स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १७६

॥ सूत उवाच ॥ ॥
दृष्ट्वा प्रतिष्ठितं लिंगं याज्ञवल्क्येन धीमता ॥
स्वमातुः शुद्धिहेतोः स तन्नाम्ना लिंगमुत्तमम् ॥ १ ॥
स्थापयामास विप्रेंद्राः श्रद्धया परया युतः ॥
ततश्चानीय विप्रेंद्रं मध्यगं नागरोद्भवम् ॥ ॥
गर्तातीर्थसमुद्भूतमाहिताग्निं प्रयाजिनम् ॥
यथैतन्नगरस्थानं तथा त्वमपि दीक्षितः ॥ ३ ॥
अष्टषष्टिषु गोत्राणां नायकत्वे व्यवस्थितः ॥
तव वाक्येन सर्वाणि गोत्राणि द्विजसत्तम ॥ ४ ॥
वर्तयिष्यंति कृत्येषु यावच्चन्द्रार्कतारकाः ॥
गोवर्धन त्वया चिंता कार्या चास्य समुद्भवा ॥ ५ ॥
लिंगस्य पूजनार्थाय प्रेरणीयाश्च नागराः॥
पूजया तस्य लिंगस्य वृद्धिं यास्यति तेऽन्वयः ॥ ६ ॥
अपूजया विनाशं च यास्यत्यत्र न संशयः ॥
तव वंशोद्भवा ये च पूजयित्वा प्रभक्तितः ॥ ७ ॥
एतल्लिंगं करिष्यंति कृत्यानि विविधानिच ॥
तानि सिद्धिं प्रयास्यंति प्रसादादस्य दीक्षित ॥ ८ ॥
॥ गोवर्धन उवाच ॥ ॥
अहमर्चां करिष्यामि लिंगस्यास्य सदा द्विज ॥
भक्तिं च प्रकरिष्यामि हेतोरस्य हेतोरस्य कृते द्विज ॥
पूजार्थं चैव ये चान्ये मम वंशसमुद्रवाः ॥ ९ ॥
॥ पिप्पलाद उवाच ॥ ॥
गोवर्धन द्रुतं विप्रांस्तत्र चानय नागरान्॥
तेषां मतेन देवस्य नाममात्रं करोम्यहम् ॥ ६.१७६.१० ॥
ततश्चानाययामास विप्रांश्चैव विचक्षणान् ॥
श्रुताध्ययनसंपन्नान्यज्ञकर्मपरायणान् ॥ ११ ॥
तानब्रवीत्प्रणम्योच्चैः पिप्पलादो महामुनिः ॥
मम माता मृता पूर्वं कंसारीति च नामतः ॥ १२ ॥
तस्या उद्देशतो लिंगं मयैतत्संप्रतिष्ठितम् ॥
युष्मद्वाक्यात्प्रसिद्धिं च प्रयातु द्विजसत्तमाः ॥ १३ ॥
अष्टम्यां च चतुर्दश्यां यश्चैतत्स्नापयिष्यति ॥
याज्ञवल्क्येश्वरोत्थं च स वै श्रेयो ह्यवाप्स्यति ॥ १४ ॥
॥ सूत उवाच ॥ ॥
अथ तैर्ब्राह्मणैः सर्वैस्तस्य नाम प्रतिष्ठितम् ॥
कंसारीश्वर इत्येवं गौरवात्तस्य सन्मु नेः ॥ १५ ॥
एतद्वः सर्वमाख्यातं यत्पृष्ठोऽस्मि द्विजोत्तमाः ॥
कंसारीश्वरसंज्ञस्तु यथा जातस्तु पापहा ॥
स्थापितः पिप्पलादेन स्वयं चैव महात्मना ॥ १६ ॥
यश्चैतत्पुण्यमाख्यानं तस्य देवस्य संनिधौ ॥
संपठेच्छृणुयाद्वापि सम्यक्छक्तिसमन्वितः ॥ १७ ॥
मनसा चिंतितं पापं परदारकृतं च यत् ॥
तस्य तन्नाशमायाति पिप्पलाद वचो यथा ॥ १८ ॥
यस्तस्य पुरतो भक्त्या नीलरुद्रा न्सदा जपेत् ॥
प्राणरुद्रान्विशेषेण भवरुद्रसमन्वितान् ॥ १९ ॥
ब्रह्महत्योद्भवं चैव अपि तस्य प्रणश्यति ॥
परचक्रभये जाते ह्यना वृष्टिभये तथा ॥ ६.१७६.२० ॥
अथर्ववेदे साद्यंते पठिते तस्य चाग्रतः ॥
शत्रुर्विलयमभ्येति वृष्टिः सञ्जायते द्रुतम् ॥ २१ ॥
राजदौःस्थ्ये समुत्पन्ने राजा भवति धार्मिकः ॥
सर्वरोगविनिर्मुक्तः प्रजापालनतत्परः ॥ २२ ॥
उपसर्गभये जाते तस्य दोषः प्रशाम्यति ॥
शनैः शनैरसंदिग्धं पिप्पलादवचो यथा ॥ २३ ॥
किं वा ते बहुनोक्तेन यत्किंचिद्व्यसनं महत् ॥
तत्तस्य व्यसनं किंचिदथर्वणः प्रकी र्तनात् ॥ २४ ॥
अस्य देवस्य पुरतो याति नाशं च वै द्रुतम् ॥ २५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कंसारेश्वरोत्पत्तिमाहात्म्यवर्णनंनाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥ १७६ ॥