स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २३२

सूत उवाच -
इति वः कथितं विप्रा रेवामाहात्म्यमुत्तमम् ।
यथोपदिष्टं पार्थाय मार्कण्डेयेन वै पुरा ॥ २३२.१ ॥
तथा तीर्थकदम्बाश्च तेषु तीर्थविशेषतः ।
प्राधान्येन मया ख्याता यथासङ्ख्यं यथाक्रमम् ॥ २३२.२ ॥
एतत्पवित्रमतुलं ह्येतत्पापहरं परम् ।
नर्मदाचरितं पुण्यं माहात्म्यं मुनिभाषितम् ॥ २३२.३ ॥
सप्तकल्पानुगो विप्रो नर्मदायां मुनीश्वराः ।
मृकण्डतनयो धीमान्परमार्थविदुत्तमः ॥ २३२.४ ॥
संसेव्य सर्वतीर्थानि नदीः सर्वाश्च वै पुरा ।
बहुकल्पस्मरां रेवामालक्ष्य शिवदेहजाम् ॥ २३२.५ ॥
मे कलेति च शर्वोक्तां शरणं शर्वजां ययौ ।
अजराममरां देवीं दैत्यध्वंसकरीं पराम् ॥ २३२.६ ॥
महाविभवसंयुक्तां भवघ्नीं भवजाह्नवीम् ।
तस्यामाबध्य सत्प्रेम जातः सोऽप्यजरामरः ॥ २३२.७ ॥
षष्टितीर्थसहस्राणि षष्टिकोट्यश्च सत्तमाः ।
व्यवस्थितानि रेवायास्तीरयुग्मे पदे पदे ॥ २३२.८ ॥
सारितः परितः सन्ति सतीर्थास्तु सहस्रशः ।
न तुलां यान्ति रेवायास्ताश्च मन्ये मुनीश्वराः ॥ २३२.९ ॥
एतद्वः कथितं सर्वं यत्पृष्टमखिलं द्विजाः ।
यन्महेशमुखाच्छ्रुत्वा वायुराह ऋषीन्प्रति ॥ २३२.१० ॥
तद्वन्मृकण्डतनयोऽप्यनुभूयाखिलां नदीम् ।
सतीर्थां पदशः प्राह पाण्डुपुत्राय पावनीम् ॥ २३२.११ ॥
एतच्च कथितं सर्वं संक्षेपेण द्विजोत्तमाः ।
नर्मदाचरितं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ २३२.१२ ॥
किमन्यैः सरितां तोयैः सेवितैस्तु सहस्रशः ।
यदि संसेव्यते तोयं रेवायाः पापनाशनम् ॥ २३२.१३ ॥
मेकलाजलसंसेवी मुक्तिमाप्नोति शाश्वतीम् ॥ २३२.१४ ॥
यथा यथा भजेन्मर्त्यो यद्यदिच्छति तीर्थगः ।
तत्तदाप्नोति नियतं श्रद्धयाश्रद्धयापि च ॥ २३२.१५ ॥
इदं ब्रह्मा हरिरिदमिदं साक्षात्परो हरः ।
इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम् ॥ २३२.१६ ॥
तावद्गर्जन्ति तीर्थानि नद्यो हृदयफलप्रदाः ।
यावन्न स्मर्यते रेवा सेवाहेवा कलौ नरैः ॥ २३२.१७ ॥
ध्रुवं लोके हितार्थाय शिवेन स्वशरीरतः ।
शक्तिः कापि सरिद्रूपा रेवेयमवतारिता ॥ २३२.१८ ॥
तावद्गर्जन्ति यज्ञाश्च वनक्षेत्रादयो भृशम् ।
यावन्न नर्मदानामकीर्तनं क्रियते कलौ ॥ २३२.१९ ॥
गरिमा गाण्यते तावत्तपोदानव्रतादिषु ।
नरैर्वा प्राप्यते यावद्भुवि भर्गभवा धुनी ॥ २३२.२० ॥
ये वसन्त्युत्तरे कूले रुद्रस्यानुचरा हि ते ।
वसन्ति याम्यतीरे ये लोकं ते यान्ति वैष्णवम् ॥ २३२.२१ ॥
धन्यास्ते देशवर्यास्ते येषु देशेषु नर्मदा ।
नरकान्तकरी शश्वत्संश्रिता शर्वनिर्मिता ॥ २३२.२२ ॥
कृतपुण्याश्च ते लोकाः शोकाय न भवन्ति ते ।
ये पिबन्ति जलं पुण्यं पार्वतीपतिसिन्धुजम् ॥ २३२.२३ ॥
इदं पवित्रमतुलं रेवायाश्चरितं द्विजाः ।
शृणोति यः कीर्तयते मुच्यते सर्वपातकः ॥ २३२.२४ ॥
यत्फलं सर्ववेदैश्च सषडङ्गपदक्रमैः ।
श्रुतैश्च पठितैस्तस्मात्फलमष्टगुणं भवेत् ॥ २३२.२५ ॥
सत्रयाजी फलं यच्च लभते द्वादशाब्दिकम् ।
श्रुत्वा सकृच्च रेवायाश्चरितं तत्फलं लभेत् ॥ २३२.२६ ॥
सर्वतीर्थावगाहाच्च यत्फलं सागरादिषु ।
सकृच्छ्रुत्वा च माहात्म्यं रेवायास्तत्फलं लभेत् ॥ २३२.२७ ॥
एतद्धर्म्यमुपाख्यानं सर्वशास्त्रेष्वनुत्तमम् ।
देशे वा मण्डले वापि नगरे ग्राममध्यतः ॥ २३२.२८ ॥
गृहे वा तिष्ठते यस्य लिखितं सार्ववार्णिकम् ।
