स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १९१
अध्याय १९१
श्रीमार्कण्डेय उवाच -
सिद्धेश्वरं ततो गच्छेत्तस्यैव तु समीपतः ।
अमृतस्रावि तल्लिङ्गमाद्यं स्वायम्भुवं तथा ॥ १९१.१ ॥
दृष्टमात्रेण येनेह ह्यनृणो जायते नरः ।
पुरा वर्षशतं साग्रमाराध्य परमेश्वरम् ॥ १९१.२ ॥
प्राप्नुयुः परमां सिद्धिमादित्या द्वादशैव तु ।
अतः सिद्धेश्वरः प्रोक्तः सिद्धिदः सिद्धिकाङ्क्षिणाम् ॥ १९१.३ ॥
युधिष्ठिर उवाच -
कथं सिद्धेश्वरे प्राप्ताः सिद्धिं देवा द्विजोत्तम ।
आदित्या इति यच्चोक्तं तन्मे विस्मापनं कृतम् ॥ १९१.४ ॥
तपस्युग्रे व्यवसिता आदित्याः केन हेतुना ।
सम्प्राप्तास्तु द्विजश्रेष्ठ सिद्धिं चैवाभिलाषिकीम् ॥ १९१.५ ॥
संक्षिप्य तु मया पृष्टं विस्तराद्द्विज शंस मे ॥ १९१.६ ॥
मार्कण्डेय उवाच -
अदितेर्द्वादशादित्या जाताः शक्रपुरोगमाः ।
इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽर्यमा ॥ १९१.७ ॥
विवस्वान्सविता पूषा ह्यंशुमान्विष्णुरेव च ।
त इमे द्वादशादित्या इच्छन्तो भास्करं पदम् ॥ १९१.८ ॥
नर्मदातटमाश्रित्य तपस्युग्रे व्यवस्थिताः ।
सिद्धेश्वरे महाराज काश्यपेयैर्महात्मभिः ॥ १९१.९ ॥
परा सिद्धिरनुप्राप्ता द्वादशादित्यसंज्ञितैः ।
स्थापितश्च जगद्धाता तस्मिंस्तीर्थे दिवाकरः ॥ १९१.१० ॥
स्वकीयांशविभागेन द्वादशादित्यसंज्ञितैः ।
तदाप्रभृति तत्तीर्थं राजन्ख्यातिं गतं भुवि ॥ १९१.११ ॥
प्रलये समनुप्राप्ते ह्यादित्या द्वादशैव ते ।
द्वादशादित्यतो राजन् सम्भवन्ति युगक्षये ॥ १९१.१२ ॥
इन्द्रस्तपति पूर्वेण धाता चैवाग्निगोचरे ।
गभस्तिपतिर्वै याम्ये त्वष्टा नैरृतदिङ्मुखः ॥ १९१.१३ ॥
वरुणः पश्चिमे भागे मित्रस्तु वायवे तथा ।
विष्णुश्च सौम्यदिग्भागे विवस्वानीशगोचरे ॥ १९१.१४ ॥
ऊर्ध्वतश्चैव सविता ह्यधः पूषा विशोषयन् ।
अंशुमांस्तु तथा विष्णुर्मुखतो निर्गतं जगत् ॥ १९१.१५ ॥
प्रदहन्वै नरश्रेष्ठ बभ्रमुश्च इतस्ततः ।
यथैव ते महाराज दहन्ति सकलं जगत् ॥ १९१.१६ ॥
तथैव द्वादशादित्या भक्तानां भावसाधनाः ।
प्रातरुत्थाय यः स्नात्वा द्वादशादित्यसंज्ञितम् ॥ १९१.१७ ॥
पश्यते देवदेवेशं शृणु तस्यैव यत्फलम् ।
वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ॥ १९१.१८ ॥
नश्यते तत्क्षणादेव द्वादशादित्यदर्शनात् ।
प्रदक्षिणं तु यः कुर्यात्तस्य देवस्य भारत ॥ १९१.१९ ॥
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ।
तत्र तीर्थे तु सप्तम्यामुपवासेन यत्फलम् ॥ १९१.२० ॥
अन्यत्र सप्तसप्तम्यां लभन्ति न लभन्ति च ।
षष्ठ्यां वारे दैनकरे द्वादशादित्यदर्शनात् ॥ १९१.२१ ॥
प्रदक्षिणं तु यः कुर्यात्तस्य पापं तु नश्यति ।
अरोगी सप्तजन्मानि भवेद्वै नात्र संशयः ॥ १९१.२२ ॥
यस्तु प्रदक्षिणशतं दद्याद्भक्त्या दिने दिने ।
दद्रूपिटककुष्ठानि मण्डलानि विचर्चिकाः ॥ १९१.२३ ॥
नश्यन्ति व्याधयः सर्वे गरुडेनेव पन्नगाः ।
पुत्रप्राप्तिर्भवेत्तस्य षष्ट्या वासरसेवनात् ॥ १९१.२४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशादित्यतीर्थमाहात्म्यवर्णनं नामैकनवत्युत्तरशततमोऽध्यायः ॥