स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०३६

॥ ऋषय ऊचुः ॥ ॥
चित्रेश्वरमिदं पीठमगस्त्यमुनिनिर्मितम् ॥
यत्प्रमाणं यत्प्रभावं तदस्माकं प्रकीर्तय ॥ १ ॥
॥ सूत उवाच ॥ ॥
तस्य पीठस्य माहात्म्यं वक्तुं नो शक्यते द्विजाः ॥
सहस्रेणापि वर्षाणां मुखानामयुतैरपि ॥ २ ॥
तत्र सिद्धिमनुप्राप्ताः शतशोऽथ सहस्रशः ॥
अनुध्यानसमायुक्ता योगिनः शंसितव्रताः ॥ ३ ॥
अन्यपीठेषु या सिद्धिर्वर्षानुष्ठानतो भवेत् ॥
दिनेनैकेन तां सिद्धिं लभंते योगिनो ध्रुवम् ॥ ४ ॥
यस्तत्राथ र्वणान्मंत्राञ्जपेच्छ्रद्धासमन्वितः ॥
तेषामर्थोद्भवं कृत्स्नं फलं प्राप्नोति स ध्रुवम् ॥ ५ ॥
पुत्रकामो नरस्तत्र पुंलिंगान्यो जपेन्नरः ॥
स लभेतेप्सितान्पुत्रान्यद्यपि स्याज्जरान्वितः ॥ ६ ॥
गर्भोपनिषदं तत्र पुत्रकामो जपेन्नरः ॥
अपि वन्ध्याप्रसंगेन स्यात्स पुत्रसमन्वितः ॥ ७ ॥
शत्रुलोकविनाशाय यो जपेच्छतरुद्रियम् ॥
तस्मिन्पीठेऽरयस्तस्य सद्यो गच्छंति संक्षयम् ०। ८ ॥
भूतप्रेतपिशाचादिरक्षार्थं तत्र मानवः ॥
यो जपेद्वामदेव्यं च स स्याद्धि निरुपद्रवः ॥ ९ ॥
[]कोऽदादिति नरस्तत्र कन्यार्थं यो जपेदृचम् ॥
यां कन्यां ध्यायमानस्तु स तां प्राप्नोत्यसंशयम् ॥ ६.३६.१० ॥
यो भूपालप्रसादार्थमिमं देवा निशं जपेत् ॥
निरर्गलः प्रसादः स्यात्तस्य पार्थिवसंभवः ॥ ११ ॥
स्वस्त्रीस्नेहकृतेयस्तु तं पत्नीभिरिति द्विजाः ॥।
जपेद्भार्या भवेत्साध्वी तस्य सा स्नेहवत्सला ॥ १२ ॥
यो लोकानुग्रहार्थाय जपेददितिरित्यपि ॥
तस्य लोकानुरागः स्यात्सलाभश्च विशेषतः ॥ ॥ १३ ॥
वित्तार्थी यो जपेत्तत्र श्रीसूक्तं मनुजो द्विजाः ॥
सर्वतस्तस्य वित्तानि समागच्छंत्यनेकशः ॥ १४ ।
भूमीति यो जपेत्साम भूम्यर्थं तत्र मानवः ॥
स भवेद्भूपतिर्नूनं नीचजातिरपि ध्रुवम् ॥।५॥
जपेद्रथंतरं साम यानार्थं तत्र यो नरः ॥
स प्राप्नोति हि यानानि शीघ्रगानि शुभानि च ॥ १६ ॥
गजार्थी यो जपेत्तत्र गणानां द्विजसत्तमाः ॥
स प्राप्नोति गजान्मर्त्यो मदप्लावितभूतलान् ॥ १७ ॥
न तद्रक्षेति यो मन्त्रं जपेद्र क्षाकृते नरः ॥
तस्य स्यात्सर्वतो रक्षा समेषु विषमेषु च ॥ १८ ॥
सप्तर्षय इति श्रेष्ठां यो जपेत्तु समाहितः ॥
ऋचं रोगविनाशाय स रोगैः परि मुच्यते ॥ १९ ॥
यदुभी यो जपेत्तत्र ग्रहपीडार्दितो जनः ॥
सानुकूला ग्रहास्तस्य प्रभवंति न संशयः ॥ ६.३६.२० ॥
भूतपीडार्दितो यश्च बृहत्साम जपेन्नरः ॥
पितृवज्जायते तस्य स भूतोऽप्यंतकोऽपि चेत् ॥ २१ ॥
