स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०८१


॥ ॥ श्रीगरुड उवाच ॥ ॥
ममास्ति दयितं मित्रं ब्राह्मणो भृगुवंशजः ॥
तस्यास्ति माधवीनाम कन्या कमललोचना ॥ १ ॥
न तस्याः सदृशः कांतः प्राप्तस्तेन महात्मना ॥
यतस्ततोऽहमादिष्टः कांतमस्यास्त्वमानय ॥
अनुरूपं द्विजश्रेष्ठ यद्यहं संमतस्तव ॥ २ ॥
ततो मयाऽखिला भूमिस्तद्वरार्थं विलोकिता ॥
न तदर्थं वरो लब्धः सर्वैः समुचितो गुणैः ॥ ३ ॥
ततस्त्वं पुण्डरीकाक्ष मम चित्ते व्यवस्थितः ॥
अनुरूपः पतिस्तस्याः सर्वैरेव गुणैर्युतः ॥ ४ ॥
तस्मात्पाणिग्रहं तस्याः स्वीकुरुष्व सुरेश्वर ॥
अत्यन्तरूपयुक्ताया मम वाक्यप्रणोदितः ॥ ५ ॥
॥ भगवानुवाच ॥ ॥
अत्रानय द्विजश्रेष्ठ तां कन्यां कमलेक्षणाम्॥
येन दृष्ट्वा स्वयं पश्चात्प्रकरोमि यथोदितम् ॥ ६ ॥
॥ गरुड उवाच ॥ ॥
तव तेजोभयादेव सा कन्या जनकान्विता ॥
मया दूरे विनिर्मुक्ता तत्कथं तामिहानये ॥ ७ ॥
॥ श्रीभगवानुवाच ॥ ॥
अत्र तां मम तत्तेजो जनकेन समन्विताम्॥
न हि धक्ष्यति तस्मात्त्वं शीघ्रं द्विजवराऽऽनय ॥ ८ ॥
एवमुक्तस्ततस्तेन विष्णुना प्रभविष्णुना ॥
तां कन्या मानयामास तं च विप्रभृगूद्वहम्॥ ९ ॥
अथासौ प्रणिपत्योच्चैर्ब्राह्मणो मधुसूदनम् ॥
लक्ष्मीवन्न्यविशत्पार्श्वे गरुडस्य समीपतः ॥ ६.८१.१० ॥
सापि कन्या वरारोहा बाल्यभावादनिन्दिता ॥
शय्यैकांते समाविष्टा दक्षिणे मुरविद्विषः ॥ ११ ॥
अथ कोपपरीतांगी महिष्याधर्ममाश्रिता ॥
लक्ष्मीः शशाप तां कन्यां सपत्नीति विचिन्त्य च ॥ १२ ॥
यस्मान्मे पुरतः पापे कांतस्य मम हर्षिता॥
शय्यायां त्वं समाविष्टा लज्जां त्यक्त्वा सुदूरतः ॥
तस्मादश्वमुखी नूनं विकृता त्वं भविष्यसि ॥ १३ ॥
एवं शापे श्रिया दत्ते हाहाकारो महानभूत् ॥
सर्वेषां तत्र संस्थानां कोपश्चापि द्विजन्मनः ॥ ॥ १४॥
॥ ब्राह्मण उवाच ॥ ॥
सहस्रं याच्यते कन्या करोत्येकः करग्रहम् ॥
वाङ्मात्रेण न तस्याः स्यात्पत्नीभावः कथंचन ॥ १९ ॥
यावन्नाग्निद्विजातीनां प्रत्यक्षं गुरुसंनिधौ ॥
ससंकल्पं स्वयं दत्ता गृह्योक्तविधिना जनैः ॥ १६ ॥
तस्मात्तद्दोषनिर्मुक्ता सपत्न्येषा समा त्वया ॥
कृता वाजिमुखी पापे त्वं गजास्या भविष्यसि ॥।७॥
एवमुक्त्वा स विप्रेंद्रस्ततः प्रोवाच केशवम्॥
आतिथ्यं विहितं ह्येतत्तव पत्न्या यथोचितम् ॥
तस्मात्तत्र प्रयास्यामि यत्र स्यात्तादृशी सुता ॥ १८ ॥
॥ श्रीभगवानुवाच ॥ ॥
न सन्तापस्त्वया कार्यः कृत्येस्मिन्द्विजसत्तम ॥
ममांतिके प्रयातानां नाशुभं जायते क्वचित् ॥ १९ ॥
तस्मान्नाश्वमुखी ह्येषा जन्मन्यस्मिन्भविष्यति ॥
