स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०४१
॥ सूत उवाच ॥ ॥
तस्यैवोत्तरदिग्भागे देवस्य जलशायिनः ॥
स्थानमस्ति सुविख्यातं सर्वपातकनाशनम् ॥ १ ॥
यस्तत्पूजयते भक्त्या शयने बोधने हरेः ॥
उपवासपरो भूत्वा स गच्छेद्वैष्णवं पदम् ॥ २ ॥
अशून्यशयनानाम द्वितीया दयिता तिथिः ॥
सदैव देवदेवस्य कृष्णा सुप्तस्य या भवेत् ॥ ३ ॥
तस्यां यः पूजयेत्तत्र तं देवं जलशायिनम्॥
शास्त्रोक्तेन विधानेन स गच्छति हरेः पदम् ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
जलशायी कथं तत्र संप्राप्तः सूतनन्दन ॥
पूज्यते विधिना केन तत्सर्वं विस्तराद्वद ॥ ५ ॥
॥ सूत उवाच ॥ ॥
पुरासीद्बाष्कलिर्नाम दानवेन्द्रो महाबलः ॥
अजेयः सर्वदेवानां गन्धर्वोरगरक्षसाम् ॥ ६ ॥
अथासौ भूतलं सर्वं वशीकृत्वा महाबलः ॥
ततो दैत्यगणैः सार्द्धं जगाम त्रिदशालयम् ॥ ७ ॥
तत्राभवन्महायुद्धं देवासुरविनाशकम् ॥
देवानां दानवानां च क्रुद्धानामितरेतरम् ॥ ८ ॥
वर्षाणामयुतं तावदहन्यहनि दारुणम् ॥
तत्रासृक्कर्दमो जातः पर्वतश्चास्थि संभवः ॥ ९ ॥
ततो वर्षसहस्रांते दशमे समुपस्थिते ॥
जितस्तेन सहस्राक्षः ससैन्यः सपरिग्रहः ॥ ६.४१.१० ॥
ततः स्वर्गं परित्यज्य सर्वदेवगणैः सह ॥
जगाम शरणं विष्णोः श्वेतद्वीपं प्रतिश्रयम् ॥ ११ ॥
यत्रास्ते भगवान्विष्णुर्योगनिद्रावशंगतः ॥
शयानः शेषपर्यंके लक्ष्म्या संवाहितांघ्रियुक् ॥ १२ ॥
ततो वेदोद्भवैः सूक्तैः स्तुतिं चक्रुः समंततः ॥
तस्य देवस्य सद्भक्ताः सर्वे देवाः सवासवाः ॥ १३ ॥
अथोत्थाय जगन्नाथः प्रोवाच बलसूदनम् ॥
कच्चित्क्षेमं सहस्राक्ष सांप्रतं भुवनत्रये ॥
यत्त्वं देवगणैः सार्द्धं स्वयमेव इहागतः ॥ १४ ॥
॥ शक्र उवाच ॥ ॥
बाष्कलिर्नाम देत्येन्द्रो हरलब्धवरो बली ॥
अजेयः संगरे देवैस्तेनाहं विजितो रणे ॥ १५ ॥
संस्थितिश्च कृता स्वर्गे सांप्रतं मधु सूदन ॥
तेनैष शरणं प्राप्तो देवैः सार्द्धं सुरोत्तम ॥ १६ ॥
हिरण्याक्षभयाद्देवा हिरण्यकशिपोः पुरा ॥
त्वया त्राता वयं सर्वे तथान्येषां दुरात्मनाम् ॥।७॥
तस्मादस्मादपि त्राहि दानवाद्बलवत्तरात् ॥
बाष्कलेर्नास्ति देवेश त्वां मुक्त्वान्या परा गतिः ॥।८॥
॥ श्रीभगवानुवाच ॥ ॥
अहं तं निग्रहीष्यामि संप्राप्ते समये स्वयम्॥
तस्मात्त्वं समयंयावत्कुरु शक्र तपो महत् ॥ १९ ॥
