स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १२२


अध्याय १२२
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल कोहनस्वेति विश्रुतम् ।
सर्वपापहरं पुण्यं तीर्थं मृत्युविनाशनम् ॥ १२२.१ ॥
पुरा तत्र द्विजः कश्चिद्वेदवेदाङ्गपारगः ।
पत्नीपुत्रसुहृद्वर्गैः स्वकर्मनिरतोऽवसत् ॥ १२२.२ ॥

युधिष्ठिर उवाच -
ब्राह्मणस्य तु यत्कर्म उत्पत्तिः क्षत्रियस्य तु ।
वैश्यस्यापि च शूद्रस्य तत्सर्वं कथयस्व मे ॥ १२२.३ ॥
धर्मस्यार्हस्य कामस्य मोक्षस्य च परं विधिम् ।
निखिलं ज्ञातुमिच्छामि नान्यो वेत्ता मतिर्मम ॥ १२२.४ ॥

मार्कण्डेय उवाच -
उत्पत्तिकारणं ब्रह्मा देवदेवः प्रकीर्तितः ।
प्रथमं सर्वभूतानां चराचरजगद्गुरुः ॥ १२२.५ ॥
द्विजातयो मुखाज्जाताः क्षत्रिया बाहुयन्त्रतः ।
ऊरुप्रदेशाद्वैश्यास्तु शूद्राः पादेष्वथाभवन् ॥ १२२.६ ॥
ततस्त्वन्ये पृथग्वर्णाः पृथग्धर्मान् समाचरन् ।
पर्यायेण समुत्पन्ना ह्यनुलोमविलोमतः ॥ १२२.७ ॥
तेषां धर्मं प्रवक्ष्यामि श्रुतिस्मृत्यर्थचोदितम् ।
येन सम्यक्कृतेनैव सर्वे यान्ति परां गतिम् ॥ १२२.८ ॥
गतिर्ध्यानं विना भक्तैर्ब्राह्मणैः प्राप्यते नृप ।
अध्यापयन्यतो वेदान्वेदं वापि यथाविधि ॥ १२२.९ ॥
कुलजां रूपसम्पन्नां सर्वलक्षणलक्षिताम् ।
उद्वाहयेत्ततः पत्नीं गुरुणानुमते तदा ॥ १२२.१० ॥
ततः स्मार्तं विवाहाग्निं श्रौतं वा पूजयेत्क्रमात् ।
प्रतिग्रहधनो भूत्वा दम्भलोभविवर्जितः ॥ १२२.११ ॥
पञ्चयज्ञविधानानि कारयेद्वै यथाविधि ।
वनं गच्छेत्ततः पश्चाद्द्वितीयाश्रमसेवनात् ॥ १२२.१२ ॥
पुत्रेषु भार्यां निक्षिप्य सर्वसङ्गविवर्जितः ।
इष्टांल्लोकानवाप्नोति न चेह जायते पुनः ॥ १२२.१३ ॥
क्षत्रियस्तु स्थितो राज्ये पालयित्वा वसुंधराम् ।
शश्वद्धर्ममनाश्चैव प्राप्नोति परमां गतिम् ॥ १२२.१४ ॥
वैश्यधर्मो न सन्देहः कृषिगोरक्षणे रतः ।
सत्यशौचसमोपेतो गच्छते स्वर्गमुत्तमम् ॥ १२२.१५ ॥
न शूद्रस्य पृथग्धर्मो विहितः परमेष्ठिना ।
न मन्त्रो न च संस्कारो न विद्यापरिसेवनम् ॥ १२२.१६ ॥
न शब्दविद्यासमयो देवताभ्यर्चनानि च ।
यथा जातेन सततं वर्तितव्यमहर्निशम् ॥ १२२.१७ ॥
स धर्मः सर्ववर्णानां पुरा सृष्टः स्वयम्भुवा ।
मन्त्रसंस्कारसम्पन्नास्त्रयो वर्णा द्विजातयः ॥ १२२.१८ ॥
तेषां मतमनादृत्य यदि वर्तेत कामतः ।
