स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १५२


अध्याय १५२

श्रीमार्कण्डेय उवाच -
ततो गच्छेद्धरापाल भार्गलेश्वरमुत्तमम् ।
शङ्करं जगतः प्राणं स्मृतमात्राघनाशनम् ॥ १५२.१ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १५२.२ ॥
तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करिष्यति ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ १५२.३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भार्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विपञ्चाशदधिकशततमोऽध्यायः ॥