स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २१४
श्रीमार्कण्डेय उवाच -
चतुर्थं सम्प्रवक्ष्यामि देवस्य चरितं महत् ।
श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते ॥ २१४.१ ॥
कपाली कान्थिको भूत्वा यथा स व्यचरन्महीम् ।
पिशाचैर्राक्षसैर्भूतैर्डाकिनीयोगिनीवृतः ॥ २१४.२ ॥
भैरवं रूपमास्थाय प्रेतासनपरिग्रहः ।
त्रैलोक्यस्याभयं दत्त्वा चचार विपुलं तपः ॥ २१४.३ ॥
आषाढी तु कृता तत्र ह्याषाढीनाम विश्रुतम् ।
कन्था मुक्ता ततोऽन्यत्र देवेन परमेष्ठिना ॥ २१४.४ ॥
तदाप्रभृति राजेन्द्र स कन्थेश्वर उच्यते ।
तस्य दर्शनमात्रेण ह्यश्वमेधफलं लभेत् ॥ २१४.५ ॥
देवो मार्गे पुनस्तत्र भ्रमते च यदृच्छया ।
विक्रीणाति बलाकारो दृष्ट्वा चोक्तो हरेण तु ॥ २१४.६ ॥
यदि भद्र न चेत्कोपं करोषि मयि साम्प्रतम् ।
बलाभिर्भर मे लिङ्गं ददामि बहु ते धनम् ॥ २१४.७ ॥
एवमुक्तोऽथ देवेन स वणिग्लोभमोहितः ।
योजयामास बलका लिङ्गे चोत्तममध्यमान् ॥ २१४.८ ॥
तावद्यावत्क्षयं सर्वे गताः काले सुसंचिताः ।
स्थितं समुन्नतं लिङ्गं दृष्ट्वा शोकमुपागमत् ॥ २१४.९ ॥
कृत्वा तु खण्डखण्डानि स देवः परमेश्वरः ।
उवाच प्रहसन्वाक्यं तं दृष्ट्वा गतसाध्वसम् ॥ २१४.१० ॥
न च मे पूरितं लिङ्गं यास्यामि यदि मन्यसे ।
ददामि तत्र वित्तं ते यदि लिङ्गं प्रपूरितम् ॥ २१४.११ ॥
वणिगुवाच -
अधन्यः कृतपुण्योऽहं निग्राह्यः परमेश्वर ।
तव प्रियमकुर्वाणः शोचिष्ये शाश्वतीः समाः ॥ २१४.१२ ॥
एतच्छ्रुत्वा वचस्तस्य वणिक्पुत्रस्य भारत ।
असंक्षयं धनं दत्त्वा स्थितस्तत्र महेश्वरः ॥ २१४.१३ ॥
तदा प्रभृति राजेन्द्र बलाकैरिव भूषितम् ।
प्रत्ययार्थं स्थितं लिङ्गं लोकानुग्रहकाम्यया ॥ २१४.१४ ॥
देवेन रचितं पार्थ क्रीडया सुप्रतिष्ठितम् ।
देवमार्गमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ।
पश्यन् प्रपूजयन् वापि सर्वपापैः प्रमुच्यते ॥ २१४.१५ ॥
देवमार्गे तु यो गत्वा पूजयेद्बलाकेश्वरम् ।
पञ्चायतनमासाद्य रुद्रलोकं स गच्छति ॥ २१४.१६ ॥
देवमार्गे मृतानां तु नराणां भावितात्मनाम् ।
न भवेत्पुनरावृत्ती रुद्रलोकात्कदाचन ॥ २१४.१७ ॥
देवमार्गस्य माहात्म्यं भक्त्या श्रुत्वा नरोत्तम ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ २१४.१८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीकपालतीर्थमाहात्म्यवर्णनं नाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