यात्रासिद्धिकृते यश्च जपेत्सूक्तं च शाकुनम् ॥
तस्य संसिध्यते यात्रा यद्यपि स्यादकिंचनः ॥ २२ ॥
सर्पनाशाय यस्तत्र सार्पसूक्तं जपेन्नरः ॥
न तस्य मंदिरे सर्पाः प्रविशंति कथंचन ॥ २३ ॥
विषनाशाय यस्तत्र जपेच्छ्र द्धासमन्वितः ॥
उत्तिष्ठेति विषं सद्यस्तस्य नाशं प्रयास्यति ॥ २४ ॥
स्थावरजगमं वापि कृत्रिमं यदि वा विषम् ॥
तस्य नाम्ना विनिर्याति तमः सूर्योदये यथा ॥ २५ ॥
व्याघ्रसाम जपेद्यस्तु तत्र श्रद्धासमन्वितः ॥
तस्य व्याघ्रादयो व्याला जायंते सौम्यचेतसः ॥ २६ ॥
कृषिकर्मप्रसि द्ध्यर्थं यो जपेल्लांगलानि च ॥
वृष्टिहीनेऽपि लोकेऽस्मिन्कृषिस्तस्य प्रसिध्यति ॥ २७ ॥
ईतिनाशाय तत्रैव जपेद्देवव्रतं नरः ॥
ततः संकीर्त्तना देव ईतयो यांति संक्षयम् ॥ २८ ॥
अनावृष्टिहते लोके पंचेंद्रं तत्र यो जपेत् ॥
तस्य हस्तकृते होमे तन्मंत्रैः स्याज्जलागमः ॥ २९ ॥
दंष्ट्राभ्या मिति यस्तत्र नरश्चौरार्दितः पठेत् ॥
नोपद्रवो भवेत्तस्य कदाचिच्चौरसंभवः ॥ ६.३६.३० ॥
विवादार्थं जपेद्यस्तु संसृष्टमिति तत्र च ॥
विवादे विजय स्तस्य पापस्यापि प्रजायते ॥ ३१ ॥
यो रिपूच्चाटनार्थाय नरो रुद्रशिरो जपेत् ॥
तस्य ते रिपवो यांति देशं त्यक्त्वा कुबुद्धितः ॥ ३२ ॥
मोहनाय रिपूणां च यो जपेद्विष्णुसंहिताम् ॥
तस्य मोहाभिभूतास्ते जायंते रिपवो ध्रुवम् ॥ ३३ ॥
वशीकरणहेतोर्यः कूष्मांडीः प्रजपेन्नरः ॥
शत्रवोऽपि वशे तस्य किं पुनः प्रमदादयः ॥ ३४ ॥
यः स्तंभाय रिपूणां वै प्राजापत्यं च वारुणम् ॥
मंत्रं जपेद्द्विजश्रेष्ठाः सम्यक्छ्रद्धापरायणः ॥
मंत्रसंस्तंभितास्तस्य जायंते सर्वशत्रवः ॥ ३५ ॥
जपेत्काली करालीति यः शोषाय नरो द्विजाः ॥
स शोषयति तत्कृत्स्नं यच्चित्ते धारयेन्नरः ॥ ३६ ॥
एष मंत्रस्तदा जप्तो ह्यगस्त्येन महात्मना॥
यत्प्रभावान्नदीनाथस्तेन संशोषितो ध्रुवम् ॥ ३७ ॥
एतत्प्रभावं यत्पीठं मंत्राणां सिद्धिकारकम्॥
ऐहिकानां फलानां च तन्मया वः प्रकीर्तितम् ॥ ३८ ॥
यो वांछति पुनः स्वर्गं स तत्र द्विजसत्तमाः ॥
स्नानं करोतु दानं च श्राद्धं चापि विशेषतः ॥ ३९ ॥
अथ वांछति यो मोक्षं विरक्तो भवसागरात् ॥
निष्कामस्तत्र संतुष्टस्तपस्तप्येत्सुबुद्धिमान् ॥ ६.३६.४० ॥
॥ ऋषय ऊचुः ॥ ॥
मंत्रजाप्यस्य माहात्म्यं यत्त्वया नः प्रकीर्तितम्॥
तत्कथं सिद्धिमायाति मंत्रजाप्यं हि सूतज ॥ ४१ ॥
॥ सूत उवाच ॥ ॥
अत्र तत्कथयिष्यामि यन्मया पितृतः श्रुतम् ॥
वदतो ब्राह्मणेंद्रस्य पुरा दुर्वाससो मुनेः ॥ ४२ ॥
