स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १२९


अध्याय १२९

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल ब्रह्मतीर्थमनुत्तमम् ।
अन्येषां चैव तीर्थानां परात्परतरं महत् ॥ १२९.१ ॥
तत्र तीर्थे सुरश्रेष्ठो ब्रह्मा लोकपितामहः ।
चतुर्णामपि वर्णानां नर्मदातटमाश्रितः ॥ १२९.२ ॥
वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ।
तत्क्षालयति देवेशो दर्शनादेव पातकम् ॥ १२९.३ ॥
श्रुतिस्मृत्युदितान्येव तत्र स्नात्वा द्विजर्षभाः ।
प्रायश्चित्तानि कुर्वन्ति तेषां वासस्त्रिविष्टपे ॥ १२९.४ ॥
ये पुनः शास्त्रमुत्सृज्य कामलोभप्रपीडिताः ।
प्रायश्चित्तं वदिष्यन्ति ते वै निरयगामिनः ॥ १२९.५ ॥
स्नात्वादौ पातकी ब्रह्मन्नत्वा तु कीर्तयेदघम् ।
तस्य तन्नश्यते क्षिप्रं तमः सूर्योदये यथा ॥ १२९.६ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।
अग्निष्टोमस्य यज्ञस्य स लभेत्फलमुत्तमम् ॥ १२९.७ ॥
तत्र तीर्थे तु यद्दानं ब्रह्मोद्दिश्य प्रयच्छति ।
तदक्षयफलं सर्वमित्येवं शङ्करोऽब्रवीत् ॥ १२९.८ ॥
गायत्रीसारमात्रोऽपि तत्र यः क्रियते जपः ।
ऋग्यजुःसामसहितः स भवेन्नात्र संशयः ॥ १२९.९ ॥
तत्र तीर्थे तु यो भक्त्या त्यजेद्देहं सुदुस्त्यजम् ।
अनिवर्तिका गतिस्तस्य ब्रह्मलोकान्न संशयः ॥ १२९.१० ॥
यावदस्थीनि तिष्ठन्ति ब्रह्मतीर्थे च देहिनाम् ।
तावद्वर्षसहस्राणि देवलोके महीयते ॥ १२९.११ ॥
अवतीर्णस्ततो लोके ब्रह्मज्ञो जायते कुले ।
उत्तमः सर्ववर्णानां देवानामिव देवता ॥ १२९.१२ ॥
विद्यास्थानानि सर्वाणि वेत्ति वेदाङ्गपारगः ।
जायते पूजितो लोके राजभिः स न संशयः ॥ १२९.१३ ॥
पुत्रपौत्रसमोपेतः सर्वव्याधिविवर्जितः ।
जीवेद्वर्षशतं साग्रं ब्रह्मतीर्थप्रभावतः ॥ १२९.१४ ॥
एतत्पुण्यं पापहरं तीर्थं ज्ञानवतां वरम् ।
ये पश्यन्ति महात्मानो ह्यमृतत्वं प्रयान्ति ते ॥ १२९.१५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ब्रह्मतीर्थमाहात्म्यवर्णनं नामैकोनत्रिंशदधिकशततमोऽध्यायः॥