स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २०३

अध्यायः २०३

श्रीमार्कण्डेय उवाच -
ततो गच्छेद्धराधीश कोटितीर्थमनुत्तमम् ।
यत्र सिद्धा महाभागाः कोटिसंख्या महर्षयः ॥ २०३.१ ॥
तपः कृत्वा सुविपुलमृषिभिः स्थापितः शिवः ।
तथा कोटीश्वरी देवी चामुण्डा महिषार्दिनी ॥ २०३.२ ॥
कृष्णपक्षे चतुर्दश्यां मासि भाद्रपदे नृप ।
तीर्थकोटीः समाहूय मुनिभिः स्थापितः शिवः ॥ २०३.३ ॥
तस्यां तिथौ च हस्तर्क्षं सर्वपापप्रणाशनम् ।
तत्र तीर्थे तदा गत्वा स्नानं कृत्वा समाहितः ॥ २०३.४ ॥
नरकादुद्धरत्याशु पुरुषानेकविंशतिम् ।
तिलोदकप्रदानेन किमुत श्राद्धदो नरः ॥ २०३.५ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
तस्य तीर्थस्य योगेन सर्वं कोटिगुणं भवेत् ॥ २०३.६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्र्युत्तरद्विशततमोऽध्यायः ॥