स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १५८
॥ सूत उवाच ॥ ॥
पुष्पोऽपि गुटिके लब्ध्वा भास्कराद्वारितस्करात् ॥
चिराद्भोजनमासाद्य प्रस्थितो वैदिशं प्रति ॥ १ ॥
ततो वैदिशमासाद्य स पुष्पो हृष्टमानसः ॥
शुक्ला तां गुटिकां वक्त्रे चकारद्विजसत्तमाः ॥ २ ॥
मणिभद्रसमो जातस्तत्क्षणादेव स द्विजः ॥
हट्टमार्गं गते सोऽथ तस्मिन्गत्वाऽथ मंदिरे ॥
प्रविष्टः सहसा मध्ये प्रहृष्टेनांतरात्मना ॥ ३ ॥
ततश्चाकारयामास तं षंढं द्वारमाश्रितम् ॥
तस्य दत्त्वाथ वस्त्राणि पश्चात्षंढमुवाच सः ॥ ४ ॥
षंढकश्चित्पुमानत्र सम्यग्वेषकरो हि सः ॥
मम वेषं समाधाय भ्रमते सकले पुरे ॥ ५ ॥
सांप्रतं मद्गृहे सोऽथ लोभनायागमिष्यति ॥
स च कृत्रिम वेषेण निषेद्धव्यस्त्वया हि सः ॥
स तथेति प्रतिज्ञाय द्वारदेशं समाश्रितः ॥ ६ ॥
पुष्पोऽपि चाब्रवीद्भार्यां माहिकाख्यां ततः परम् ॥
माहिकेद्य मया दृष्टः स्वतातः स्वपुरः स्थितः ॥ ७ ॥
वीरभद्रः सुदुःखार्तो मलिनांबरसंवृतः ॥
अब्रवीच्च ततः कोपान्मामेवं परुषाक्षरम् ॥ ८ ॥
धिग्धिक्पाप त्वया कन्यातीव रूपवती सदा ॥
वंचयित्वा जनेतारमुदूढा सा सुमध्यमा ॥ ९ ॥
न दत्तं तत्पितुः किंचिन्न तस्या अथ पुत्रक ॥
विधवां यादृशीं तां च श्वेतांबरधरां सदा ॥ ६.१५८.१० ॥
संधारयसि पापात्मन्नेष्टं भोज्यं प्रयच्छसि ॥
तस्मात्तस्याः पितुर्देहि त्वं सुवर्णायुतं ध्रुवम् ॥ ११ ॥
भूषणं वांछितं तस्या यत्तद्वै रुचिपूर्वकम् ॥
येन संधारयेद्भार्या साऽऽनंदं परमं गता ॥ १२ ॥
निरानंदा यतो नारी न गर्भं धारयेत्स्फुटम् ॥
निःसंतानो यतो वंशः स्वर्गादपि क्षितिं व्रजेत् ॥ १३ ॥
स पतिष्यत्यसंदिग्धं कुलांगारेण च त्वया ॥
सा त्वमानय वस्त्राणि गृहमध्याच्छुभानि च ॥ १४ ॥
यानि दत्तानि भूपेन व्यवहारैस्तदा मम ॥
पञ्चांगश्च प्रसादो यो मया प्राप्तश्च तैः सह ॥ १५ ॥
त्वं संधारय गात्रैः स्वैः शीघ्रं रसवतीं कुरु ॥
भोजनायैव शीघ्रं तु त्वया सार्धं करोम्यहम् ॥ १६ ॥
एकस्मिन्नपि पात्रे च तदादेशादसंशयम् ॥
सापि सर्वं तथा चक्रे यदुक्तं तेन हर्षिता ॥ १७ ॥
भोजनाच्छादनं चैव निर्विकल्पेन चेतसा ॥
ततः कामातुरः पुष्पो मैथुनायोपचक्रमे ॥ १८ ॥
एतस्मिन्नंतरे प्राप्तो मणिभद्रः समुत्सुकः ॥
क्षुत्क्षामः स पिपासार्तो व्यवहारोत्थलिप्सया ॥ १९ ॥
प्रवेशं कुरुते यावद्गृहमध्ये समुत्सुकः ॥
निषिद्धस्तेन षण्ढेन भर्त्सयित्वा मुहुर्मुहुः ॥ ६.१५८.२० ॥
हठाद्यावत्प्रवेशं स चकार निजमंदिरे ॥
तावच्च दण्डकाष्ठेन मस्तके तेन ताडितः ॥ २१ ॥
