स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २०६

अध्यायः २०६
श्रीमार्कण्डेय उवाच -
गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् ।
सर्वपापहरं पुण्यं दशकन्येति विश्रुतम् ।
महादेवकृतं पुण्यं सर्वकामफलप्रदम् ॥ २०६.१ ॥
तत्र तीर्थे महादेवो दशकन्या गुणान्विताः ।
ब्रह्मणो वरयामास ह्युद्वाहेन युयोज ह ॥ २०६.२ ॥
तदाप्रभृति तत्तीर्थं दशकन्येति विश्रुतम् ।
सर्वपापहरं पुण्यमक्षयं कीर्तितं फलम् ॥ २०६.३ ॥
तत्र तीर्थे तु यः कन्यां ददाति समलंकृताम् ।
प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या स्वलंकृताम् ॥ २०६.४ ॥
तेन दानोत्थपुण्येन पूतात्मानो नराधिप ।
वसन्ति रोमसंख्यानि वर्षाणि शिवसन्निधौ ॥ २०६.५ ॥
ततः कालेन महता त्विह लोके नरेश्वर ।
मानुष्यं प्राप्य दुष्प्राप्यं धनकोटीपतिर्भवेत् ॥ २०६.६ ॥
तत्र तीर्थे तु यो भक्त्या स्नात्वा विप्राय काञ्चनम् ।
सम्प्रयच्छति शान्ताय सोऽत्यन्तं सुखमश्नुते ॥ २०६.७ ॥
वाचिकं मानसं वापि कर्मजं यत्पुरा कृतम् ।
तत्सर्वं विलयं याति स्वर्णदानेन भारत ॥ २०६.८ ॥
नरो दत्त्वा सुवर्णं चापि वालाग्रमात्रकम् ।
तत्र तीर्थे दिवं याति मृतो नास्त्यत्र संशयः ॥ २०६.९ ॥
तत्र विद्याधरैः सिद्धैर्विमानवरमास्थितः ।
पूज्यमानो वसेत्तावद्यावदाभूतसम्प्लवम् ॥ २०६.१० ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशकन्यातीर्थमाहात्म्यवर्णनं नाम षडुत्तरद्विशततमोऽध्यायः ॥