स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १६५


अध्याय १६५

श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले सिद्धेश्वरमिति श्रुतम् ।
तीर्थं परं महाराज सिद्धैः कृतमिति प्रभो ॥ १६५.१ ॥
तत्र तीर्थं महापुण्यं सर्वतीर्थेषु पावनम् ।
नर्मदाया महाराज दक्षिणं कूलमाश्रितम् ॥ १६५.२ ॥
तत्र तीर्थे नरः स्नात्वा तर्पयेत्पितृदेवताः ।
श्राद्धं तत्रैव यो दद्यात्पित्ःनुद्दिश्य भारत ॥ १६५.३ ॥
तृप्यन्ति पितरस्तस्य द्वादशाब्दान्न संशयः ।
तत्र तीर्थे तु यो भक्त्या स्नात्वा पूजयते शिवम् ॥ १६५.४ ॥
रात्रौ जागरणं कृत्वा पठेत्पौराणिकीं कथाम् ।
ततः प्रभाते विमले स्नानं कुर्याद्यथाविधि ॥ १६५.५ ॥
वीक्षते गिरिजाकान्तं स गच्छेत्परमां गतिम् ।
पुरा सिद्धा महाभागाः कपिलाद्या महर्षयः ॥ १६५.६ ॥
जपन्तश्च परं ब्रह्म योगसिद्धा महाव्रताः ।
सिद्धिं ते परमां प्राप्ता नर्मदायाः प्रभावतः ॥ १६५.७ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः ॥