स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १३४


अध्याय १३४

श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले रामेश्वरमनुत्तमम् ।
तीर्थं पापहरं पुण्यं सर्वदुःखघ्नमुत्तमम् ॥ १३४.१ ॥
तत्र तीर्थे तु ये स्नात्वा पूजयन्ति महेश्वरम् ।
महादेवं महात्मानं मुच्यन्ते सर्वकिल्बिषैः ॥ १३४.२ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रामेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः ॥