स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०५२
॥ सूत उवाच ॥ ॥
उमामहेश्वरौ तत्र स्थापितौ तेन भूभुजा ॥
प्रासादं परमं कृत्वा साधुदृष्टिसुखप्रदम् ॥ १ ॥
तस्याग्रतः शुभं कुंडं तत्र चैव विनिर्मितम् ॥
स्वच्छोदकेन सम्पूर्णं पद्मिनीखंडमंडितम् ॥ २ ॥
स्नात्वा तत्र नरो भक्त्या तौ पश्येद्यः समाहितः ॥
माघशुक्लचतुर्दश्यां न स भूयोऽत्र जायते ॥ ३ ॥
तस्यैव पूर्वदिग्भागेऽगस्त्यकुण्डसमीपतः ॥
अस्ति वापी महापुण्या सर्वपातकनाशिनी ॥ ४ ॥
तस्यां यः कुरुते स्नानं मासि वै फाल्गुने नरः ॥
सोपवासः सिताष्टम्यां वांछितं लभते च सः ॥ ५ ॥
तस्या दक्षिणदिग्भागे तत्रास्ति कपिला नदी ॥
कपिलो यत्र संप्राप्तः सिद्धिं सांख्यसमुद्भवाम् ॥ ६ ॥
कपिलायाश्च पूर्वेण सिद्धक्षेत्रं प्रकीर्तितम् ॥
यत्र सिद्धिं गताः सिद्धाः पुरा शत सहस्रशः ॥ ७ ॥
यो यं काममभिध्याय तपस्तत्र समाचरेत् ॥
षण्मासाभ्यंतरे नूनं स तमाप्नोति मानवः ॥ ८ ॥
तस्याधस्ताच्छिला विप्रा विद्यते वैष्णवी शुभा ॥
भ्रमन्ती चतुरस्रा च सर्वपातकनाशिनी ॥ ९ ॥
सदा महानदीतोयक्षालिता मुक्तिदा नृणाम् ॥
गंगायमुनयोर्मध्ये संनिविष्टा सरस्वती ॥ ६.५२.१० ॥
त्रिवेणी वहते तस्याः पुरतो भुक्तिमुक्तिदा ॥
तस्यामुपरि दग्धानां ब्राह्मणानां विशेषतः ॥ ११ ॥
नूनं मुक्तिर्भवेत्तेषां चिता भस्मनि गोष्पदम् ॥
दृश्यते तत्र तज्ज्ञात्वा संस्कार्या ब्राह्मणा मृताः ॥ १२ ॥
तस्यैवोत्तरदिग्भागे रुद्रकोटिर्द्विजोत्तमाः ॥
अस्ति संपूजिता विप्रै र्दाक्षिणात्यैर्महात्मभिः ॥ १३ ॥
महायोगिस्वरूपेण दाक्षिणात्या द्विजोत्तमाः ॥
चमत्कारपुरे क्षेत्रे श्रुत्वा स्वयमुमापतिम् ॥ १४ ॥
ततः कौतूहलाविष्टाः श्रद्धया परया युताः ॥
कोटिसंख्या द्रुतं जग्मुस्तस्य दर्शनवांछया ॥ १५ ॥
अहंपूर्वमहंपूर्वं वीक्षयिष्यामि तं हरम् ॥
इति श्रद्धासमो पेताश्चक्रुस्ते शपथं गताः ॥ १६ ॥
एतेषां मध्यतो यस्तं महायोगिनमीश्वरम् ॥
चरमं देवमीक्षेत भविष्यति स पापकृत् ॥ १७ ॥
ततस्तेषामभिप्रायं ज्ञात्वा देवो महेश्वरः ॥
भक्तिप्रीतो हितार्थाय कोटिरूपैर्व्यवस्थितः ॥ १८ ॥
हेलया दर्शनं प्राप्तः सर्वेषां द्विजसत्तमाः ॥
ततः प्रभृति तत्स्थानं रुद्रकोटीतिविश्रुतम् ॥ १९ ॥
तदर्थं पठितः श्लोको नारदेन पुरा द्विजाः ॥
रुद्रावर्तं समालोक्य प्रहृष्टेन द्विजोत्तमाः ॥ ६.५२.२० ॥
आषाढीं कार्तिकीं माघीं तथा चैत्रसमुद्भवाम् ॥
धन्याः पृथिव्यां लप्स्यंते रुद्रावर्ते चतुर्दशीम् ॥ २१ ॥
आजन्मशतसाहस्रं कृत्वा पापं नरः क्षितौ ॥
रुद्रावर्तं समालोक्य विपाप्मत्वं प्रपद्यते ॥ २२ ॥
रुद्रावर्त्ते नरो गत्वा दृष्ट्वा योगेश्वरं हरम् ॥
शुक्लपक्षे चतुर्दश्यां विपाप्मा जायते ध्रुवम् ॥ २३ ॥
यस्तत्र कुरुते श्राद्धं महायोगिपुरे द्विजाः ॥
रुद्रावर्ते स चाप्नोति फलं शतमखोद्भवम् ॥ २४ ॥
उपवासपरो भूत्वा यः कुर्याद्रात्रिजागरम् ॥
कामगेन विमानेन स स्वर्गे याति मानवः ॥ २५ ॥
तत्र यः कपिलां दद्याद्ब्राह्मणायाहिताग्नये ॥
स गणः स्यान्न संदेहो हरस्य दयितस्तथा ॥ २६ ॥
षडक्षरं जपेद्यस्तु महायोगिपुरः स्थितः ॥
मंत्रं तस्य भवेच्छ्रेयः षङ्गुणं राजसूयतः ॥ २७ ॥
यस्तस्य पुरतो भक्त्या जपेद्वा शतरुद्रियम् ॥
चतुर्णामपि वेदानां सोऽधीतानां भजेत्फलम् ॥ २८ ॥
गीतं वा यदि वा नृत्यं तत्पुरः कुरुते नरः ॥
स सर्वेषां भजेच्छ्रेयो मखानां नात्र संशयः ॥२९॥
एवमुक्त्वा द्विजश्रेष्ठाः स मुनिर्ब्रह्मसंभवः ॥
विरराम ततो हृष्टस्तीर्थयात्रां गतो द्रुतम् ॥ ६.५२.३० ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये रुद्रकोटिमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥ ९२ ॥ ॥ छ ॥ ॥ ॥