स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १३८
॥ ॥ ऋषय ऊचुः ॥ ॥
किं कृतं धर्मराजेन तपोध्यानादिकं च यत्॥
मांडव्यशापनाशाय तदस्माकं प्रकीर्तय ॥ १ ॥
॥ सूत उवाच ॥ ॥
मांडव्य शापमासाद्य धर्मराजः सुदुःखितः ॥
तपस्तेपे द्विजश्रेष्ठास्तस्मिन्क्षेत्रे व्यवस्थितः ॥ २ ॥
प्रासादं देवदेवस्य संविधाय कपर्दिनः ॥
अव्यग्रं पूजयामास पुष्पधूपानुलेपनैः ॥ ३ ॥
ततः कालेन महता तुष्टस्तस्य महेश्वरः ॥
प्रोवाच वरदोऽस्मीति प्रार्थयस्व यदीप्सितम् ॥ ४ ॥
॥ धर्मराज उवाच ॥ ॥
अहं देव पुरा शप्तो मांडव्येन महात्मना ॥
स्वधर्मे वर्तमानोऽपि सर्वदोषविवर्जितः ॥ ५ ॥
कुपितेन च तेनोक्तं शूद्रयोनौ भविष्यसि ॥ ६ ॥
तत्रापि च महद्दुःखं ज्ञातिनाशसमुद्रवम् ॥
मच्छापजनितं सद्यो जातिजं समवाप्स्यसि ॥ ७ ॥
तस्मात्त्राहि सुरश्रेष्ठ तस्या योनेः सकाशतः ॥
कथं चैतद्विधो भूत्वा तस्यां जन्म करोम्यहम् ॥८॥
तत्रापि च महदुःखं ज्ञातिनाशसमुद्भवम् ॥
एतदर्थे सुरश्रेष्ठ मया चाराधितो भवान् ॥९॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
न तस्य सन्मुनेर्वाक्यं शक्यते कर्तुमन्यथा ॥
तस्माच्छूद्रोऽपि भूत्वा त्वं न संतानमवाप्स्यसि ॥ ६.१३८.१० ॥
ज्ञातिक्षयं प्रदृष्ट्वापि नैव दुःखमवाप्स्यसि ॥
यतो निषिध्यमानापि न करिष्यंति ते वचः ॥ ११ ॥
एतस्मात्कारणाच्चित्ते न ते दुःखं भविष्यति ॥
ज्ञातिजं धर्मराजैतत्सत्यमेव मयोदितम् ॥ १२ ॥
स्थित्वा वर्षशतं प्राज्ञ त्वं शूद्रो धर्मवत्सलः ॥
उपदेशान्बहून्दत्त्वा ज्ञातिभ्यो हितकाम्यया ॥
अपि श्रद्धा विहीनेषु पापात्मसु सदैव हि ॥ १३ ॥
ततो वर्षशते पूर्णे ब्रह्मद्वारेण केवलम् ॥
आत्मानं सम्यगुत्सृज्य मोक्षमेव प्रयास्यसि ॥ १४ ॥
एवमुक्त्वा स भगवान्गतश्चादर्शनं ततः ॥
धर्मराजोऽपि तं शापं भेजे मांडव्यसंभवम् ॥ १५ ॥
तदा विदुररूपेण ह्यवतीर्य धरातले ॥
मांडव्यस्य वचः सत्यं स चकार महामतिः ॥ १६ ॥
जातो भगवता साक्षाद्व्यासेनामिततेजसा ॥
पाराशर्येण विप्रेण दासीगर्भसमुद्भवः ॥ १७ ॥
एतद्वः सर्वमाख्यातं धर्मराजसमुद्भवम् ॥
आख्यानं यदहं पृष्टः सर्वपातकनाशनम् ॥ १८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहरस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजेश्वरोत्पत्तिवर्णनंनामाष्टात्रिंशदुत्तरशततमोअध्यायः ॥ १३८॥