स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १५८


अध्याय १५८

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्परं तीर्थं सङ्गमेश्वरमुत्तमम् ।
नर्मदादक्षिणे कूले सर्वपापभयापहम् ॥ १५८.१ ॥
धनदस्तत्र विश्रान्तो मुहूर्तं नृपसत्तम ।
पितृलोकात्समायातः कैलासं धरणीधरम् ॥ १५८.२ ॥
प्रत्ययार्थं नृपश्रेष्ठ ह्यद्यापि धरणीतले ।
कृष्णवर्णा हि पाषाणा दृश्यन्ते स्फटिकोज्ज्वलाः ॥ १५८.३ ॥
विन्ध्यनिर्झरनिष्क्रान्ता पुण्यतोया सरिद्वरा ।
प्रविष्टा नर्मदातोये सर्वपापप्रणाशने ॥ १५८.४ ॥
सङ्गमे तत्र यः स्नात्वा पूजयेत्सङ्गमेश्वरम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ १५८.५ ॥
घण्टापताकावितनं यो ददेत्सङ्गमेश्वरे ।
हंसयुक्तविमानस्थो दिव्यस्त्रीशतसंवृतः ॥ १५८.६ ॥
स रुद्रपदमाप्नोति रुद्रस्यानुचरो भवेत् ।
दधि भक्ते न देवस्य यः कुर्याल्लिङ्गपूरणम् ॥ १५८.७ ॥
सिक्थसंख्यं शिवे लोके स वसेत्कालमीप्सितम् ।
श्रीफलैः पूरयेल्लिङ्गं निःस्वो भूत्वा भवस्य तु ॥ १५८.८ ॥
सोऽपि तत्फलमाप्नोति गतः स्वर्गे नरेश्वर ।
अक्षया सन्ततिस्तस्य जायते सप्तजन्मसु ॥ १५८.९ ॥
स्नपनं देवदेवस्य दध्ना मधुघृतेन वा ।
यः करोति विधानेन तस्य पुण्यफलं शृणु ॥ १५८.१० ॥
धृतक्षीरवहा नद्यो यत्र वृक्षा मधुस्रवाः ।
तत्र ते मानवा यान्ति सुप्रसन्ने महेश्वरे ॥ १५८.११ ॥
पत्रं पुष्पं फलं तोयं यस्तु दद्यान्महेश्वरे ।
तत्सर्वं सप्तजन्मानि ह्यक्षयं फलमश्नुते ॥ १५८.१२ ॥
सर्वेषामेव पात्राणां महापात्रं महेश्वरः ।
तस्मात्सर्वप्रयत्नेन पूजनीयो महेश्वरः ॥ १५८.१३ ॥
ब्रह्मचर्यस्थितो नित्यं यस्तु पूजयते शिवम् ।
इह जीवन्स देवेशो मृतो गच्छेदनामयम् ॥ १५८.१४ ॥
शिवे तु पूजिते पार्थ यत्फलं प्राप्यते बुधैः ।
योगीन्द्रे चैव तत्पार्थ पूजिते लभते फलम् ॥ १५८.१५ ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
येषां गृहेषु भुञ्जन्ति शिवभक्तिरता नराः ॥ १५८.१६ ॥
संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन्मुनिः ।
तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ १५८.१७ ॥
यत्फलं वेदविदुषि भोजिते शतसंख्यया ।
तत्फलं जायते पार्थ ह्येकेन शिवयोगिना ॥ १५८.१८ ॥
यत्र भुञ्जति भस्माङ्गी मूर्खो वा यदि पण्डितः ।
तत्र भुञ्जति देवेशः सपत्नीको वृषध्वजः ॥ १५८.१९ ॥
विप्राणां वेदविदुषां कोटिं संभोज्य यत्फलम् ।
भिक्षामात्रप्रदानेन तत्फलं शिवयोगिनाम् ॥ १५८.२० ॥
सङ्गमेश्वरमासाद्य प्राणत्यागं करोति यः ।
न तस्य पुनरावृत्तिः शिवलोकात्कदाचन ॥ १५८.२१ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सङ्गमेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टपञ्चाशदधिकशततमोऽध्यायः ॥