अथ संपतितो भूमौ मूर्छया संपरिप्लुतः ॥
कर्तव्यं नैव जानाति तत्प्रहारप्रपीडितः ॥ २२ ॥
ततः कोलाहलो जातस्तस्य द्वारे गृहस्य च ॥
जनस्य संप्रयातस्य हाहाकारपरस्य च ॥ २३ ॥
पप्रच्छुस्तं जनाः केचि द्धिक्पाप किमिदं कृतम् ॥
वृत्तिभंगः कृतोऽनेन अथ त्वं व्यंतरार्दितः ॥ २४ ॥
इमामवस्थां यन्नीतः संप्राप्तोऽसि नृपाद्वधम् ॥ २५ ॥
॥ षंढ उवाच ॥ ॥
न वृत्तिर्गर्हिता तेन नाहं व्यंतरपीडितः ॥
मणिभद्रो न चैष स्यादेष वेषकरः पुमान् ॥ २६ ॥
माणिभद्रं वपुः कृत्वा संप्राप्तो याचितुं धनम् ॥
हठात्प्रविश्यमानस्तु स मया मूर्ध्नि ताडितः ॥ २७ ॥
मणिभद्रो गृहस्यांतर्भुक्त्वा शयनमाश्रितः ॥
संतिष्ठते न जानाति वृत्तांतमिदमा स्थितम् ॥ २८ ॥
ततः पुष्पोऽपि तच्छ्रुत्वा तं च कोलाहलं बहिः ॥
मणिभद्रस्य रूपेण द्वारदेशं समागतः ॥ २९ ॥
अब्रवीन्नित्यमभ्येति मम रूपेण चाधमः ॥
एष वेषधरः कश्चिद्याचितुं धनमेव हि ॥ ६.१५८.३० ॥
एतेनापि च षंढेन न च भद्रमनुष्ठितम् ॥
यत्कुब्जोऽयं हतो मूर्ध्नि याचितुं समु पस्थितः ॥ ३१ ॥
एतस्मिन्नन्तरे सोऽपि चेतनां प्राप्य कृत्स्नशः ॥
वीक्षते पुरतो यावत्तावदात्मसमः पुमान् ॥ ३२ ॥
सर्वतः स तमालोक्य ततो वचनमब्रवीत् ॥ ३३ ॥
क्व चोरः संप्रविष्टो मे मम रूपेण मंदिरे ॥
भेदयित्वा तु षण्डाख्यमेवं दत्त्वा च वाससी ॥ ३४ ॥
यावद्भूपगृहं गत्वा त्वां षंढेन समन्वितम् ॥
वधाय योजयाम्येव तावद्द्रुततरं व्रज ॥ ३५ ॥
॥ पुष्प उवाच ॥ ॥
मम रूपं समाधाय त्वमायातो गृहे मम ॥
शून्यं मत्वा ततो ज्ञातस्त्वयाऽहं गृहसंस्थितः ॥३६॥
ततो नृपाय दास्यामि वधार्थं च न संशयः ॥
नो चेद्गच्छ द्रुतं पाप यदि जीवितुमिच्छसि ॥३७॥ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्त्वा ततस्तौ च बाहुयुद्धेन वै मिथः ॥
युध्यमानौ नरैरन्यैः कृच्छ्रेण तु निवारितौ ॥३८॥
ततस्ते स्वजना ये तु मणिभ द्रस्य चागताः ॥
परिजानंति नो द्वाभ्यां विशेषं माणिभद्रकम् ॥ ३९ ॥
वालिसुग्रीवयोर्युद्धं तारार्थे युध्यमानयोः ॥
एवं विवदमानौ तु क्रोधताम्रा यतेक्षणौ ॥ ६.१५८.४० ॥
राजद्वारं समासाद्य स्थितौ स्वजनसंवृतौ ॥
द्वाःस्थेन सूचितौ राज्ञे सभातलमुपस्थितौ ॥ ४१ ॥
चौरचौरेति जल्पन्तौ पर स्परवधैषिणौ ॥
भूभुजा वीक्षितौ तौ च द्विजौ तु द्विजसत्तमाः ॥४२ ॥
न विशेषोऽस्ति विश्लेषस्तयोरेकोपिकायतः ॥
ततश्च व्यवहारेषु समती तेषु वै तदा ॥ ४३ ॥
पृष्टौ गुह्येषु सर्वेषु प्रत्यक्षेषु विशेषतः॥
वदतस्तौ यथावृत्तं पृथक्पृथग्व्यवस्थितम् ॥ ४४ ॥
ततस्तु स्वजनैः सर्वैरेको नीत्व थ चान्यतः ॥
