विप्रेभ्यः काञ्चनं दद्यात्प्रीयतां मे पितामहः ॥ ९५.२२ ॥
अन्नं च दापयेत्तत्र भक्त्या वस्त्रं च भारत ।
गां वृषं मेदिनीं दद्याच्छत्रं शस्तं नृपोत्तम ॥ ९५.२३ ॥
स पुमान्स्वर्गमाप्नोति इत्येवं शङ्करोऽब्रवीत् ।
प्राणत्यागं तु यः कुर्याच्छिखिना सलिलेन वा ॥ ९५.२४ ॥
अनाशकेन वा भूयः स गच्छेच्छिवमन्दिरम् ।
नरनारायणीतीरे देवद्रोण्यां च यो नृप ॥ ९५.२५ ॥
स वसेदीश्वरस्याग्रे यावदिन्द्राश्चतुर्दश ।
पुनः स्वर्गाच्च्युतः सोऽपि राजा भवति वीर्यवान् ॥ ९५.२६ ॥
सर्वैश्वर्यगुणैर्युक्तः प्रजापालनतत्परः ।
ततः स्मरति तत्तीर्थं पुनरेवागमिष्यति ॥ ९५.२७ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारायणीतीर्थमाहात्म्यवर्णनं नाम पञ्चनवतितमोऽध्यायः ॥