स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ११६


अध्याय ११६

मार्कण्डेय उवाच -
पाण्डुतीर्थं ततो गच्छेत्सर्वपापविनाशनम् ।
तत्र स्नात्वा नरो राजन्मुच्यते सर्वकिल्बिषैः ॥ ११६.१ ॥
तत्र तीर्थे तु यः स्नात्वा दापयेत्काञ्चनं शुचिः ।
भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः ॥ ११६.२ ॥
पिण्डोदकप्रदानेन वाजपेयफलं लभेत् ।
पितरः पितामहाश्च नृत्यन्ते च प्रहर्षिताः ॥ ११६.३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पाण्डुतीर्थमाहात्म्यवर्णनं नाम षोडशाधिकशततमोऽध्यायः ॥