स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १४१


अध्याय १४१

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तापेश्वरमनुत्तमम् ।
यत्र सा हरिणी सिद्धा व्याधभीता नरेश्वर ॥ १४१.१ ॥
जले प्रक्षिप्य गात्राणि ह्यन्तरिक्षं गता तु सा ।
व्याधो विस्मितचित्तस्तु तां मृगीमवलोक्य च ॥ १४१.२ ॥
विमुच्य सशरं चापं प्रारेभे तप उत्तमम् ।
दिव्यं वर्षसहस्रं तु व्याधेनाचरितं तपः ॥ १४१.३ ॥
अतीते तु ततः काले परितुष्टो महेश्वरः ।
वरं ब्रूहि महाव्याध यत्ते मनसि रोचते ॥ १४१.४ ॥

व्याध उवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
तव पार्श्वे महादेव वासो मे प्रतिदीयताम् ॥ १४१.५ ॥

ईश्वर उवाच -
एवं भवतु ते व्याध यस्त्वया काङ्क्षितो वरः ।
दैवदेवो महादेव इत्युक्त्वान्तरधीयत ।
गते चादर्शनं देवे स्थापयित्वा महेश्वरम् ॥ १४१.६ ॥
पूजयित्वा विधानेन गतो व्याधस्ततो दिवम् ।
तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ १४१.७ ॥
व्याधानुतापसंजातं तापेश्वरमिति श्रुतम् ।
तत्र तीर्थे तु यः स्नात्वा सम्पूजयति शङ्करम् ॥ १४१.८ ॥
शिवलोकमवाप्नोति मामुवाच महेश्वरः ।
ये स्नाता नर्मदातोये तीर्थे तापेश्वरे नराः ॥ १४१.९ ॥
तापत्रयविमुक्तास्ते नात्र कार्या विचारणा ।
अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः ॥ १४१.१० ॥
स्नानं समाचरेन्नित्यं सर्वपातकशान्तये ॥ १४१.११ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तापेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः ॥