स ब्रह्मा स शिवः साक्षात्स च देवो जनार्दनः ॥ २३२.२९ ॥
धर्मार्थकाममोक्षाणां मार्गेऽयं देवसेवितः ।
गुरूणां च गुरुः शास्त्रं परमं सिद्धिकारणम् ॥ २३२.३० ॥
यश्चेदं शृणुयान्नित्यं पुराणं देवभाषितम् ।
ब्राह्मणो वेदवान्भूयात्क्षत्रियो विजयी भवेत् ॥ २३२.३१ ॥
धनाढ्यो जायते वैश्यः शूद्रो वै धर्मभाग्भवेत् ॥ २३२.३२ ॥
सौभाग्यसन्ततिं नारी श्रुत्वैतत्समवाप्नुयात् ।
श्रियं सौख्यं स्वर्गवासं जन्म चैवोत्तमे कुले ॥ २३२.३३ ॥
रसभेदी कृतघ्नश्च स्वामिध्रुङ्मित्रवञ्चकः ।
गोघ्नश्च गरदश्चैव कन्याविक्रयकारकः ॥ २३२.३४ ॥
ब्रह्मघ्नश्च सुरापी च स्तेयी च गुरुतल्पगः ।
नर्मदाचरितं शृण्वंस्तामब्दं योऽभिषेवते ॥ २३२.३५ ॥
सर्वपापविनिर्मुक्तो जायते नात्र संशयः ।
पाकभेदी वृथापाकी देवब्राह्मणनिन्दकः ॥ २३२.३६ ॥
परीवादी गुरोः पित्रोः साधूनां नृपतेस्तथा ।
तेऽपि श्रुत्वा च पापेभ्यो मुच्यन्ते नात्र संशयः ॥ २३२.३७ ॥
ये पुनर्भावितात्मानः शस्त्रं शृण्वन्ति नित्यशः ।
पूजयन्ति च तच्छास्त्रं नार्मदं वस्त्रभूषणैः ॥ २३२.३८ ॥
पुष्पैः फलैश्चन्दनाद्यैर्भोजनैर्विविधैरपि ।
शास्त्रेऽस्मिन्पूजिते देवाः पूजिता गुरवस्तथा ॥ २३२.३९ ॥
इह लोके परे चैव नात्र कार्या विचारणा ।
तस्मात्सर्वप्रयत्नेन गन्धवस्त्रादिभूषणैः ॥ २३२.४० ॥
पूजयेत्परया भक्त्या वाचकं शास्त्रमेव च ।
वेदपाठैश्च यत्पुण्यमग्निहोत्रैश्च पालितैः ॥ २३२.४१ ॥
तत्फलं समवाप्नोति नर्मदाचरिते शुभे ।
कुरुक्षेत्रे च यत्पुण्यं प्रभासे पुष्करे तथा ॥ २३२.४२ ॥
रुद्रावर्ते गयायां च वाराणस्यां विशेषतः ।
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ २३२.४३ ॥
एवमादिषु तीर्थेषु यत्पुण्यं जायते नृणाम् ।
नर्मदाचरितं श्रुत्वा तत्पुण्यं सकलं लभेत् ॥ २३२.४४ ॥
आदिमध्यावसानेषु नर्मदाचरितं शुभम् ।
यः शृणोति नरो भक्त्या शृणुध्वं तत्फलं महत् ॥ २३२.४५ ॥
समाप्य शिवसंस्थानं देवकन्यासमावृतः ।
रुद्रस्यानुचरो भूत्वा शिवेन सह मोदते ॥ २३२.४६ ॥
धर्माख्यानमिदं पुण्यं सर्वाख्यानेष्वनुत्तमम् ।
गृहेऽपि पठ्यते यस्य चतुर्वर्णस्य सत्तमाः ॥ २३२.४७ ॥
धन्यं तस्य गृहं मन्ये गृहस्थं चापि तत्कुलम् ।
पुस्तकं पूजयेद्यस्तु नर्मदाचरितस्य तु ॥ २३२.४८ ॥
नर्मदा पूजिता तेन भगवांश्च महेश्वरः ।
वाचके पूजिते तद्वद्देवाश्च ऋषयोऽर्चिताः ॥ २३२.४९ ॥
लेखयित्वा च सकलं रेवाचरितमुत्तमम् ।
भूषणं सर्वशास्त्राणां यो ददाति द्विजन्मने ॥ २३२.५० ॥
नर्मदासर्वतीर्थेषु स्नानदानेन यत्फलम् ।
तत्फलं समवाप्नोति स नरो नात्र संशयः ॥ २३२.५१ ॥
एतत्पुराणं रुद्रोक्तं महापुण्यफलप्रदम् ।
स्वर्गदं पुत्रदं धन्यं यशस्यं कीर्त्तिवर्धनम् ॥ २३२.५२ ॥
धर्म्यमायुष्यमतुलं दुःखदुःस्वप्ननाशनम् ।
पठतां शृण्वतां चापि सर्वकामार्थसिद्धिदम् ॥ २३२.५३ ॥
यत्प्रदत्तमिदं पुण्यं पुराणं वाच्यते द्विजैः ।
शिवलोके स्थितिस्तस्य पुराणाक्षरवत्सरी ॥ २३२.५४ ॥
इति निगदितमेतन्नर्मदायाश्चरित्रं पवनगदितमग्र्यं शर्ववक्त्रादवाप्य ।
त्रिभुवनजनवन्द्यं त्वेतदादौ मुनीनां कुलपतिपुरतस्तत्सूतमुख्येन साधु ॥ २३२.५५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवाखण्डसमाप्तिरेवाखण्डपुस्तकदानादिमाहात्म्यवर्णनं नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