स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १६१


अध्याय १६१

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज सर्पतीर्थमनुत्तमम् ।
यत्र सिद्धा महासर्पास्तपस्तप्त्वा युधिष्ठिर ॥ १६१.१ ॥
वासुकिस्तक्षको घोरः सार्प ऐरावतस्तथा ।
कालियश्च महाभागः कर्कोटकधनंजयौ ॥ १६१.२ ॥
शङ्खचूडो महातेजा धृतराष्ट्रो वृकोदरः ।
कुलिको वामनश्चैव तेषां ये पुत्रपौत्रिणः ॥ १६१.३ ॥
तत्र तीर्थे महापुण्ये तपस्तप्त्वा सुदुष्करम् ।
भुञ्जन्ति विविधान्भोगान्क्रीडन्ति च यथासुखम् ॥ १६१.४ ॥
तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
वाजपेयफलं तस्य पुरा प्रोवाच शङ्करः ॥ १६१.५ ॥
स्नातानां सर्पतीर्थे तु नराणां भुवि भारत ।
सर्पवृश्चिकजातिभ्यो न भयं विद्यते क्वचित् ॥ १६१.६ ॥
मृतो भोगवतीं गत्वा पूज्यमानो महोरगैः ।
नागकन्यापरिवृतो महाभोगपतिर्भवेत् ॥ १६१.७ ॥
मार्गशीर्षस्य मासस्य कृष्णपक्षे च याष्टमी ।
सोपवासः शुचिर्भूत्वा लिङ्गं सम्पूरयेत्तिलैः ।
यथाविभवसारेण गन्धपुष्पैः समर्चयेत् ॥ १६१.८ ॥
एवं विधाय विधिवत्प्रणिपत्य क्षमापयेत् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नरेश्वर ॥ १६१.९ ॥
तिलास्तत्र च यत्संख्याः पत्रपुष्पफलानि च ।
तावत्स्वर्गपुरे राजन्मोदते कालमीप्सितम् ॥ १६१.१० ॥
ततः स्वर्गात्परिभ्रष्टो जायते विमले कुले ।
सुरूपः सुभगश्चैव धनकोटिपतिर्भवेत् ॥ १६१.११ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सर्पतीर्थमाहात्म्यवर्णनं नामैकषष्ट्युत्तरशततमोऽध्यायः ॥