स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १२८


अध्याय १२८

मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र भृकुटेश्वरमुत्तमम् ।
यत्र सिद्धो महाभागो भृगुः परमकोपनः ॥ १२८.१ ॥
तेन वर्षशतं साग्रं तपश्चीर्णं पुरानघ ।
पुत्रार्थं वरयामास पुत्रं पुत्रवतां वरः ॥ १२८.२ ॥
वरो दत्तो महाभाग देवेनान्धकघातिना ।
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ॥ १२८.३ ॥
अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् ।
भृकुटेशं तु यः कश्चिद्घृतेन मधुना सह ॥ १२८.४ ॥
पुत्रार्थी स्नापयेद्भक्त्या स लभेत्पुत्रमीप्सितम् ।
तत्र तीर्थे तु यः स्नात्वा दद्याद्विप्राय काञ्चनम् ॥ १२८.५ ॥
गोदानं वा महीं वापि तस्य पुण्यफलं शृणु ॥ १२८.६ ॥
ससमुद्रगुहा तेन सशैलवनकानना ।
दत्ता पृथ्वी न सन्देहस्तेन सर्वा नृपोत्तम ॥ १२८.७ ॥
तेन दानेन स स्वर्गे क्रीडयित्वा यथासुखम् ।
मर्त्ये भवति राजेन्द्रो ब्राह्मणो वा सुपूजितः ॥ १२८.८ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृकुटेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