स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १५४

॥ सूत उवाच ॥ ॥
या नारी तत्र सत्कुण्डे स्नात्वा तां पार्वतीं पुनः ॥
दृष्ट्वा स्नाति ततस्तीर्थे तस्मिन्रूपमये शुभे ॥१॥
पुनश्च पार्वतीं पश्येच्छ्रद्धया परया युता ॥
सद्यः सा मुच्यते कृत्स्नैराजन्ममरणांतिकैः ॥ २ ॥
तत्रैवास्ति जयानाम पार्वत्याः किंकरी द्विजाः ॥
तया तत्र कृतं कुण्डं गौरीकुण्डसमीपतः ॥ ३ ॥
या तत्र कुरुते स्नानं तृतीयादिवसेऽबला ॥
सुतसौभाग्यसंपन्ना सा भवेत्पतिवल्लभा ॥ ४ ॥
तथान्यदपि तत्रास्ति विजयाकुण्डमुत्तमम् ॥
तत्र स्नाताऽपि वंध्या स्त्री जायते पुत्रसंयुता ॥ ५ ॥
न च पश्यति पुत्राणां कदाचिद्व्यसनं द्विजाः ॥
न वियोगं न दुःखं च स्वप्नांते च कदाचन ॥६॥
काकवंध्याऽपि या नारी तत्र स्नानं समाचरेत्॥
सा पुत्रान्विविधाँल्लब्ध्वा स्वर्गलोके महीयते ॥७॥ ॥
॥ ऋषय ऊचुः ॥ ॥
एतेषां सूत तीर्थानां तीर्थमस्ति सुसिद्धिदम्॥
क्वचित्किंञ्चिद्भवेत्सिद्धिर्यत्र स्नानाच्छरीरजा ॥ ८॥
॥ सूत उवाच ॥ ॥
सप्तविंशतिलिंगानि यानि संति द्विजोत्तमाः ॥
तेषां मध्येऽभवत्सिद्धिरेकस्मिन्निखिला द्विजाः ॥९॥
एकस्य सत्त्वयुक्तस्य वीरव्रतयुतस्य च ॥
आश्विनस्य चतुर्दश्यां कृष्णायां द्विजसत्तमाः॥६.१५४.१०॥
अर्धरात्रे विधानेन तेषां पूजां करोति यः ॥
प्रागुक्तं जपनं भक्त्या स क्रमात्साधकोत्तमः॥११॥
अंगन्यासं विधायोच्चैः क्षुरिकासूक्तमुच्चरत् ॥
तेषामग्रे पुनः सम्यक्पूजयित्वा च शंकरम् ॥ १२ ॥
पृथगेकैकशो भक्त्या पूजयेद्दिक्पतींश्च वै ॥ १३ ॥
अथाऽऽगत्य गणेशो वै विकरालो भयानकः ॥
लंबोदरो वै नग्नश्च कृष्णदन्तसमुद्भवः ॥ १४ ॥
खड्गहस्तोऽब्रवीद्युद्धं प्रकुरुष्व मया समम् ॥
मुक्त्वैतत्कपटं भूमौ यदि वीरोऽसि सात्त्विकः ॥ १५ ॥
ततस्तत्कर्षणाच्चापि यस्तेनाशु प्रताड्यते ॥
स तेनैव शरीरेण नीयते तेन तत्पदम् ॥ १६ ॥
यत्र स्थाने जरामृत्युर्न शोकश्च कदाचन ॥
तथा चित्रेश्वरीपीठे सिद्धिरेकस्य कीर्तिता ॥ १७ ॥
माघकृष्णचतुर्दश्यां यः पीठं तत्र पूजयेत् ॥
आगमोक्तविधानेन सम्यक्छ्रद्धासमन्वितः ॥ १९ ॥
पश्चात्कपालमादाय महामांसप्रपूरितम् ॥
अहमस्य करोम्यद्य महामांसस्य विक्रयम् ॥ १९ ॥
सिद्धिमूल्ये न गृह्णातु कश्चिच्चेदस्ति सात्त्विकः ॥
ततश्च याचते यश्च प्रगृह्णाति च सद्द्विजाः ॥ ६.१५४.२० ॥
स तमादाय निर्याति यत्र देवो महेश्वरः ॥
हाटकेश्वरजं लिंगं चित्रशर्मप्रतिष्ठितम् ॥ २१ ॥
तस्य स्थानस्य मध्यस्थो यस्तं पूजयते नरः ॥
शिवरात्रौ निशीथे च पुष्पलक्षणभक्तितः ॥
सुसिद्धिमाप्नुयात्तूर्णं स शरीरेण तत्क्षणात् ॥ २२ ॥
