स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १७७

अध्याय १७७

श्रीमार्कण्डेय उवाच -
भूतीश्वरं ततो गच्छेत्सर्वतीर्थेष्वनुत्तमम् ।
दर्शनादेव राजेन्द्र यस्य पापं प्रणश्यति ॥ १७७.१ ॥
तत्र स्थाने पुरा पार्थ देवदेवेन शूलिना ।
उद्धूलनं कृतं गात्रे तेन भूतीश्वरं तु तत् ॥ १७७.२ ॥
पुष्ये वा जन्मनक्षत्रे अमावास्यां विशेषतः ।
भूतीश्वरे नरः स्नात्वा कुलकोटिं समुद्धरेत् ॥ १७७.३ ॥
तत्र स्थाने तु यो भक्त्या कुरुते ह्यङ्गगुण्ठनम् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नराधिप ॥ १७७.४ ॥
यावन्तो भूतिकणिका गात्रे लग्नाः शिवालये ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥ १७७.५ ॥
सर्वेषामेव स्नानानां भस्मस्नानं परं स्मृतम् ।
पुराणैरृषिभिः प्रोक्तं सर्वशास्त्रेष्वनुत्तमम् ॥ १७७.६ ॥
एककालं द्विकालं वा त्रिकालं चापि यः सदा ।
स्नानं करोति चाग्नेयं पापं तस्य प्रणश्यति ॥ १७७.७ ॥
दिव्यस्नानाद्वरं स्नानं वायव्यं भरतर्षभ ।
वायव्यादुत्तमं ब्राह्म्यं वरं ब्राह्म्यात्तु वारुणम् ॥ १७७.८ ॥
आग्नेयं वारुणाच्छ्रेष्ठं यस्मादुक्तं स्वयम्भुवा ।
तस्मात्सर्वप्रयत्नेन ह्याग्नेयं स्नानमाचरेत् ॥ १७७.९ ॥

युधिष्ठिर उवाच -
आग्नेयं वारुणं ब्राह्म्यं वायव्यं दिव्यमेव च ।
किमुक्तं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥ १७७.१० ॥

मार्कण्डेय उवाच -
आग्नेयं भस्मना स्नानमवगाह्य च वारुणम् ।
आपोहिष्ठेति च ब्राह्म्यं वायव्यं गोरजः स्मृतम् ॥ १७७.११ ॥
सूर्ये दृष्टे तु यत्स्नानं गङ्गातोयेन तत्समम् ।
तत्स्नानं पञ्चमं प्रोक्तं दिव्यं पाण्डवसत्तम ॥ १७७.१२ ॥
तस्मात्सर्वप्रयत्नेन स्नात्वा भूतीश्वरे तु यः ।
पूजयेद्देवमीशानं स बाह्याभ्यन्तरः शुचिः ॥ १७७.१३ ॥
तत्र स्थाने तु ये नित्यं ध्यायन्ति परमं पदम् ।
सूक्ष्मं चातीन्द्रियं नित्यं ते धन्या नात्र संशयः ॥ १७७.१४ ॥
मुक्तितीर्थं तु तत्तीर्थं सर्वतीर्थेष्वनुत्तमम् ।
दर्शनादेव यस्यैव पापं याति महत्क्षयम् ॥ १७७.१५ ॥
जायते पूजया राज्यं तत्र स्तुत्वा महेश्वरम् ।
जपेन पापसंशुद्धिर्ध्यानेनानन्त्यमश्नुते ॥ १७७.१६ ॥
ओं ज्योतिः स्वरूपमनादिमध्यमनुत्पाद्यमानमनुचार्यमाणाक्षरम् ।
सर्वभूतस्थितं शिवं सर्वयोगेश्वरं सर्वलोकेश्वरं मोहशोकहीनं महाज्ञानगम्यम् ॥ १७७.१७ ॥
तत्र तीर्थे तु यो गत्वा स्नानं कुर्यान्नरेश्वर ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।
एवम्भूतं न जानन्ति मोक्षापेक्षणिका नराः ॥ १७७.१८ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भूतीश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्तत्यधिकशततमोऽध्यायः ॥