स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०८६
॥ सूत उवाच ॥ ॥
अथान्यापि च तत्रास्ति सप्तविंशतिका तथा ॥
नक्षत्रैः स्थापिता देवी वांछितस्य प्रदायिनी ॥ १ ॥
दक्षस्य तनया पूर्वं सप्तविंशतिसंख्यया ॥
उद्वाहिता हि सोमेन पूर्वं ब्राह्मणसत्तमाः ॥ २ ॥
तासां मध्ये ऽभवच्चैका रोहिणी तस्य वल्लभा ॥
प्राणेभ्योऽपि सदासक्तस्तया सार्धं स तिष्ठति ॥ ३ ॥
ततो दौर्भाग्यसंतप्ताः सर्वा स्ता दक्षकन्यकाः ॥
वैराग्यं परमं गत्वा क्षेत्रेऽस्मिंस्तपसि स्थिताः ॥ ४ ॥
संस्थाप्य देवतां दुर्गां श्रद्धया परया युताः ॥
बलिपूजोपहारैस्तां पूजयंत्यः सुरेश्वरीम् ॥ ५ ॥
ततः कालेन महता तासां सा तुष्टिमभ्यगात् ॥
अब्रवीच्च प्रतुष्टोऽहं वरं दास्यामि पुत्रिकाः ॥ ६ ॥
तस्मात्तत्प्रार्थ्यतां चित्ते यद्युष्माकं व्यवस्थितम् ॥
सर्वं दास्याम्यसंदिग्धं यद्युष्माकं हृदि स्थितम् ॥ ७ ॥
ततः प्रोचुश्च ताः सर्वाः प्रसादात्तव वांछितम् ॥
अस्माकं विद्यते देवि यावत्त्रैलोक्यसंस्थितम् ॥ ८ ॥
एकं पत्युः सुखं मुक्त्वा यत्सौभाग्यसमुद्भवम् ॥
तस्मात्तद्देहि चास्माकं यदि तुष्टासि चंडिके ॥ ९ ॥
वयं दौर्भाग्यदोषेण सर्वाः क्लेशं परं गताः ॥
न शक्नुमः प्रियान्प्राणान्देहे धर्तुं कथंचन ॥ ६.८६.१० ॥
॥ श्रीदेव्युवाच ॥ ॥
अद्यप्रभृति युष्माकं सौभाग्यं पतिसंभवम्॥
मत्प्रसादादसंदिग्धं भविष्यति सुखोदयम्॥ ११ ॥
अन्यापि या पतित्यक्ता स्त्री मामत्र स्थितां सदा ॥
पूजयिष्यति सद्भक्तया चतुर्दश्यामुपोषिता ॥ १२ ॥
सा भविष्यति सौभाग्ययु्क्ता पुत्रवती सती ॥
यावत्संवत्सरं तावदेकभक्तपरायणा ॥ १३ ॥
अक्षारलवणाशा या नारी मां पूजयिष्यति ॥
न तस्याः पतिजं दुःखं दौर्भाग्यं वा भविष्यति ॥ १४ ॥
आश्विनस्य सिते पक्षे संप्राप्ते नवमीदिने ॥
उपवासपरा या मां निशीथे पूजयिष्यति ॥
तस्याः सौभाग्यमत्युग्रं सर्वदा वै भविष्यति ॥ १५ ॥
एवमुक्त्वा तु सा देवी विरराम द्विजोत्तमाः ॥
ताश्च सर्वाः सुसंहृष्टा जग्मुर्दक्षस्य मंदिरम्॥ १६ ॥
एतस्मिन्नंतरे दक्ष आहूतः शूलपाणिना ॥
प्रोक्तः कस्मात्त्वया चन्द्रो यक्ष्मणा संनियोजितः ॥
तदयुक्तं कृतं दक्ष जामाताऽयं यतस्तव ॥ १७ ॥
॥ दक्ष उवाच ॥ ॥
अनेन तनया मह्यमष्टाविंशतिसंख्यया ॥
ऊढा अखण्डचारित्रास्तास्त्यक्ता दोषवर्जिताः ॥
मुक्त्वैकां रोहिणीं देव निषिद्धेन मयाऽसकृत् ॥ १८ ॥
ततो मयाऽतिकोपेन नियुक्तो राजयक्ष्मणा ॥
असत्यजल्पको मन्दः कामदेववशं गतः ॥ १९ ॥
॥ श्रीभगवानुवाच ॥ ॥
अद्यप्रभृति सर्वासां समं स प्रचरिष्यति ॥
मद्वाक्यान्नात्र संदेहः सत्यमेतन्मयोदितम्॥ ६.८६.२० ॥
त्वयापि यद्वचः प्रोक्तमसत्यं स्यान्न तत्क्वचित् ॥
तस्मादेष क्षयं पक्षं वृद्धिं पक्षं प्रयास्यति ॥ २१ ॥
दक्षोऽपि बाढमित्येव तत्प्रोक्त्वा च ययौ गृहम् ॥
चंद्रस्तु दक्षकन्यास्ताः समं पश्यति सर्वदा ॥ २२ ॥
गच्छमानः क्षयं पक्षं वृद्धिं पक्षं च सद्द्विजाः ॥
सापि देवी ततः प्रोक्ता सप्तविंशतिका क्षितौ ॥
सर्वसौभाग्यदा स्त्रीणां तस्मिन्क्षेत्रे व्यवस्थिता ॥ २३ ॥
यश्चैतत्पुरतस्तस्याः संप्राप्ते चाष्टमीदिने ॥
शुचिर्भूत्वा पठेद्भक्त्या स सौभाग्यमवाप्नुयात् ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तविंशतिकामाहात्म्यवर्णनंनाम षडशीतितमोऽध्यायः ॥ ८६ ॥ ॥ छ ॥