सिद्धिस्थानानि सर्वाणि तस्मिन्क्षेत्रे स्थितानि वै॥
वीरव्रतप्रयुक्तानां मानवानां द्विजोत्तमाः ॥ २३ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
तामसो यस्त्वया प्रोक्तः सिद्धिमार्गो महामते ॥
अनर्हो ब्राह्मणेन्द्राणां श्रोत्रियाणां विशेषतः ॥ २४ ॥
शुद्धान्तः करणैः सूत भूतहिंसाविवर्जितैः ॥
यथा संप्राप्यते मोक्षो ब्राह्मणैः सुचिरादपि ॥ २५ ॥
तत्त्वं ब्रूहि महाभाग मोक्षोपायं द्विजन्मनाम् ॥ २६ ॥ ॥
॥ सूत उवाच ॥ ॥
रुद्रैर्दशभिः संयुक्तमानंदेश्वरकं तथा ॥
स्नात्वा तदग्रतः कुण्डे शास्त्रदृष्टेन कर्मणा ॥ २७ ॥
संसिद्धिमाप्नुयान्मर्त्यो दुर्लभां त्रिदशैरपि ॥
माघमासे नरः स्नात्वा विश्वामित्रह्रदे नरः ॥ २८ ॥
प्रत्यूषे तिलपात्रं च ब्राह्मणाय निवेदयेत् ॥
सर्वपापविनिर्मुक्तो ब्रह्म लोके महीयते ॥ २९ ॥
यद्यपि स्याद्दुराचारः सर्वाशी सर्वविक्रयी ॥
सुपर्णाख्यस्य देवस्य पुरतः श्रद्धयाऽन्वितः ॥ ६.१५४.३० ॥
प्रायोपवेशनं कृत्वा ह्युपवासपरो नरः ॥
यस्त्यजेन्मानवः प्राणान्न स भूयोऽभिजायते ॥ ३१ ॥
एवं सिद्धित्रयं प्रोक्तं ब्राह्मणानां हितावहम् ॥
सात्त्विकं ब्राह्मणश्रेष्ठाः शंसितं त्रिदशैरपि ॥ ३२ ॥
अन्यानि तत्र तीर्थानि देवतायतनानि च ॥
तानि स्वर्गप्रदान्याहुर्मुनयः शंसितव्रताः ॥ ३३ ॥
एतद्वः सर्वमाख्यातं क्षेत्रमाहात्म्यमुत्तमम् ॥
हाटकेश्वरदेवस्य सर्वपातकनाशनम् ॥ ३४ ॥
योऽत्र सर्वेषु तीर्थेषु स्नात्वा पश्यति भक्तितः ॥
सर्वाण्यायतनान्येव स पापोऽपि विमुच्यते ॥ ३५ ॥
एतत्खंडं पुराणस्य प्रथमं परिकीर्तितम् ॥
कार्तिकेयप्रणीतस्य सर्वपापहरं शुभम् ॥ ३६ ॥
यश्चैतत्कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥
इह भुक्त्वा सुविपुलान्भोगान्याति त्रिविष्टपम् ॥ ३७ ॥
सर्वतीर्थेषु यत्पुण्यं सर्वदानैश्च यत्फलम् ॥
तत्फलं समवाप्नोति शृण्वञ्छ्रद्धासमन्वितः ॥ ३८ ॥
श्रुत्वा पुराणमेतद्धि जन्मकोटिसमुद्भवात् ॥
पातकाद्विप्रमुच्येत कुलानामुद्धरेच्छतम् ॥ ३९ ॥
ततो व्यासः पूजनीयो वस्त्रदानादिभूषणैः ॥
गोभूहिरण्यनिर्वापैर्दानैश्च विविधैरपि ॥६.१५४.४०॥
तेन संपूजितो व्यासः कृष्णद्वैपायनः मनुः ॥
साक्षात्सत्यवतीपुत्रो येन व्यासः सुपूजितः॥४१॥
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत्॥
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत् ॥४२॥
एतत्पवित्रमायुष्यं धन्यं स्व स्त्ययनं महत्॥
यच्छ्रुत्वा सर्वदुःखेभ्यो मुच्यते नात्र संशयः॥४३।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये चित्रेश्वरीपीठक्षेत्रमाहात्म्यवर्णनंनाम चतुःपंचाशदुत्तरशततमोऽध्यायः॥१५४॥