स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १४४


अध्याय १४४

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज द्वादशीतीर्थमुत्तमम् ।
क्षरन्ति सर्वदानानि जपहोमबलिक्रियाः ॥ १४४.१ ॥
न क्षीयते तु राजेन्द्र चक्रतीर्थे तु यत्कृतम् ।
यद्भूतं यद्भविष्यच्च तीर्थमाहात्म्यमुत्तमम् ॥ १४४.२ ॥
कथितं तन्मया सर्वं पृथग्भावेन भारत ॥ १४४.३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशीतीर्थमहात्म्यवर्णनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