गृहीत्वेमां गृहं गच्छ प्रयच्छ स्वेप्सिताय च ॥ ६.८१.२० ॥
शयने वामदिग्भागः कलत्राणामुदाहृतः ॥
दक्षिणे बन्धुलोकानां तत्कालोचितशायिनाम्॥२॥।
सेयं तव सुता विप्र बंधुस्थानं समाश्रिता ॥
भविष्यति ततो जामिः कनिष्ठा मेऽन्यजन्मनि ॥ २२ ॥
अवतीर्णस्य भूपृष्ठे देवकार्येण केनचित् ॥
वाजिवक्त्रधरा प्रोक्ता यद्येषा मम कांतया ॥२३॥
ततोऽहं सुमहत्कृत्वा तपश्चैवानया सह ॥
करिष्यामि शुभास्यां च तथा लक्ष्मीमपि द्विज ॥ २४ ॥
एवं स भगवान्विप्रं तं सन्तोष्य तदा गिरा ॥
गरुडेन समं चक्रे कथाश्चित्रा मनोरमाः ॥ २५ ॥
अथ तस्मिन्कथांते स गरुडः पुरुषोत्तमम् ॥
प्रोवाच तां स्त्रियं दृष्ट्वा वृद्धां तेजःसमन्विताम् ॥ ॥ २६ ॥
अपूर्वेयं सुरश्रेष्ठ स्त्री वृद्धा तव पार्श्वगा ॥
किमर्थं केयमाख्याहि कुतः प्राप्ता जनार्दन ॥ २७ ॥
॥ श्रीभगवानुवाच ॥ ॥
एषा ख्याता खगश्रेष्ठ लोकेऽस्मिन्वृद्धकन्यका ॥
शांडिलीनाम सर्वज्ञा ब्रह्मचर्यपरायणा ॥ २८ ॥
तपोवीर्यसमोपेता सर्वदेवाभिवंदिता ॥
नास्ति वै चेदृशी नारी खगेन्द्रात्र जगत्त्रये ॥ २९ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा विहस्य विहगाधिपः ॥
प्रोवाच वासुदेवं च तां विलोक्य चिरं द्विजाः ॥ ६.८१.३० ॥
॥ गरुड उवाच ॥ ॥
नैतच्चित्रं तपो यच्च क्रियते सुमहत्तरम् ॥
यथा च दीयते दानं यच्च तत्रास्ति चाद्भुतम्॥
तथा च क्रियते युद्धं संग्रामे युद्धशालिभिः ॥ ३१ ॥
नाश्चर्यं चित्रमेतच्च ब्रह्मचर्यं तदद्भुतम् ॥
विशेषाद्यौवनावस्थां संप्राप्य पुरुषोत्तम ॥ ३२ ॥
विशेषेण च नारीभिरत्र न श्रद्दधाम्यहम् ॥
अवश्यं यौवनस्थेन तिर्यग्योनिगतेन च ॥ ३३ ॥
विकारः खलु कर्तव्यो नाधि काराय यौवनम् ॥
यदि न प्राप्नुवंत्येताः पुरुषं योषितः क्वचित् ॥ ३४ ॥
अन्योन्यं मैथुनं चक्रुः कामबाणप्रपीडिताः ॥
कुष्ठिनं व्याधितं वापि स्थविरं व्यंगमेव च ॥
अप्येताः पुरुषाभावे मन्यंते पंचसायकम् ॥ ३५ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ॥
नांतकः सर्वभूतानां न पुंसां वामलोचना ॥ ३६ ॥
न परत्र भयादेता मर्यादां विदधुः स्त्रियः ॥
मुक्त्वा भूपभयं चैकमथवा गुरुजं भयम् ॥ ३७ ॥
॥ सूत उवाच ॥ ॥
एवं तस्य वचः श्रुत्वा शांडिली ब्रह्मचारिणी ॥
मौनव्रतधराऽप्येवं हृदि कोपं दधार सा ॥ ३८ ॥
एतस्मिन्नंतरे तस्य पक्षिनाथस्य तत्क्षणात् ॥
उभौ पक्षौ गतौ नाशं रुण्डाकारोऽत्र सोऽभवत् ॥ ३९ ॥
मांसपिंडमयो रौद्रः सर्वरोगविवर्जितः ॥
अशक्तश्च तथा गन्तुं पदमात्रमपि क्वचित् ॥ ॥ ६.८१.४० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णपक्षपातवर्णनंनामैकाशीतितमोऽध्यायः ॥ ८१ ॥ ॥ छ ॥