स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १९१
॥ ऋषय ऊचुः ॥ ॥
सूतपुत्र त्वया प्रोक्तं सावित्री नागता च यत् ॥
कौटिल्येन समायुक्तैराहूता वचनैस्तथा ॥
पुलस्त्येन पुनश्चैव प्रसक्ता गृहकर्मणि ॥ १ ॥
ततस्तु ब्रह्मणा कोपाद्गायत्री च समाहृता ॥
देवैर्विप्रेश्चे साऽतीव शंसिता भार्यतां गता ॥ २ ॥
सावित्री च कथं जाता तां ज्ञात्वा यज्ञमण्डपे ॥
पत्नीशालां प्रविष्टां च सर्वं नो विस्तराद्वद ॥ ३ ॥
॥ सूत उवाच ॥ ॥
सावित्री वशगं कांतं ज्ञात्वा विश्वासमागता ॥
स्थिरा भूत्वा तदा सर्वा देवपत्नीः समानयत् ॥ ४ ॥
गौरी लक्ष्मीः शची मेधा तथा चैवाप्यरुन्धती ॥
स्वधा स्वाहा तथा कीतिर्बुद्धिः पुष्टिः क्षमा धृतिः ॥
तथा चान्याश्च बहवो ह्यप्सरोभिः समन्विताः ॥ ५ ॥
घृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥
अप्सराणां गणाः सर्वे समाजग्मुर्द्विजोत्तमाः ॥ ६ ॥
सा ताभिः सहिता देवीपूर्णहस्ताभिरेव च ॥
संप्रहृष्टमनोभिश्च प्रस्थिता मण्डपं प्रति ॥ ७ ॥
वाद्यमानेषु वाद्येषु गीतध्वनियुतेषु च ॥
गन्धर्वाणां प्रमुख्यानां किन्नराणां विशेषतः ॥ ८ ॥
प्रस्थिता सा महाभागा यावत्तद्यज्ञमण्डपम् ॥
तावत्तस्यास्तदा चक्षुः प्रास्फुरद्दक्षिणं मुहुः ॥ ९ ॥
अपसव्यं मृगाश्चक्रुस्तथान्येऽपि खगादयः ॥
विपर्यस्तेन संयाति शब्दान्कुर्वंति चासकृत् ॥ ६.१९१.१० ॥
दक्षिणानि तथाऽङ्गानि स्फुरमाणानि वै मुहुः॥
तस्या मनसि संक्षोभं जनयति निरर्गलम् ॥ ११ ॥
ताश्च देवस्त्रियः सर्वा नृत्यंति च हसंति च ॥
गायंति च यथोत्साहं तस्याः पार्श्वे व्यवस्थिताः ॥ १२ ॥
न जानंति च संक्षोभं तथा शकुनजं हृदि ॥
अन्योन्यस्पर्द्धया सर्वा गीतनृत्यपरायणाः ॥ १३ ॥
अहंपूर्वमहंपूर्वं प्रविशामि महामखे ॥
इत्यौत्सुक्यसमोपेतास्ता गच्छंति तदा पथि ॥ १४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सावित्र्या यज्ञागमनकालिकोत्पाताद्यपशकुनोद्भववर्णनंनामैकनवत्युत्तरशततमोऽध्यायः ॥१९१॥