स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १७३
अध्याय १७३
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
नर्मदादक्षिणे कूले सर्वपापप्रणाशनम् ॥ १७३.१ ॥
सिद्धेश्वरमिति ख्यातं महापातकनाशनम् ।
यत्र शुद्धिं परां प्राप्तो देवदेवो महेश्वरः ।
पुरा हत्यायुतः पार्थ देवदेवस्त्रिशूलधृक् ॥ १७३.२ ॥
पुरा पञ्चशिरा आसीद्ब्रह्मा लोकपितामहः ।
तेनानृतं वचश्चोक्तं कस्मिंश्चित्कारणान्तरे ॥ १७३.३ ॥
तच्छ्रुत्वा सहसा तस्मै चुकोप परमेश्वरः ।
छेदयामास भगवान्मूर्धानं करजैस्तदा ॥ १७३.४ ॥
तस्य तत्करसंलग्नं च्यवते न कदाचन ।
ततो हि देवदेवेशः पर्यटन् पृथिवीमिमाम् ॥ १७३.५ ॥
ततो वाराणसीं प्राप्तस्तस्यां तदपतच्छिरः ।
पतिते तु कपाले च ब्रह्महत्या न मुञ्चति ॥ १७३.६ ॥
ततस्तु सागरे गत्वा पूर्वे च दक्षिणे तथा ।
पश्चिमे चोत्तरे पार्थ देवदेवो महेश्वरः ॥ १७३.७ ॥
पर्यटन्सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति ।
नर्मदादक्षिणे कूले सुतीर्थं प्राप्तवान् प्रभुः ॥ १७३.८ ॥
कुलकोटिं समासाद्य प्रार्थयामास चात्मवान् ।
प्रायश्चित्तं ततः कृत्वा बभूव गतकल्मषः ॥ १७३.९ ॥
ततो निष्कल्मषो जातो देवदेवो महेश्वरः ।
हत्वा सुरेभ्यस्तत्स्थानं ततश्चान्तर्दधे प्रभुः ॥ १७३.१० ॥
तदाप्रभृति तत्तीर्थं शुद्धरुद्रेति कीर्तितम् ।
विख्यातं त्रिषु लोके ब्रह्महत्याहरं परम् ॥ १७३.११ ॥
मासे मासे सिते पक्षेऽमावास्यायां युधिष्ठिर ।
स्नात्वा तत्र विधानेन तर्पयेत्पितृदेवताः ॥ १७३.१२ ॥
दद्यात्पिण्डं पित्ःणां तु भावितेनान्तरात्मना ।
तस्य ते द्वादशाब्दानि सुतृप्ताः पितरो नृप ॥ १७३.१३ ॥
गन्धधूपप्रदीपाद्यैरभ्यर्च्य परमेश्वरम् ।
शुद्धेश्वराभिधानं तु शिवलोके महीयते ॥ १७३.१४ ॥
एतत्ते कथितं राजञ्छुद्धरुद्रमनुत्तमम् ।
मया श्रुतं यथा देवसकाशाच्छूलपाणिनः ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ १७३.१५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ॥