स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १५६
॥ सूत उवाच ॥ ॥
एवं सम्बोधिता तेन सा भार्या विजने गता ॥
कन्याप्रदानस्य रुचिः संजाता तदनन्तरम् ॥ १ ॥
ततः स पादौ प्रक्षाल्य मणिभद्रस्य सत्वरम्॥
उदकं साक्षतं हस्ते कन्यादानकृते ददौ ॥ २ ॥
सोऽपि हस्तकृते तोये तं क्षत्रियमुवाच ह ॥
अद्यैव कुरु मे शीघ्रं विवाहं कन्यया सह ॥ ३ ॥
यस्मादिच्छामि संस्थातुं तेन ते गृहमागतः ॥
॥ क्षत्रिय उवाच ॥ ॥
नात्र नक्षत्रमर्हं तु न किंचिद्भगदैवतम् ॥ ॥ ४ ॥
विवाहस्य न वारस्तु प्रसुप्ते मधुसूदने ॥
अस्मिन्काले तु संप्राप्ते या कन्या परिणीयते ॥५॥
सा च संवत्सरान्मध्ये ध्रुवं वैधव्यमाप्नुयात्॥
एवं दैवज्ञमुख्यानां श्रुतं प्रवदतां मया ॥ ६ ॥
तस्माच्छुभे तु संप्राप्ते नक्षत्रे भगदैवते ॥
त्वं विवाहय मे कन्यां प्रोत्थिते मधुसूदने ॥
येन क्षेमंकरी ते स्यात्तथा पुत्रप्रपौत्रिणी ॥ ७ ॥
॥ मणिभद्र उवाच ॥ ॥
नक्षत्रं वह्निदैवत्यं प्रसुप्तो मधुसूदनः ॥ ८ ॥
सांप्रतं वत्सरांतोऽयं विवाहे विहिते सति ॥
कामाग्निरुत्थितः काये सांप्रतं मां प्रबाधते ॥ ९ ॥
तस्मात्कुरु प्रसादं मे कन्याविवहितेन तु ॥
तव वित्तं प्रदास्यामि सुखी येन भविष्यसि ॥ ६.१५६.१० ॥
॥ सूत उवाच ॥ ॥
तस्माच्च वित्तलोभेन क्षत्रियो द्विजसत्तमाः ॥
विवाहं कारयामास तत्क्षणादेव स द्विजाः ॥ ११ ॥
ददौ कन्यां सुदुःखार्तामश्रुपूर्णेक्षणां स्थिताम् ॥
सन्निधौ वह्निविप्राणां तदा तेन विवाहिता ॥ १२ ॥
नीत्वा निजगृहं पश्चात्कामधर्मे नियोजिता ॥
अनिच्छंतीमपि सतीं तामतीव निरर्गलः ॥ १३ ॥
सोऽपि निष्कामतां प्राप्य निर्भर्त्स्य च मुहुर्मुहुः ॥
भाषिकाभिरनेकाभिस्तापयित्वा च भामिनीम्॥ १४ ॥
शांतिं नीता ततस्तेन प्रत्यूषे समुपस्थिते ॥
भृत्यवर्गः समस्तोऽपि ततो निःसारितो गृहात् ॥ १५ ॥
इर्ष्याधर्मं समास्थाय परमं द्विजसत्तमाः ॥
एक एव कृतस्तेन द्वारपालो नपुंसकः ॥ १६ ॥
प्रोक्तं न च त्वया देयः प्रवेशोऽत्र गृहे मम ॥
भृत्यस्य भिक्षुकस्यैव वृद्धस्य व्रतिनस्तथा ॥१७॥
एवं कृत्वा विधानं तु ततश्चक्रे जनैः समम् ॥
व्यवहारक्रियाः सर्वा द्रव्यलक्षैः सहस्रशः॥ १८ ॥
श्वशुरस्यापि नो दत्तं किंचित्तेन दुरात्मना ॥
भार्यायाः श्वेतवस्त्राणि मुक्त्वाऽन्यन्नैव किंचन ॥ १९ ॥
यामद्वयेऽपि संप्राप्ते दिनस्य गृहमागतः ॥
मितमन्नं तत स्तस्या भोजनार्थं प्रयच्छति ॥ ६.१५६.२० ॥
यावन्मात्रं च सा भुंक्त एकविप्रान्वितः स्वयम् ॥
भुक्त्वा चैव ततो याति व्यवहारकृते बहिः ॥ २१ ॥ ८।
आगच्छति पुनर्हर्म्यं संध्याकाल उपस्थिते ॥
साऽपि तिष्ठति हर्म्यस्था पत्नी तस्य दुरात्मनः ॥ २२ ॥
वैराग्यं परमं प्राप्ता दुःखशोकसमन्विता ॥ ।
मत्सीव पतिता तोयादन्यस्मिंस्तु स्थलांतिके ॥ २३ ॥
चक्रवाकी विमुक्तेव संप्राप्ते दिवसक्षये ॥
हंसी हंसवियुक्तेव मृगीव मृगवर्जिता ॥ २४ ॥ ।
सोऽपि नित्यं ददौ भोज्यं विप्रस्यैकस्य च द्विजाः ॥
प्रोच्य तं ब्राह्मणं पूर्वं सामपूर्वमिदं वचः ॥ २५ ॥
अधोवक्त्रेण भोक्तव्यं सदा विप्र गृहे मम ॥ ।
