स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०४२


॥ सूत उवाच ॥ ॥
विश्वामित्रसमुद्भूतं कुण्डं तत्रापरं शुभम् ॥
संतिष्ठते द्विजश्रेष्ठाः सर्वकामप्रदायकम् ॥ १ ॥
तत्र चैत्रतृतीयायां कृते स्नाने भवेन्नरः ॥
दिव्यरूपधरः साक्षात्कामोऽन्यो द्विजसत्तमाः ॥ २ ॥
नारी वा श्रद्धयोपेता तत्र स्नात्वा प्रजावती ॥
भवेत्सौभाग्यसंयुक्ता स्पृहणीयतमा क्षितौ ॥ ३ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
तीर्थं तस्य मुनेस्तत्र कस्मिन्काले व्यवस्थितम् ॥
निर्मलं केन निःशेषं वद त्वं सूतनंदन ॥ ४ ॥
॥ सूत उवाच ॥ ॥
तत्रास्ति निर्झरः पूर्वं सामान्यो द्विजसत्तमाः ॥
अवधूतो धरापृष्ठे माहात्म्येन व्यवस्थितः ॥ ५ ॥
यत्र देवनदी गंगा स्वयमेव व्यवस्थिता ॥
यस्यां स्नातः पुमान्सद्यः सर्वपापैः प्रमुच्यते ॥ ६ ॥
यस्तत्र कुरुते श्राद्धं पितॄनुद्दिश्य भावितः ॥
तदक्षयं भवेच्छ्राद्धं पितॄणां तृप्तिकारकम् ॥ ७ ॥
यत्किंचिद्दीयत दानं तस्मिंस्तीर्थवरे द्विजाः ॥
हुतजप्यादिकं चैव तदनंतफलं भवेत् ॥ ८ ॥
कस्यचित्त्वथ कालस्य मृगी व्याधशराहता ॥
प्रविष्टा सलिले तस्मिंस्तत्र पञ्चत्वमागता ॥ ९ ॥
चैत्रशुक्लतृतीयायां मध्याह्ने द्विजसत्तमाः ॥
नक्षत्रे यमदैवत्ये मार्तंडस्य च वासरे ॥ ६.४२.१० ॥
अथ तत्तोयमाहात्म्यान्मेनकानाम साऽभवत् ॥
अप्सरास्त्रिदशेंद्रस्य समंताच्चारुहासिनी ॥ ११ ॥
स्मरमाणाऽथ सा तस्य प्रभावं वरवर्णिनी ॥
तीर्थमागत्य सद्भक्त्या स्नानं तत्र समाचरत् ॥
चैत्रशुक्लतृतीयायां यामर्क्षे सूर्यवासरे ॥ १२ ॥
एकदा दिवसे तस्मिन्भ्रममाणो मुनीश्वरः ॥
विश्वामित्र इति ख्यातस्तत्रायातस्तपोऽन्वितः ॥ १३ ॥
साऽपि स्वर्गात्समायाता देवतादर्शनार्थतः ॥
पूजयित्वाथ तं देवं प्रस्थिता त्रिदिवं प्रति ॥ १४ ॥
सा दृष्ट्वा तं मुनिं तत्र भ्रममाणमितस्ततः ॥
यौवनस्थं सुरूपाढ्यं पंचबाणमिवापरम्॥ १५ ॥
व्रतप्रभावजैर्व्याप्तं तेजोभिर्भास्करं यथा ॥
बाल्यात्प्रभृति चीर्णेन तपसा दग्धकिल्बिषम्॥ १६ ॥
सा तस्य दर्शनादेव कामबाणप्रपीडिता ॥
सानंदाः सुरतार्थाय समीपं समुपाद्रवत् ॥ १७ ॥
स दृष्ट्वाऽदृष्टपूर्वां तां मार्गपृच्छाकृते ततः ॥
सम्मुखः प्रययौ तूर्णं प्रहृष्टेनांतरात्मना ॥ १८ ॥
उवाच देशं तां पृच्छन्स्त्रीधर्मांश्च विशेषतः ॥
शुभलाभोऽस्तु ते भद्रे मनसा कर्मणा गिरा ॥ १९ ॥
सदैव वासुदेवस्य भक्तिश्चाव्यभिचारिणी॥
कच्चित्त्वं वर्तसे पुत्रि पतिपादपरायणा ॥
चारित्रविनयोपेता सर्वदा प्रियवादिनी ॥ ६.४२.२० ॥
