स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १२३
॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति शुक्लतीर्थमनुत्तमम्॥
दर्भैः संसूचितं श्वेतैर्यदद्यापि द्विजोत्तमाः ॥ १ ॥
चमत्कारपुरे पूर्वमासीत्कश्चित्सुशल्यवित् ॥
रजकः शुद्धकोनाम पुत्रपौत्रसमन्वितः ॥ ॥ २॥
स सर्वरजकानां च प्राधान्येन व्यवस्थितः ॥
प्रधानब्राह्मणानां च करोत्यंबरशोधनम् ॥ ३ ॥
कस्यचित्त्वथ कालस्य नीलीकुण्ड्यां समाहितः ॥
प्राक्षिपद्ब्राह्मणेंद्राणां वासो विज्ञातवांश्चिरात् ॥ ४ ॥
अथासौ मन्दचित्तश्च स्वामाहूयकुटुम्बिनीम् ॥
पुत्रांश्च वचनं प्राह रहस्ये भयविह्वलः ॥ ५ ॥
निर्मूल्यानि सुवस्त्राणि ब्राह्मणानां महात्मनाम् ॥
नीलीमध्ये विमोहेन प्रक्षिप्तानि बहूनि च ॥ ६ ॥
वधबन्धादिकं कर्म ते करिष्यंत्यसंशयम् ॥
तस्मादन्यत्र गच्छामो गृहीत्वा रजनीमिमाम् ॥ ७ ॥
एवं स निश्चयं कृत्वा सारमादाय मंदिरात् ॥
प्रस्थितो भार्यया सार्द्धं कांदिशीको द्विजोत्तमाः ॥ ८ ॥
तावत्तस्य सुता गत्वा स्वां सखीं दाशसंभवाम् ॥
उवाच क्षम्यतां भद्रे यन्मया कुकृतं कृतम्॥ ९ ॥
अज्ञानाज्ज्ञानतो वापि प्रक्रीडंत्या त्वया सह ॥
प्रणयाद्बाल्यभावाच्च क्रोधाद्वाथ महेर्ष्यया ॥ ६.१२३.१० ॥
अथ सा सहसा श्रुत्वा बाष्पपर्याकुलेक्षणा ॥
उवाच किमिदं भद्रे यन्मामित्थं प्रभाषसे ॥ ११ ॥
॥ सख्युवाच ॥ ॥
मम तातेन नीलायां प्रक्षिप्तान्यंबराणि च ॥
ब्राह्मणानां महार्हाणि विभ्रमेण सुलोचने ॥ १२ ॥
तत्प्रभाते परिज्ञाय दंडं धास्यंति दारुणम् ॥
एवं चित्ते समास्थाय तातः संप्रस्थितोऽधुना ॥ १३ ॥
अहं तवातिकं प्राप्ता दर्शनार्थमनिन्दिते ॥
अनुज्ञाता प्रयास्यामि त्वया तस्मात्प्रमुच्यताम् ॥ १४ ॥
अथ सा तद्वचः श्रुत्वा प्रसन्नवदनाऽब्रवीत् ॥
यद्येवं मा सरोजाक्षि कुत्रचित्संप्रयास्यसि ॥ १५ ॥
निवारय द्रुतं गत्वा तातं नो गम्यतामिति ॥
अस्ति पूर्वोत्तरे भागे स्थानादस्माज्जलाशयः ॥ १६ ॥
तत्रैकदा विनिक्षिप्तं मम तातेन जालकम् ॥
अतीवकृष्णकेशोत्थं तावच्छुक्लत्वमागतम्॥।७॥
ततः स विस्मयाविष्टः स्वयं सस्नौ कुतूहलात् ।
यावच्छुक्लत्वमापन्नस्तादृक्कृष्णवपुर्धरः ॥ १९ ॥
सुश्वेतमूर्धजः सद्यः स्त्रीणां वैराग्यकारकः ॥
