स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २१३

श्रीमार्कण्डेय उवाच -
पुनरन्यत्प्रवक्ष्यामि देवस्य चरितं महत् ।
श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते ॥ २१३.१ ॥
अबालो बालरूपेण ग्रामण्यैर्बालकैः सह ।
आमलैः क्रीडते शम्भुस्तत्ते वक्ष्यामि भारत ॥ २१३.२ ॥
सर्वैस्तैरामलाः क्षिप्ता ये ते देवेन पाण्डव ।
आनीतास्तत्क्षणादेव ततः पश्चात्क्षिपेद्धरः ॥ २१३.३ ॥
यावद्गत्वा दिशो दिग्भ्य आगच्छन्ति पृथक्पृथक् ।
तावत्तमामलं भूतं पश्यन्ति परमेश्वरम् ॥ २१३.४ ॥
तृतीये चैव यत्कर्म देवदेवस्य धीमतः ।
स्थानानां परमं स्थानमामलेश्वरमुत्तमम् ॥ २१३.५ ॥
तेन पूजितमात्रेण प्राप्यते परमं पदम् ॥ २१३.६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