कच्चित्त्वं सर्वदाभीष्टा पत्युर्दानैस्तथार्च्चनैः ॥
बंधून्स्वमित्रवर्गं च तत्पुरः पृष्ठतोपि वा ॥ २१ ॥
कच्चिद्भर्तरि संसुप्ते त्वं निशवशमेष्यसि॥
उत्थानमप्रबुद्धे च करोषि वरवर्णिनि ॥ २२ ॥
कच्चित्प्रातः समुत्थाय करोषि गृहमार्जनम् ॥
स्वयमेव वरारोहे मण्डनं चोपमण्डनम्॥ २३ ॥
कच्चिदेवान्नमस्कृत्य गुरुं च तदनंतरम् ॥
करोषि त्वं प्राणयात्रां दत्त्वान्नं शक्तितो जलम् ॥ २४ ॥
कच्चिदस्तंगते सूर्ये नान्नमश्नासि भाभिनि ॥
अदत्त्वा वा स्वभृत्येभ्यः साधुभ्यश्च विशेषतः ॥ २५ ॥
कच्चित्पिबसि पानीयं सप्तवारविशोधितम् [।
निबिडेन स्ववस्त्रेण पालयंती जलोद्भवान्॥ २६.॥
कच्चिद्दयासमोपेता गात्रक्लेशकरानपि ॥
यूकामत्कुणदंशादीन्पुत्रवत्परिरक्षसि॥ २७ ॥
कच्चित्साधुमुखान्नित्यं शिवधर्मं सुभक्तितः ॥
शृणोषि भक्तितो भद्रे प्रकरोषि च सादरम् ॥ २८ ॥
क्वचिच्छ्रुत्वाऽऽगमं पुण्यं प्रकरोषि च पूजनम्॥
शास्त्रस्य वाचकस्यापि व्याख्यातुश्च विशेषतः ॥ २९ ॥
कच्चित्पुराणशास्त्राणि प्रणीतानि जनेश्वरैः ॥
संलेख्याक्षररम्याणि साधुभ्यः संप्रयच्छसि ॥ ६.४२.३० ॥
यः श्रुत्वा सर्व शास्त्राणि निष्क्रयं न प्रयच्छति ॥
शास्त्रचौरः स विज्ञेयो न चैवाप्नोति तत्फलम् ॥ ३१ ॥
कच्चिच्छिवालये नृत्यगीतवाद्यादिकाः क्रियाः ॥
बलिपूजोपहारांश्च त्वं करोषि च शक्तितः ॥ ३२ ॥
कच्चित्प्रावरणं वस्त्रं सुभगे सर्वमेव च ॥
संप्रयच्छसि साधुभ्यः प्रणिपातपुरःसरम् ॥ ३३ ॥
वृथा पर्यटनं नित्यं कच्चिन्न परमंदिरे ॥
त्वं करोषि विशालाक्षि विशेषेण निशागमे ॥ ३४ ॥
कच्चिन्नाश्नासि भद्रे त्वं स्वभर्तरि बुभुक्षिते ॥
आज्ञाभंगं प्रयत्नेन कच्चित्तत्र प्ररक्षसि ॥ ३५ ॥
कच्चित्प्रकुपिते कांते नोत्तराणि प्रयच्छसि ॥
तस्यकोपप्रणाशार्षं प्रियं कच्चिच्च जल्पसि ॥ ३६ ॥
कच्चित्त्वं प्रोषिते कांते मलिनांबरधारिणी ॥
जायसे च तथा दीना विवर्णवदना कृशा ॥ ३७ ॥
कच्चिन्मंदिरपृष्ठे त्वं न धत्से भिन्नभाजनम् ॥
उच्छिष्टं वा जनैस्त्यक्तमपि कार्योपकारकम् ॥ ३९ ॥
कच्चिद्व्रजसि नो रात्रौ जागरेषु कथासु च ॥
निर्झरेषु विविक्तेषु पुलिनेषु वनेषु च ॥ ३९ ॥
कच्चिन्न कुरुषे मैत्रीं बंधकीभिः समं शुभे ॥
धात्रीभिर्मालिकस्त्रीभी रजकीभिश्च भामिनि ॥ ६.४२.४० ॥
कञ्चिद्दधासि नित्यं त्वं मुखं कुंकुमरंजितम् ॥
शिरः पुष्पसमाकीर्णं नेत्रे कज्जलरंजिते ॥ ४१ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्तिवृत्तान्ते विश्वामित्रमेनकासमागमवर्णनंनाम द्विचत्वारिंशो ध्यायः ॥ ४२ ॥ ॥ छ ॥