ततःप्रभृति नो ज्ञात्वा कश्चित्तत्र प्रगच्छति ॥ १९ ॥
तस्मात्तत्रैव वस्त्राणि प्रक्षालयतु सत्वरम् ॥
तातः स तव यास्यंति विशुद्धिं परमां शुभे ॥ ६.१२३.२० ॥
अथ सा सत्वरं गत्वा निजतातस्य तद्वचः ॥
सत्वरं कथयामास प्रहृष्टवदना सती ॥ २१
मम सख्या समादिष्टं नातिदूरे जलाशयः ॥
तत्र श्वेतत्वमायाति सर्वं क्षिप्तं सितेतरम् ॥२२॥
तस्मात्प्रक्षालय प्रातस्तत्र गत्वा जलाशये ॥
वस्त्राण्यमूनि शुक्लत्वं संप्रयास्यंत्यसंशयम्॥ २३॥
॥ रजक उवाच ॥
नैतत्संपत्स्यते पुत्रि यन्नीलस्य परिक्षयः ॥
वस्त्रलग्नस्य जायेत यतः प्रोक्तं पुरातनैः ॥२४॥
वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च ॥
एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा ॥२५॥
॥ कन्योवाच ॥ ॥
तत्र ह्यागम्यतां तावद्वस्त्रणयादाय यत्नतः ॥
तोयाच्छुद्धिं प्रयास्यंति तदाऽऽगंतव्यमेव हि ॥ ॥२६॥
भूयोऽपि मंदिरे वाऽथ तस्मात्स्थानाद्दिगंतरम् ॥
गंतव्यं सकलैरेव ममैतद्धृदि संस्थितम्॥२७॥
तस्यास्तद्वचनं श्रुत्वा साधुसाध्विति तेऽसकृत् ॥
प्रोच्य बांधवभृत्याश्च रात्रावेव प्रजग्मिरे ॥२८॥
दाशकन्यां पुरः कृत्वा संशयं परमं गताः ॥
विभवेन समायुक्ता निजेन द्विजसत्तमाः ॥२९॥
ततः सा दर्शयामास दाशकन्या जलाशयम् ॥
बहुवीरुधसंछन्नं दुष्प्रवेशं च देहिनाम् ॥ ६.१२३.३० ॥
ततः स रजकस्तत्र वस्त्राण्यादाय सर्वशः ॥
प्रविष्टः सलिले तस्मिन्क्षालयामास वै द्विजाः ॥ ३१ ॥
अथ तानि सुवस्त्राणि मेचकाभानि तत्क्षणात् ॥
जातानि स्फटिकाभानि तत्क्षणादेव कृत्स्नशः ॥ ॥ ३२ ॥
ततस्तुष्टिसमायुक्तः साधुसाध्विति चाऽब्रवीत् ॥
समालिंग्य सुतां प्राह दाशकन्यां च सादरम् ॥ ३३ ॥
सुवस्त्राणि द्विजेंद्राणामर्पयामो यथाक्रमम् ॥ ३४ ॥
ततः स स्वगृहं गत्वा तानि वस्त्राणि कृत्स्नशः ॥
यथाक्रमेण संहृष्टः प्रददौ द्विजसत्तमाः ॥ ३५ ॥
अथ ते ब्राह्मणा दृष्ट्वा तां शुद्धिं वस्त्रसंभवाम् ॥
तं च श्वेतीकृतं चेदृग्रजकं विस्मयान्विताः ॥ ३६ ॥
पप्रच्छुः किमिदं चित्रं वस्त्रमूर्धजसंभवम् ॥
अनौपम्यं च संजातं वदस्व यदि मन्यसे ॥ ३७ ॥
॥ रजक उवाच ॥ ॥
एतानि विप्रा वस्त्राणि मया क्षिप्तानि मोहतः ॥
नीलीमध्ये सुवस्त्राणि विनष्टानि च कृत्स्नशः ॥ ॥ ३८ ॥
ततो भयं महद्भूतं कुटुम्बेन समन्वितः ॥
