स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १८५

अध्याय १८५
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल एरण्डीतीर्थमुत्तमम् ।
स्नानमात्रेण तत्रैव ब्रह्महत्या प्रणश्यति ॥ १८५.१ ॥
मासि चाश्वयुजे तत्र शुक्लपक्षे चतुर्दशीम् ।
उपोष्य प्रयतः स्नातस्तर्पयेत्पितृदेवताः ॥ १८५.२ ॥
पुत्रर्द्धिरूपसम्पन्नो जीवेच्च शरदां शतम् ।
शिवलोकं मृतो याति नात्र कार्या विचारणा ॥ १८५.३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीत्युत्तरशततमोऽध्यायः ॥