स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १५४


अध्याय १५४

श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले तीर्थं कलकलेश्वरम् ।
विख्यातं सर्वलोकेषु स्वयं देवेन निर्मितम् ॥ १५४.१ ॥
अन्धकं समरे हत्वा देवदेवो महेश्वरः ।
सहितो देवगन्धर्वैः किन्नरैश्च महोरगैः ॥ १५४.२ ॥
शङ्खतूर्यनिनादैश्च मृदङ्गपणवादिभिः ।
वीणावेणुरवैश्चान्यैः स्तुतिभिः पुष्कलादिभिः ॥ १५४.३ ॥
गायन्ति सामानि यजूंषि चान्ये छन्दांसि चान्ये ऋचमुद्गिरन्ति ।
स्तोत्रैरनेकैरपरे गृणन्ति महेश्वरं तत्र महानुभावाः ॥ १५४.४ ॥
प्रमथानां निनादेन कल्कलेन च बन्दिनाम् ।
यस्मात्प्रतिष्ठितं लिङ्गं तस्माज्जातं तदाख्यया ॥ १५४.५ ॥
तत्र तीर्थे तु यः स्नात्वा वीक्षेत्कलकलेश्वरम् ।
वाजपेयात्परं पुण्यं स लभेन्मानवो भुवि ॥ १५४.६ ॥
तेन पुण्येन पूतात्मा प्राणत्यागाद्दिवं व्रजेत् ।
आरूढः परमं यानं गीयमानोऽप्सरोगणैः ॥ १५४.७ ॥
उपभुज्य महाभोगान्कालेन महता ततः ।
मर्त्यलोके महात्मासौ जायते विमले कुले ॥ १५४.८ ॥
ब्राह्मणः सुभगो लोके वेदवेदाङ्गपारगः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ १५४.९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कलकलेश्वरतीर्थफलमाहात्म्यवर्णनं नाम चतुःपञ्चाशदधिकशततमोऽध्यायः ॥