चलितो रजनीवक्त्रे दिगंते ब्राह्मणोत्तमाः ॥ ३९ ॥
अथैषा तनयाऽस्माकं गता निजसखीं प्रति ॥
दाशात्मजां सुदुःखार्ता पुनर्दर्शनलालसा ॥ ६.१२३.४० ॥
तया सर्वमभिप्रायं ज्ञात्वा मे दुःखहेतुकम् ॥
ततः संदर्शयामास स्थिताग्रे स्वजलाशयम् ॥ ४१ ॥
तस्मिन्प्रक्षिप्तमात्राणि वस्त्राणीमानि तत्क्षणात् ॥
ईदृग्वर्णानि जातानि विस्मयस्य हि कारणम् ॥ ४२ ॥
तथा मे मूर्धजाः कृष्णास्तत्र स्नातस्य तत्क्षणात् ॥
परं शुक्लत्वमापन्ना एतत्प्रोक्तं मया स्फुटम् ॥ ४३ ॥
एवं ते ब्राह्मणाः श्रुत्वा कौतूहलसमन्विताः ॥
तत्र जग्मुः परीक्षार्थं विक्षिप्य तदनंतरम् ॥ ४४ ॥
कृष्णद्रव्याणि भूरीणि केशादीनि सहस्रशः ॥
सर्वं तच्छुक्लतां याति त्यक्त्वा वर्णं मलीमसम् ॥ ४५ ॥
ततो वृद्धतया ये च विशेषाच्छ्वेतमूर्धजाः ॥
ते सस्नुः श्रद्धया युक्तास्तरुणाश्चापि धर्मिणः ॥ ४६ ॥
ततः शुक्लत्वमापन्नास्तेजोवीर्यसमन्विताः ॥
भवंति तत्प्रभावेन प्रयांति च परां गतिम् । ४७ ॥
अथ तद्वासवो दृष्ट्वा शुक्लतीर्थं प्रमुक्तिदम् ॥
पूरयामास रजसा मानुषोत्थभयेन च ॥ ४८ ॥
अद्यापि तत्र यत्किंचिज्जायतेऽथ तृणादिकम् ॥
तत्सर्वं शुक्लतामेति तत्तोयस्य प्रभावतः ॥ ४९ ॥
तत्रोत्थैर्यः कुशैः श्राद्धं कुरुते श्रद्धयान्वितः ।३
श्वैतैस्तैस्तारयेत्सर्वान्पितॄन्नरकगानपि । ६.१२३.५० ॥
तत्तीर्थोत्थां मृदं गात्रे योजयित्वा नरोत्तमः ॥
स्नानं करोति तीर्थानां सर्वेषां लभते फलम् ॥ ५१ ॥
यस्तैर्दर्भैर्नरो भक्त्या तिलैश्चारण्यसंभवैः ॥
करोति तर्पणं विप्राः स प्रीणाति पितामहान् ॥ ५२ ॥
अथाश्वमेधात्संप्राप्यं गयाश्राद्धेन यत्फलम् ॥
नीलसंज्ञगवोत्सर्गे तथात्रापि द्विजोत्तमाः ॥ ५३ ॥
॥ ऋषय ऊचुः ॥ ।
शुक्लतीर्थं कथं जातं तत्र त्वं सूतनंदन ॥
विस्तरेण समाचक्ष्व परं कौतूहलं हि नः ॥ ५४ ॥
॥ सूत उवाच ॥ ॥
श्वेतद्वीपः समानीतो विष्णुना प्रभविष्णुना ॥
तत्क्षेत्रे कलिभीतेन यथा शौक्ल्यं न संत्यजेत् ॥ ५५ ॥
कलिकालेन संस्पृष्टः श्वेतद्वीपोऽपि श्यामताम् ॥
न प्रयाति द्विजश्रेष्ठास्ततस्तत्र निवेशितः ॥ ५६ ॥
इतिश्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये शुक्लतीर्थमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तर शततमोध्यायः ॥ १२३ ॥ ॥ छ ॥