तेन पूर्वं पिताऽस्माकं पृष्टो दुर्वाससा द्विजाः ॥
मंत्रवादकृते यच्च शृणुध्वं सुसमाहिताः ॥ ४३ ॥ ॥
॥ दुर्वासा उवाच ॥ ॥
साधयिष्याम्यहं मन्त्रमभीष्टं कमपि व्रती ॥
तस्य सिद्धिकृते ब्रूहि विधानं शास्त्रसंभवम् ॥ ४४ ॥
॥ लोमहर्षण उवाच ॥ ॥
मंत्राणां साधनं कष्टं सर्वेषामपि सन्मुने ॥
प्रत्यवायसमोपेतं बहुच्छिद्रसमाकुलम्॥४५॥
तस्मान्मंत्रकृते सिद्धिं यदि त्वं वांछसि द्विज॥
चमत्कारपुरे क्षेत्रे तत्र त्वं गंतुमर्हसि ॥ ४६ ॥
तत्र चित्रेश्वरीपीठमगस्त्येन विनिर्मितम् ॥
सद्यः सिद्धिकरं प्रोक्तं मन्त्राणां हृदि वर्तिनाम् ॥४७ ॥
न तत्र जायते छिद्रं प्रत्यवायो न च द्विज ॥
नासिद्धिर्वरदानेन सर्वेषां त्रिदिवौकसाम् ॥ ४८ ॥
चातुर्युंग्यं हि तत्पीठं स्थितानां सिद्धिमाह रेत् ॥
युगानुरूपतः सद्यस्ततो वक्ष्याम्यहं द्विज ॥ ४९ ॥
यो यं साधयितुं मन्त्रमिच्छति द्विजसत्तम ॥
स तस्य पूर्वमेवाथ लक्षमेकं जपेन्नरः ॥ ॥ ६.३६.५० ॥
ततो भवति संसिद्धो मंत्रार्हः स नरः शुचिः ॥
जपेद्ब्राह्मणशार्दूल ततो लक्षचतुष्टयम् ॥
दशांशेन तु होमः स्यात्सुसमिद्धे हुताशने ॥ ॥ ५१ ॥
ततस्तु जायते सिद्धिर्नूनं तन्मंत्रसंभवा ॥
तत्र सौम्येषु कृत्येषु होमः सिद्धार्थकैः सितैः ॥ ५२ ॥
जातीपुष्पैश्च विप्रेन्द्र स्मृतो ब्राह्मण भोजनैः ॥
तथा रौद्रेषु कृत्येषु रक्तपुष्पैः सगुग्गुलैः ०॥
तर्पणैः कन्यकानां च होमः स्यात्स फलप्रदः ॥ ५३ ॥
एतत्कृतयुगे प्रोक्तं मंत्रसाधनमुत्त मम् ॥
सर्वेषां साधकानां च मया प्रोक्तं द्विजोत्तम ॥ ५४ ॥
एतत्त्रेतायुगे प्रोक्तं पादोनं मन्त्रसाधनम् ॥
युग्मार्धं द्वापरे कार्यं चतुर्थांशं कलौ युगे ॥ ५५ ॥
एवं तत्र समासाद्य सिद्धिं मंत्रसमुद्भवाम् ॥
तत्र पीठे ततः कृत्यं साधयेत्स्वेच्छया नरः ॥ ५६ ॥
शापानुग्रहसामर्थ्यसंयुतस्तेज साऽन्वितः ॥
अजेयः सर्वभूतानां साधूनां संमतस्तथा ॥ ५७ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा स मुनिस्तस्य पितुर्मम वचोऽखिलम् ॥
ततश्चित्रेश्वरं पीठं समायातोऽथ सन्मुनिः ॥ ५८ ॥
तत्र संसाधयामास सर्वान्मंत्रान्यथाक्रमम् ॥
विधिना शास्त्रदृष्टेन श्रद्धया परया युतः॥ ५९ ॥
इति संसिद्धमंत्रः स चमत्कारपुरं गतः ॥
विप्राणां प्रार्थनार्थाय भूमिखंडकृते द्विजाः ॥ ६.३६.६० ॥
इति श्रीस्कांदे महपुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये चित्रेश्वरीपीठमाहात्म्यवर्णनंनाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥

  1. वा.सं. ७.४८