स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १७६

अध्यायः १७६

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल पिङ्गलावर्तमुत्तमम् ।
तीर्थं सर्वगुणोपेतं कामिकं भुवि दुर्लभम् ॥ १७६.१ ॥
वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् ।
पिङ्गलेश्वरमासाद्य तत्सर्वं विलयं व्रजेत् ॥ १७६.२ ॥
तत्र स्नानं च दानं च देवखाते कृतं नृप ।
अक्षयं तद्भवेत्सर्वमित्येवं शङ्करोऽब्रवीत् ॥ १७६.३ ॥
पृथिव्यां सर्वतीर्थेषु समुद्धृत्य शुभोदकम् ।
मुक्तं तत्र सुरैः खात्वा देवखातं ततोऽभवत् ॥ १७६.४ ॥

युधिष्ठिर उवाच -
कथं तु देवखातं तत्संजातं द्विजसत्तम ।
सुराः सर्वे कथं तत्र मुमुचुर्वारि तीर्थजम् ।
सर्वं कथय मे विप्र श्रवणे लम्पटं मनः ॥ १७६.५ ॥

श्रीमार्कण्डेय उवाच -
यदा तु शूलशुद्ध्यर्थं रुद्रो देवगणैः सह ।
बभ्राम पृथिवीं सर्वां कमण्डलुधरः शुभाम् ॥ १७६.६ ॥
प्रभासाद्येषु तीर्थेषु स्नानं चक्रुः सुरास्तदा ।
सर्वतीर्थोत्थितं तोयं पात्रे वै निहितं तु तैः ॥ १७६.७ ॥
शूलभेदमनुप्राप्य शूलं शुद्धं तु शूलिनः ।
तत्रोत्थमुदकं गृह्य आगता भृगुकच्छके ॥ १७६.८ ॥
तत्रापश्यंस्ततो ह्यग्निं च पिङ्गलाक्षं च रोगिणम् ।
तपस्युग्रे व्यवसितं ध्यायमानं महेश्वरम् ॥ १७६.९ ॥
हविर्भागैस्तु विप्राणां राज्ञां चैवामयाविनाम् ।
दृष्ट्वा तु बहुरोगार्तमग्निं देवमुखं सुराः ।
प्राहुस्ते सहिता देवं शङ्करं लोकशङ्करम् ॥ १७६.१० ॥
देवा ऊचुः ।
प्रसादः क्रियतां शम्भो पिङ्गलस्यामयाविनः ।
यथा हि नीरुजः कायो हविषां ग्रहणक्षमः ।
पुनर्भवति पिङ्गस्तु तथा कुरु महेश्वर ॥ १७६.११ ॥

ईश्वर उवाच -
भोभोः सुरा हि तपसा तुष्टोऽहं वो विशेषतः ।
वचनाच्च विशेषेण ददाम्यभिमतं वरम् ॥ १७६.१२ ॥

पिङ्गल उवाच -
यदि तुष्टोऽसि देवेश दीयते देव चेप्सितम् ।
चन्द्रादित्यौ च नयने कृत्वात्र कलया स्थितः ॥ १७६.१३ ॥
तथा पुनर्नवः कायो भवेद्वै मम शङ्कर ।
तथा कुरु विरूपाक्ष नमस्तुभ्यं पुनः पुनः ॥ १७६.१४ ॥

मार्कण्डेय उवाच -
ततः स भगवाञ्छम्भुर्मूर्तिमादित्यरूपिणीम् ।
कृत्वा तु तस्य तद्रोगमपानुदत शङ्करः ॥ १७६.१५ ॥
ततः पुनर्नवीभूतः पुनः प्रोवाच शङ्करम् ।
अत्रैव स्थीयतां शम्भो तथैव भास्करः स्वयम् ॥ १७६.१६ ॥
प्राणिनामुपकाराय रोगाणामुपशान्तये ।
पापानां ध्वंसनार्थाय श्रेयसां चैव वृद्धये ॥ १७६.१७ ॥
एवमुक्तस्तु भगवान्पिङ्गलेन महात्मना ।
अवतारं च कृतवान् गीर्वाणानिदमब्रवीत् ॥ १७६.१८ ॥

ईश्वर उवाच -
मुञ्चध्वमुदकं देवास्तीर्थेभ्यो यत्समाहृतम् ।
मम चोत्तरतः कृत्वा खातं देवमयं शुभम् ॥ १७६.१९ ॥
तत्र निक्षिप्यतां वारि सर्वरोगविनाशनम् ।
सर्वपापहरं दिव्यं सर्वैरपि सुरादिभिः ॥ १७६.२० ॥
एवमुक्ताः सुराः सर्वे खातं कृत्वा तथोत्तरे ।
वयस्त्रिंशत्कोटिगणैर्मुक्तं तत्तीर्थजं जलम् ॥ १७६.२१ ॥
प्रोचुस्ते सहिताः सर्वे विरूपाक्षपुरोगमाः ।
यः कश्चिद्देवखातेऽस्मिन्मृदालम्भनपूर्वकम् ॥ १७६.२२ ॥
स्नानं कृत्वा रविदिने संस्नाय नर्मदाजले ।
श्राद्धं कृत्वा पितृभ्यो वै दानं दत्त्वा स्वशक्तितः ॥ १७६.२३ ॥
पूजयिष्यति पिङ्गेशं तस्य वासस्त्रिविष्टपे ।
भविष्यति सुरैरुक्तं शृणोति सकलं जगत् ॥ १७६.२४ ॥
आमया भुवि मर्त्यानां क्षयरोगविचर्चिकाः ।
व्याधयो विकृताकाराः कासश्वासज्वरोद्भवाः ॥ १७६.२५ ॥
एकद्वित्रिचतुर्थाहा ये ज्वरा भूतसम्भवाः ।
ये चान्ये विकृता दोषा दद्रुश्च कामलं तथा ॥ १७६.२६ ॥
दिनैस्ते सप्तभिर्यान्ति नाशं स्नानैर्रवेर्दिने ।
शतभेदप्रभिन्ना ये कुष्ठा बहुविधास्तथा ॥ १७६.२७ ॥
शतमादित्यवाराणां स्नायादष्टोत्तरं तु यः ।
सम्पूज्य शङ्करं दद्यात्तिलपात्रं द्विजातये ॥ १७६.२८ ॥
नश्यन्ति तस्य कुष्ठानि गरुडेनेव पन्नगाः ।
एवमुक्त्वा गताः सर्वे त्रिदशास्त्रिदशालयम् ॥ १७६.२९ ॥

मार्कण्डेय उवाच -
नदीषु देवखातेषु तडागेषु सरित्सु च ।
स्नानं समाचरेन्नित्यं नरः पापैः प्रमुच्यते ॥ १७६.३० ॥
षष्टितीर्थसहस्रेषु षष्टितीर्थशतेषु च ।
यत्फलं स्नानदानेषु देवखाते ततोऽधिकम् ॥ १७६.३१ ॥
देवखातेषु यः स्नात्वा तर्पयित्वा पितॄन्नृप ।
पूजयेद्देवदेवेशं पिङ्गलेश्वरमुत्तमम् ॥ १७६.३२ ॥
सोऽश्वमेधस्य यज्ञस्य वाजपेयस्य भारत ।
द्वयोः पुण्यमवाप्नोति नात्र कार्या विचारणा ॥ १७६.३३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