येन ते जायते शक्तिस्तपोवीर्येण वासव ॥
वधाय तस्य दैत्यस्य बलयुक्तस्य बाष्कलेः ॥ ६.४१.२० ॥
॥ शक्र उवाच ॥ ॥
कस्मिन्क्षेत्रे जगन्नाथ करोमि सुमहत्तपः ॥
तस्य दैत्यस्य नाशार्थं तद स्माकं प्रकीर्तय ॥ २१ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा भगवान्विष्णुः प्रोवाचाथ पुरंदरम् ॥
चिरं मनसि निश्चित्य क्षेत्राण्यायतनानि च ॥ २२ ॥
चमत्कारपुरं क्षेत्रं शक्र सिद्धिप्रदायकम् ॥
तस्मात्तत्र द्रुतं गत्वा तद्वधार्थं तपः कुरु ॥ २३ ॥
॥ शक्र उवाच ॥ ॥
न वयं भवता हीना यास्यामोऽन्यत्र केशव ॥
बाष्कलेर्दानवेन्द्रस्य भयाद्भीताः कथंचन ॥ २४ ॥
तस्मादागच्छ तत्र त्वं स्वयमेव सुरेश्वर ॥
त्वया संरक्षितो येन करोमि सुमहत्तपः ॥ २६ ॥
॥ सूत उवाच ॥ ॥
ततः स भगवान्विष्णुस्तथेत्युक्त्वा सुरैः सह ॥
चमत्कारपुरं क्षेत्रमाजगाम सह श्रिया ॥ ॥ २६ ॥
अथ देवगणाः सर्वे तत्र गत्वा तदाऽऽश्रमान् ॥
चक्रुः पृथक्पृथग्घृष्टास्तपोऽर्थं कृतनिश्चयाः ॥ २७ ॥
वासुदेवोऽपि संस्मृत्य क्षीरोदं तत्र सागरम् ॥
आनिनायाशु विस्तीर्णं ह्रदे तस्मिन्पुरातने ॥ २८ ॥
चकार शयनं तत्र श्वेतद्वीपे यथा पुरा ॥
स्तूयमानः सुरैः सर्वैः समंताद्विनयान्वितैः ॥ २९ ॥
अथाषाढस्य संप्राप्ते द्वितीयादिवसे शुभे ॥
कृष्णपक्षे सहस्राक्षं स्वयमेव बृहस्पतिः ॥
प्रोवाच वचनं श्लक्ष्णं बाष्पव्याकुल लोचनम् ॥ ६.४१.३० ॥
॥ बृहस्पतिरुवाच ॥ ॥
अशून्यशयनानाम द्वितीयाद्य पुरंदर ॥
अतीव दयिता विष्णोः प्रसुप्तस्य जलाशये ॥ ३१ ॥
अस्यां संपूजितो विष्णुर्यावन्मासचतुष्टयम् ॥
ददाति सकलान्कामान्ध्यातश्चेतसि सर्वदा ॥
शास्त्रोक्तविधिना सम्यग्व्रतस्थो जलशायिनम् ॥ ३२ ॥
एवं स चतुरो मासान्द्वितीयादिवसे हरिम् ॥
पूजयित्वा सहस्राक्षस्तेजसा सहितोऽभवत् ॥ ३३ ॥
तं दृष्ट्वा तेजसा युक्तं परितुष्टो जनार्दनः ॥
प्रोवाच शक्र गच्छाद्य वधार्थं तस्य बाष्कलेः ॥
सर्वैर्देवगणैः सार्धं विजयस्ते भविष्यति ॥ ३४ ॥
॥ शक्र उवाच ॥ ॥
बिभेमि तस्य देवाहं दानवेन्द्रस्य दुर्मतेः ॥
त्वया विना न गच्छामि सार्धं सर्वैः सुरैरपि ॥ ३५ ॥
॥ श्रीभगवानुवाच ॥ ॥
त्वया सह सहस्राक्ष चक्रमेतत्सुदर्शनम् ॥
गमिष्यति वधार्थाय मदीयं सुरविद्विषाम् ॥ ३६ ॥
एवमुक्त्वा हरिश्चक्रं प्रमुमोच सुदर्शनम् ॥