स मृतो जायते श्वा वै गतिरूर्ध्वा न विद्यते ॥ १२२.१९ ॥
न तेषां प्रेषणं नित्यं तेषां मतमनुस्मरन् ।
यशोभागी स्वधर्मस्थः स्वर्गभागी स जायते ॥ १२२.२० ॥
एवं गुणगणाकीर्णोऽवसद्विप्रः स भारत ।
हनस्वेति हनस्वेति शृणोति वाक्यमीदृशम् ॥ १२२.२१ ॥
ततो निरीक्षते चोर्ध्वमधश्चैव दिशो दश ।
वेपमानः स भीतश्च प्रस्खलंश्च पदे पदे ॥ १२२.२२ ॥
शृङ्खलायुधहस्तैश्च पाशैश्चैव सुदारुणैः ।
वेष्टितं महिषारूढं नरं पश्यति मन्मुखम् ॥ १२२.२३ ॥
कृष्णांजनचयप्रख्यं कृष्णाम्बरविभूषितम् ।
रक्ताक्षमायतभुजं सर्वलक्षणलक्षितम् ॥ १२२.२४ ॥
दृष्ट्वा तं तु समायान्तं निरीक्ष्यात्मानमात्मना ।
जपञ्जाप्यं च परमं शतरुद्रीयसंस्तवम् ॥ १२२.२५ ॥
ततः प्रोवाच भगवान्यमः संयमनो महान् ।
शृणु वाक्यमतो ब्रह्मन्यमोऽहं सर्वजन्तुषु ॥ १२२.२६ ॥
संहरस्व महाभाग रुद्रजाप्यं सुदुर्भिदम् ।
येनाहं कालपाशैस्त्वां संयमामि गतव्यथः ॥ १२२.२७ ॥
तच्छ्रुत्वा निष्ठुरं वाक्यं यमस्य मुखनिर्गतम् ।
महाभयसमोपेतो ब्राह्मणः प्रपलायितः ॥ १२२.२८ ॥
तस्य मार्गे गताः सर्वे यमेन सह किंकराः ।
तिष्ठ तिष्ठेति तं विप्रमूचुस्ते सोऽप्यधावत ॥ १२२.२९ ॥
त्वरमाणः परिश्रान्तो हा हतोऽहं दुरात्मभिः ।
रक्ष रक्ष महादेव शरणागतवत्सल ॥ १२२.३० ॥
एवमुक्त्वापतद्भूमौ लिङ्गमालिङ्ग्य भारत ।
गतसत्त्वः स विप्रेन्द्रः समाश्रित्य सुरेश्वरम् ॥ १२२.३१ ॥
तं दृष्ट्वा पतितं भूमौ देवदेवो महेश्वरः ।
को हनिष्यति माभैस्त्वं हुङ्कारमकरोत्तदा ॥ १२२.३२ ॥
तेन ते किंकराः सर्वे यमेन सह भारत ।
हुङ्कारेण गताः सर्वे मेघा वातहता यथा ॥ १२२.३३ ॥
तदाप्रभृति तत्तीर्थं कोहनस्वेति विश्रुतम् ।
सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम् ॥ १२२.३४ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यनुत्तमम् ॥ १२२.३५ ॥
तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः ।
न पश्यति यमं देवमित्येवं शङ्करोऽब्रवीत् ॥ १२२.३६ ॥
अग्निप्रवेशं यः कुर्याज्जले वा नृपसत्तम ।
अग्निलोके वसेत्तावद्यावत्कल्पशतत्रयम् ॥ १२२.३७ ॥
एवं वरुणलोकेऽपि वसित्वा कालमीप्सितम् ।
इह लोकमनुप्राप्तो महाधनपतिर्भवेत् ॥ १२२.३८ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोहनतीर्थमाहात्म्यवर्णनं नाम द्वाविंशत्युत्तरशततमोऽध्यायः ॥