स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०३८
॥ सूत उवाच ॥ ॥
तत्रैव स्थापितं लिंगं धुन्धुमारेण भूभुजा ॥
सर्वरत्नमयं कृत्वा प्रासादं सुमनोहरम् ॥ १ ॥
तत्र कृत्वाऽऽश्रमं श्रेष्ठं तपस्तेपे सुदारुणम् ॥
यत्प्रभावादयं देवस्तस्मिँल्लिङ्गे व्यवस्थितः ॥ २ ॥
तस्य संनिहिता वापी कृता तेन महात्मना ॥
सुनिर्मलजलापूर्णा सर्वतीर्थोपमा शुभा ॥ ३ ॥
धुन्धुमारेश्वरं पश्येत्तत्र स्नात्वा नरोत्तमः ॥
न स पश्यति दुर्गाणि नरकाणि यमालये ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
धुंधुमारो महीपालः कस्मिन्वंशे बभूव सः ॥
कस्मिन्काले तपस्तप्तं तेनात्र सुमहात्मना ॥ ५ ॥
॥ सूत उवाच ॥ ॥
सूर्यवंशसमुद्भूतो बृहदश्वसुतो बली ॥
ख्यातः कुवलयाश्वेति धंधुमारस्तथैव सः ॥ ६ ॥
तेन धुन्धुर्महादैत्यो निहतो मरुजांगले ॥
धुन्धुमारः स्मृतस्तेन विख्यातो भुवनत्रये ॥ ७ ॥
चमत्कारपुरं क्षेत्रं स गत्वा पावनं महत् ॥
तपस्तेपे वयोंऽते च ध्यायमानो महेश्वरम् ॥ ८ ॥
संस्थाप्य सुमहल्लिंगं प्रासादे रत्नमंडिते ॥
बलिपूजोपहाराद्यैः पुष्पधूपानुलेपनैः ॥ ९ ॥
ततस्तस्य महादेवः स्वयमेव महेश्वरः ॥
प्रत्यक्षोऽभूद्वृषारूढो गौर्या सह तथा गणैः ॥ ६.३८.१० ॥
उवाच वरदोऽस्मीति प्रार्थयस्व यथेप्सितम् ॥
सर्वं तेऽहं प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥ ११ ॥ ॥
धुन्धुमार उवाच ॥ ॥
यदि देयो वरोऽस्माकं त्वया सर्वसुरेश्वर ॥
संनिधानं प्रकर्तव्यं लिंगेऽस्मिन्वृषभध्वज ॥ १२ ॥
॥ श्रीभगवानुवाच ॥ ॥
चैत्रे शुक्लचतुर्दश्यां सांनिध्यं नृपसत्तम ॥
अहं सदा करिष्यामि गौर्या सार्धं न संशयः ॥ १३ ॥
तत्र वाप्यां नरः स्नात्वा यो मां संपूजयिष्यति ॥
लिंगेऽस्मिन्संस्थितं भूप मम लोकं स यास्यति ॥ १४ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥
सोऽपि राजा प्रहृष्टा त्मा स्थितस्तत्रैव मुक्तिभाक् ॥ १५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धुन्धुमारेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशो अध्यायः ॥ ३८ ॥ ॥ छ ॥