पृष्टो गोत्रान्वयं सर्वं द्वितीयस्तु ततः परम् ॥ ४५ ॥
तेषामपि तथा सर्वं यथासम्यङ्निवेदितम् ॥
अथ राजा बृहत्सेनः सर्वांस्तानि दमब्रवीत् ॥ ४६ ॥
पत्नी चानीयतां तस्य मणिभद्रस्य वै गृहात् ॥
निजकान्तस्य विज्ञाने सा प्रमाणं भविष्यति ॥ ४७ ॥
ततो गत्वा च सा प्रोक्ता पुरुषैर्नृपसंभवैः ॥
आगच्छ कांतं जानीहि त्वं प्रमाणं भविष्यसि ॥ ४८ ॥
ततः सा व्रीडया युक्ता प्रच्छादितशिरास्ततः ॥
नृपाग्रे संस्थिता प्रोचे विद्धिसम्यङ्निजं प्रियम् ॥ ४९ ॥
न वयं निश्चयं विद्मो न चैते स्वजनास्तव ॥ ६.१५८.५० ॥
ततः सा चिन्तयामास निजचित्ते वरांगना ॥
मणिभद्रेण दग्धाहमीर्ष्यावह्निगताऽनिशम् ॥ ५१ ॥
वंचयित्वा तु पितरं गृहीतास्मि ततः परम् ॥
न किंचित्पाप्मना दत्तं जल्पयित्वा धनं बहु ॥ ॥ ५२ ॥
द्वितीयेन तु मे पुंसा मर्त्यलोके सुखं कृतम् ॥
दत्त्वा वस्त्राणि चित्राणि तथैवाभरणानि च ॥ ५३ ॥
प्रदास्यति च तातस्य सुवर्णं कथितं च यत् ॥
यद्गृह्णामि स्वहस्तेन मणिभद्रं द्वितीयकम् ॥ ५४ ॥
एवं निश्चित्य मनसा दृष्ट्वा रक्तपरिप्लुतम् ॥
प्रथमं मणिभद्रं सा जगृहेऽथ द्वितीयकम्॥ ५५ ॥
अब्रवीच्च ततो वाक्यं सर्वलोकस्य शृण्वतः ॥
अहं तातेन दत्तास्य विवाहे अग्निसंनिधौ ॥५६॥
द्वितीयोऽयं दुराचारो वेषकर्ता समा गतः ॥
मां च प्रार्थयते गुप्तां नानाचारैः पृथग्विधैः ॥ ५७ ॥
ततस्तु पार्थिवः क्रुद्धस्तस्य शाखावलंबनम् ॥
आदिदेश द्विजश्रेष्ठा मणिभद्रस्य दुर्मतेः ॥ ५८ ॥
एतस्मिन्नंतरे सोऽथ वधकानां समर्पितः ॥
तं वृक्षं नीयमानस्तु श्लोकानेतांस्तदापठत् ॥ ५९ ॥
निर्दयत्वं तथा द्रोहं कुटिलत्वं विशेषतः ॥
अशौचं निर्घृणत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ ६.१५८.६० ॥
अन्तर्विषमया ह्येता बहिर्भागे मनोरमाः ॥
गुञ्जाफलसमाकारा योषितः सर्व दैवहि ॥ ६१ ॥
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ॥
मन्वादयस्तथान्येऽपि स्त्रीबुद्धेस्तत्र किंच न ॥ ६२ ॥
पीयूषमधरे वासं हृदि हालाहलं विषम् ॥
आस्वाद्यतेऽधरस्तेन हृदयं च प्रपीड्यते ॥ ६३ ॥
अलक्तको यथा रक्तो नरः कामी तथैव च ॥
हृतसारस्तथा सोऽपि पादमूले निपा त्यते ॥ ६४ ॥
संसारविषवृक्षस्य कुकर्मकुसुमस्य च ॥
नरकार्तिफलस्योक्ता मूलमेषा नितंबिनी ॥ ६५ ॥
कस्य नो जायते त्रासो दृष्ट्वा दूरा दपि स्त्रियम्॥ ६६ ॥
संसारभ्रमणं नारी प्रथमेऽपि समागमे ॥
वह्निप्रदक्षिणन्यायव्याजेनैव प्रदर्शयेत् ॥ ६७ ॥
एतास्तु निर्घृणत्वेन निर्दय त्वेन नित्यशः ॥
विशेषाज्जाड्यकृत्येन दूषयंति कुलत्रयम् ॥ ६८ ॥