वधार्थं दानवेन्द्राणां शक्रेण सहितं तदा ॥ ३७ ॥
शक्रोऽपि सहितस्तेन गत्वा चक्रेण कृत्स्नशः ॥
सर्वानुत्सादयामास दानवान्रणमूर्धनि ॥ ३८ ॥
स चापि बाष्कलिस्तेन च्छिन्नश्चक्रेण कृत्स्नशः ॥
पपात धरणीपृष्ठे वज्राहत इवाचलः ॥ ३९ ॥
तथान्ये बहवः शूरा दानवा बलदर्पिताः ॥
हत्वा सुदर्शनं चक्रं भूयः प्राप्तं हरेः करम्॥ ६.४१.४० ॥
तेऽपि शक्रादयो देवाः प्रहृष्टा गतसंशयाः ॥
भूयो विष्णुं समेत्याथ प्रोचुर्नत्वा ततः परम् ॥ ४१
प्रभावात्तव देवेश हताः सर्वेऽमरारयः ॥
प्राप्तं त्रैलोक्यराज्यं च भूयो निहतकंटकम् ॥ ४२ ॥
तस्मात्कीर्तय यत्कृत्यं तच्च श्रेयस्करं मम ॥
सदा स्यात्पुंडरीकाक्ष तथा शत्रुभयावहम् ॥ ४३ ॥
॥ श्रीभगवानुवाच ॥ ॥
मयात्रैव सदा स्थेयं रूपेणानेन वासव ॥
सर्वलोकहितार्थाय ह्रदे पुण्य जलाश्रये ॥ ४४॥
त्वया तस्मात्समागम्य चातुर्मास्यं शचीपते ॥
प्रयत्नेन प्रकर्तव्यमशून्यशयनं व्रतम् ॥ ४५ ॥
न भवंति सहस्राक्ष येन ते परि पंथिनः ॥
तथाभीष्टफलावाप्तिर्मत्प्रसादादसंशयम् ॥ ४६ ॥
अन्योऽपि यो नरो भक्त्या पूजयिष्यति मामिह ॥
संप्राप्स्यति स ताँल्लोकान्दुर्लभांस्त्रि दशैरपि ॥ ४७ ॥
तस्माद्गच्छ सहस्राक्ष कुरु राज्यं त्रिविष्टपे ॥
भूयोऽप्यत्रैव देवेश द्रष्टव्योऽस्मि न संशयः ॥
कार्यकाले समायाते श्वेतद्वीपे यथा तथा ॥ ४८ ॥
॥ सूत उवाच ॥ ॥
ततः प्रणम्य तं दृष्ट्वा प्रजगाम शतक्रतुः ॥
वासुदेवोऽपि तत्रैव स्थितो लोकहिताय च ॥ ४९ ॥
एवं तत्र द्विजश्रेष्ठा जलशायी जनार्दनः ॥
सर्वलोकहितार्थाय संस्थितः परमेश्वरः ॥ ६.४१.५० ॥
यस्तं पूजयते भक्त्या श्रद्धया परया युतः ॥
चातुर्मास्ये विशेषेण स याति परमां गतिम् ॥ ५१ ॥
तथा देवगणैः सर्वैर्द्वारका तत्र सा कृता ॥
संपूज्य तु नरा यांति चातुर्मास्ये त्रिविष्टपम् ॥ ५२ ॥
शेषकालेऽपि चित्तस्थान्कामान्मर्त्यः समाप्नुयात् ॥
तस्मात्सर्वप्रयत्नेन पूज्या सा द्वारका नरैः ॥
सर्वेष्वपि हि कालेषु चातुमास्ये विशेषतः ॥ ५३ ॥
एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ॥
आख्यानं देवदेवस्य सुपुण्यं जलशायिनः ॥ ५४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युत्पत्तिवर्णनंनामैकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥ ॥ छ ॥