यदि पश्यसि मे भार्यां संप्राप्स्यसि विडंबनाम् ॥२६॥
एवं विडंबितास्तेन ह्यूर्ध्ववक्त्रावलोकिनः ॥
ये चान्ये भयसंत्रस्ता न यांति च तदालयम् ॥ । ॥ २७ ॥
कस्यचित्त्वथ कालस्य पुष्पोनाम द्विजोत्तमः ॥
तीर्थयात्राप्रसंगेन संप्राप्तस्तत्पुरं प्रति ॥२८॥
पूर्वे वयसि संस्थश्च दर्शनीयतमाकृतिः ॥ ॥
क्षुत्क्षामः सुपरिश्रांतो मध्याह्ने समुपस्थिते ॥ २९ ॥
परिभ्रमति वै नृणां स गृहाणि समंततः ॥
मणिभद्रः समादिष्टस्तस्य केनापि भोज्यदः ॥६.१५६.३॥। ॥
ततस्तं प्रार्थयामास गत्वा भोज्यं च स द्विजाः ॥
तेनापि स द्विजः प्रोक्तस्तदासौ द्विजसत्तमाः ॥ ३१ ॥
अधोवक्त्रेण भोक्तव्यं त्वया वीक्ष्या न मे प्रिया ॥
नो चेद्विडंबनां विप्र संप्राप्स्यसि न संशयः ॥ ३२ ॥
एवं ज्ञात्वा महाभाग यत्क्षेमं तत्समाचर ॥ ३३ ॥
॥ पुष्प उवाच ॥ ॥
क्षुत्क्षामस्य न मे कार्यं परदारविलोकनैः ॥
वेदाध्ययनयुक्तस्य तीर्थयात्रारतस्य च ॥ ३४ ॥
॥ मणिभद्र उवाच ॥ ॥
तदागच्छ मया सार्धं सांप्रतं मम मंदिरम् ॥
विशेषात्तव दास्यामि भोजनं दक्षिणान्वितम् ॥ ३५ ॥
एवं तौ संविदं कृत्वा ययतुर्ब्राह्मणोत्तमाः ॥
हट्टमार्गे गतौ तत्र यत्र षंढो व्यव स्थितः ॥ ३६ ॥
तत्पार्श्वे ब्राह्मणं धृत्वा प्रविष्टो गृहमध्यतः ॥
भार्यया श्रपयामास धान्यं मानमितं तदा ॥ ३७ ॥
ततो देवार्चनं कृत्वा वैश्वदेवांत आगतम् ॥
पुष्पमाहूय तत्पादौ प्रक्षाल्य च निवेश्य च ॥ ३८ ॥
कृत्वार्चनविधिं तस्य दत्त्वान्नं च सुसंस्कृतम् ॥
उपविश्य ततः पश्चाद्भोजनार्थं ततो द्विजाः।
पुष्पोऽपि वीक्षते तस्याः पादौ पंकजसंनिभौ॥३९॥
यथायथा स कौतुक्याद्वीक्षते यौवनाश्रितः॥
कौतुक्यात्तेन च ततस्तस्या वक्त्रं निरीक्षितम् ॥६.१५६.४०॥
ततश्चाकारयामास मणिभद्रः प्रकोपतः॥
तं षण्ढमुक्तवाञ्जारं त्वमेनं च विडंबय॥४१॥
ततस्तेन द्विजश्रेष्ठाः स पुष्पो मूर्ध्नि ताडितः ॥ ४२ ॥
अधो निपतितं भूमौ रुधिरेण परिप्लुतम् ॥
चरणाभ्यां समाकृष्य दूतो मार्गं समाश्रितः ॥ ४३ ॥
यावच्चतुष्पथं नीतो यत्र संचरते जनः ॥
हाहाकारो महानासीत्तस्मिन्पुरवरे तदा ॥ ४४ ॥
सर्वेषामेव पौराणां तदवस्थं विलोक्य तम् ॥
ततोऽन्यैः शीततोयेन सोभिषिक्तो दयान्वितैः ॥ ४५ ॥
कृत्वा वायुप्रदानं च गमितश्चेतनां प्रति ॥
स प्राप्य चेतनां कृच्छ्रात्तत्तोयात्तानथाब्रवीत् ॥ ४६ ॥
न मया विहितं चौर्यं परदारा न सेविताः ॥
पश्यध्वं मणिभद्रेण यथाहं क्लेशितो जनाः ॥ ४७ ॥
तीर्थयात्रापरो विप्रो ब्रह्मचर्यपरायणः ॥
भोजनार्थं समामन्त्र्य नीतोऽवस्थामिमां ततः ॥ ४८ ॥
किं नास्ति वात्र भूपालो येनैतदसमंजसम् ॥
ब्राह्मणस्य विशेषेण निर्दोषस्य महाजनाः ॥ ४९ ॥
॥ जना ऊचुः ॥ ॥
बहवस्तेन पापेन विप्राः पूर्वं विडंबिताः ॥
राजप्रसादयुक्तेन चेर्ष्यां प्राप्य शरीरिणा ॥ ६.१५६.५० ॥
कोऽपि राजप्रसादान्न किंचिद्ब्रूतेऽस्य सम्मुखम् ॥
तस्मादुत्तिष्ठ गच्छामो दास्यामस्तेऽशनं वयम् ॥ ५१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पादित्यमाहात्म्ये मणिभद्रकृतपुष्पब्राह्मणविडंबनवर्णनंनाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५६ ॥