स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २०४

अध्यायः २०४
श्रीमार्कण्डेय उवाच -
भृगुतीर्थं ततो गच्छेत्तीर्थराजमनुत्तमम् ।
पैतामहं महापुण्यं सर्वपातकनाशनम् ॥ २०४.१ ॥
ब्रह्मणा तत्र तीर्थे तु पुरा वर्षशतत्रयम् ।
आराधनं कृतं शम्भोः कस्मिंश्चित्कारणान्तरे ॥ २०४.२ ॥

युधिष्ठिर उवाच -
किमर्थं मुनिशार्दूल ब्रह्मा लोकपितामहः ।
आराधयद्देवदेवं महाभक्त्या महेश्वरम् ॥ २०४.३ ॥
आराध्यः सर्वभूतानां जगद्भर्ता जगद्गुरुः ।
श्रोतव्यं श्रोतुमिच्छामि महदाश्चर्यमुत्तमम् ॥ २०४.४ ॥
धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः ।
कथयामास तद्वृत्तमितिहासं पुरातनम् ॥ २०४.५ ॥

मार्कण्डेय उवाच -
स्वपुत्रिकामभिगन्तुमिच्छन्पूर्वं पितामहः ।
शप्तस्तु देवदेवेन कोपाविष्टेन सत्तम ॥ २०४.६ ॥
वेदास्तव विनश्यन्ति ज्ञानं च कमलासन ।
अपूज्यः सर्वलोकानां भविष्यसि न संशयः ॥ २०४.७ ॥
एवं दत्ते ततः शापे ब्रह्मा खेदावृतस्तदा ।
रेवाया उत्तरे कूले स्नात्वा वर्षशतत्रयम् ।
तोषयामास देवेशं तुष्टः प्रोवाच शङ्करः ॥ २०४.८ ॥
पूज्यस्त्वं भविता लोके प्राप्ते पर्वणि पर्वणि ।
अहमत्र च वत्स्यामि देवैश्च पितृभिः सह ॥ २०४.९ ॥

श्रीमार्कण्डेय उवाच -
तदाप्रभृति तत्तीर्थं ख्यातिं प्राप्तं पितामहात् ।
सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम् ॥ २०४.१० ॥
तत्र भाद्रपदे मासि कृष्णपक्षे विशेषतः ।
अमावास्यां तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥ २०४.११ ॥
पिण्डदानेन चैकेन तिलतोयेन वा नृप ।
तृप्यन्ति द्वादशाब्दानि पितरो नात्र संशयः ॥ २०४.१२ ॥
कन्यागते तु यस्तत्र नित्यं श्राद्धप्रदो भवेत् ।
अवाप्य तृप्तिं तत्पूर्वे वल्गन्ति च हसन्ति च ॥ २०४.१३ ॥
सर्वेषु पितृतीर्थेषु श्राद्धं कृत्वास्ति यत्फलम् ।
तत्फलं समवाप्नोति दर्शे तत्र न संशयः ॥ २०४.१४ ॥
पैतामहे नरः स्नात्वा पूजयन्पार्वतीपतिम् ।
मुच्यते नात्र सन्देहः पातकैश्चोपपातकैः ॥ २०४.१५ ॥
तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् ।
अनिवर्तिका गती राजन्रुद्रलोकादसंशयम् ॥ २०४.१६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पैतामहतीर्थमाहात्म्यवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ॥