स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०६४


॥ सूत उवाच ॥ ॥
चमत्कारी पुरा देवी तत्रैवास्ति द्विजोत्तमाः ॥
चमत्कारनरेंद्रेण स्थापिता श्रद्धया पुरा ॥ १ ॥
यया स महिषः पूर्वं निहतो दानवो रणे ॥
कौमारव्रतधारिण्या मायाशतसहस्रधृक् ॥ २ ॥
यदा तन्निर्मितं तत्र पुरं तेन महात्मना ॥
तस्य संरक्षणार्थाय तदा सा स्थापिता द्विजाः ॥ ३ ॥
पुरस्य तस्य रक्षार्थं तथा तत्पुरवासिनाम् ॥
सर्वेषां ब्राह्मणेंद्राणां भक्त्या भावितचेतसाम् ॥ ४ ॥
यस्तामभ्यर्चयेत्सम्यङ्महानवमिवासरे ॥
कृत्स्नं संवत्सरं तस्य न भयं जायते क्वचित् ॥ ५ ॥
भूतप्रेतपिशाचेभ्यः शत्रुतश्च विशेषतः ॥
रोगेभ्यस्तस्करेभ्यश्च दुष्टेभ्योऽन्येभ्य एव च ॥ ६ ॥
यंयं काममभिध्यायञ्छुक्लाष्टम्यां नरः शुचिः ॥
तां पूजयति सद्भक्त्या स तमाप्नोत्यसंशयम् ॥ ७ ॥
निष्कामः सुखमाप्नोति मोक्षं नास्त्यत्र संशयः ॥
तस्या देव्याः प्रसादेन सत्यमेतन्मयोदितम् ॥ ८ ॥
तामाराध्य गताः पूर्वं सिद्धिं भूरिर्महीभुजः ॥
ब्राह्मणाश्च तथान्येऽपि योगिनः परमेश्वरीम् ॥ ९ ॥
यस्तस्याः श्रद्धयोपेतः प्रकरोति प्रदक्षिणाम् ॥
नित्यं संवत्सरं यावत्तिर्यग्योनौ न स व्रजेत्॥६.६४,१०॥
तस्या आयतने पूर्वमाश्चर्यमभवन्महत् ॥
यत्तद्वः कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥ ११ ॥
आसीच्चित्ररथोनाम पूर्वं पार्थिवसत्तमः ॥
दशार्णाधिपतिः ख्यातः सर्वशत्रुनिबर्हणः ॥ १२ ॥
शुक्लाष्टम्यां सदा भक्त्या स तस्याः श्रद्धयान्वितः ॥
अष्टोत्तरशतं यावत्प्रचकार प्रदक्षिणाम् ॥ १३ ॥
ततः प्रणम्य तां देवीं संप्रयाति पुनर्गृहम् ॥
सैन्येन चतुरंगेण समंतात्परिवारितः ॥ १४ ॥
एवं तस्य नरेंद्रस्य प्रदक्षिणरतस्य च ॥
 जगाम सुमहान्कालो देव्या भक्तिरतस्य च ॥ १५ ॥
कस्यचित्त्वथ कालस्य स राजा तत्र संगतः ॥
अपश्यद्ब्राह्मणश्रेष्ठान्देवीगृहसमाश्रितान् ॥ १६ ॥
ततः प्रदक्षिणां कृत्वा तां देवीं स महीपतिः ॥ १६ ॥
अग्रस्थांस्तान्द्विजान्सर्वान्नमश्चक्रे समाहितः ॥ १७ ॥
ततस्तैः सहितैस्तत्र सहासीनः कथाः शुभाः ॥
राजर्षीणां पुराणानां विप्रर्षीणां चकार ह ॥ १८ ॥
ततः कस्मिन्कथांते स पृष्टस्तैर्द्विजसत्तमैः ॥
कौतूहलसमोपेतैर्विनयावनतः स्थितः ॥ ॥ १९ ॥
राजन्पृच्छामहे सर्वे त्वां वयं कौतुकान्विताः ॥
तस्मात्कीर्तय चेद्गुह्यं न तत्तव व्यवस्थितम् ॥ ६.६४.२० ॥
मासिमासि सदाष्टम्यां त्वं शुक्लायां सुदूरतः ॥
आगत्य देवतायाश्च प्रकरोषि प्रदक्षिणाम् ॥ २१ ॥
यत्नेनान्याः परित्यज्य सर्वाः पूजादिकाः क्रियाः ॥
नूनं वेत्सि फलं कृत्स्नं यत्प्रदक्षिणसंभवम्॥ २२ ॥
॥ राजोवाच ॥ ॥ सत्यमेतद्द्विजश्रेष्ठा यद्भवद्भिरुदाहृतम् ॥
रहस्यमपि वक्तव्यं युष्माकं सांप्रतं मया ॥ २३ ॥
अहमास शुकः पूर्वमस्मिन्नायतने शुभे ॥
देव्याः पश्चिमदिग्भागे कुलायकृतसंश्रयः ॥ २४ ॥
तत्र निर्गच्छतो नित्यं कुर्वतश्चप्रवेशनम् ॥
प्रदक्षिणाभवद्देव्या नित्यमेव द्विजोत्तमाः ॥ २५ ॥
ततः कालेन मे मृत्युः संजातोऽत्रैव मंदिरे ॥
तत्प्रभावेण संजातो राजा जातिस्मरोऽत्र हि ॥ ॥ २६ ॥
एतस्मात्कारणाद्दूरात्समभ्येत्य प्रदक्षिणाम् ॥
करोम्यस्या द्विजश्रेष्ठा देवतायाः समाहितः ॥ २७ ॥
पुरा भक्तिविहीनेन कुलाये वसता मया ॥
कृता प्रदक्षिणा देव्यास्तेन जातोऽस्मि भूपतिः ॥ २८ ॥
अधुना श्रद्धया युक्तो यत्करोमि प्रदक्षिणाम् ॥
किं मे भविष्यति श्रेयस्तन्न वेद्मि द्विजोत्तमाः ॥ २९ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा तस्य ते विप्रा विस्मयोत्फुल्ललोचनाः ॥
साधुवादं तथा चक्रुस्तस्य भूपस्य हर्षिताः ॥ ॥ ६.६४.३० ॥
ततः स पार्थिवः सर्वान्प्रणम्य द्विजसत्तमान् ॥
अनुज्ञाप्य ययौ तूर्णं स्वगृहाय ससैनिकः ॥ ३१ ॥
अधुना श्रद्धया युक्तो यः करोति प्रदक्षिणाम् ॥
सर्वपापविनिर्मुक्तो लभते वांछितं फलम् ॥ ३२ ॥
ततः प्रभृति ते विप्राः सर्वे भक्तिपुरःसराः ॥
तस्याः प्रदक्षिणां चक्रुस्तथान्ये मुक्तिहेतवे ॥ ३३ ॥
प्राप्ताश्च परमां सिद्धिं वांछितां तत्प्रभावतः ॥
इह लोके परे चैव दुर्लभां त्रिदशैरपि ॥ ३४ ॥
तस्मात्सर्वप्रयत्नेन तां देवीमिह संश्रयेत् ॥
सर्वकामप्रदां नृणां तस्मिन्क्षेत्रे व्यवस्थिताम् ॥ ३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये चमत्कारीदुर्गामाहात्म्यवर्णनंनाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ ॥ ध ॥