कुलत्रयगृहं कीर्त्या निजया धवलीकृतम् ॥
कृष्णं करोत्यकृ त्येन नारी दीपशिखेव तु ॥ ६९ ॥
धर्मवृक्षस्य वाताली चित्तपद्मशशिप्रभा ॥
सृष्टा कामार्णवग्राही केन मोक्षदृढार्गला ॥ ६.१५८.७० ॥
कारा संतानकूटस्य संसारवनवागुरा ॥
स्वर्गमार्गमहागर्ता पुंसां स्त्री वेधसा कृता ॥ ७१ ॥
वेधसा बंधनं किंचिन्नृणामन्यदपश्यता ॥
स्त्रीरूपेण ततः कोऽपि पाशोऽयं सुदृढः कृतः ॥७२॥
इत्येवं बहुधा सोऽपि विललाप सुदुःखितः ॥
स्त्रीचिन्तां बहुधा कृत्वा आत्मानं चाप्यगर्हयत् ॥ ७३ ॥
अहो कुबुद्धिना नैव लब्धं संसारजं फलम्॥
न कदाचिन्मया दत्तं तृष्णाव्याकुलचेतसा ॥ ७४ ॥
ऐश्वर्येऽपि स्थिते भूरि न मया सुकृतं कृतम् ॥
कदाचिन्नैव जप्तं च न हुतं च हुताशने ॥ ७५ ॥
अथवा सत्यमेवोक्तं केनापि च महात्मना ॥
कृपणेन समो दाता न भूतो न भविष्यति ॥
अस्पृष्ट्वापि च वित्तं स्वं यः परेभ्यः प्रयच्छति ॥ ७६ ॥
शरणं किं प्रपन्नानां विषवन्मारयंति किम् ॥
न दीयते न भुज्यंते कृपणेन धनानि च ॥ ७७ ॥
दानं भोगो नाशस्तिस्रो गतयो भवंति वित्तस्य ॥
यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥ ७८ ॥
धनिनोप्यदानविभवा गण्यंते धुरि दरिद्राणाम्॥
नहि हंति यत्पिपासामतः समुद्रोऽपि मरुरेव ॥ ७९ ॥
अत्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः ॥
कृपणजनसंनिकाशं संप्राप्यार्थाः स्वपंतीह ॥ ६.१५८.८० ॥
प्राप्तान्न लभंते ते भोगान्भोक्तुं स्वकर्मणा कृपणाः ॥
मुखपाकः किल भवति द्राक्षापाके बलिभुजानाम् ॥ ८१ ॥
दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः ॥
पश्येह मधुकरीणां संचितमर्थं हरंत्यन्ये ॥ ८२ ॥
याचितं द्विजवरे न दीयते संचितं क्रतुवरे न योज्यते ॥
तत्कदर्यपरिरक्षितं धनं चौरपार्थिवगृहेषु भुज्यते ॥ ८३ ॥
त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः ॥
परस्परवियुक्तौ तु वित्त त्यागौ विडम्बनम् ॥ ८४ ॥
किं तया क्रियते लक्ष्म्या या वधूरिव केवला ॥
या न वेश्येव सामान्या पथिकैरपि भुज्यते ॥ ८५ ॥
अर्थोष्मणा भवेत्प्राणो भवेद्भक्ष्यैर्विना नृणाम् ॥
यतः संधार्यते भूमिः कृपणस्योष्मणा हि सा ॥ ८६ ॥
कृपणानां प्रसादेन शेषो धारयते महीम् ॥
यतस्ते भूगतं वित्तं कुर्वते तस्य चोष्मणा ॥ ८७ ॥
एवं बहुविधा वाचः प्रलपन्मणिभद्रकः ॥
नीत्वा तैः पार्थिवोद्दिष्टैः पुरुषैः परुषाक्षरम् ॥
बहुधा प्रलपं श्चैव कृतः शाखावलंबनः ॥ ८८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मणिभद्रोपाख्याने मणिभद्रनिधनवर्णनंनामाष्टपंचाशदुत्तरशततमोऽध्यायः ॥ १५८ ॥