स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १९४

॥ सूत उवाच ॥ ॥
एवं सा तान्वरान्दत्त्वा सर्वेषां शापभागिनाम् ॥
मौनव्रतपरा भूत्वा निविष्टाऽथ धरातले ॥ १ ॥
ततो देवगणाः सर्वे तापसाश्च महर्षयः ॥
साधुसाध्विति तां प्रोच्य ततः प्रोचुरिदं वचः ॥ २ ॥
एतां देवीप्रसादेन ब्राह्मणानां विशेषतः ॥
पूजयिष्यंति मर्त्येऽत्र सर्वे लोकाः समाहिताः ॥ ३ ॥
ब्रह्माणं पूजयित्वा तु पश्चादेनां सुरेश्वरीम् ॥
पूजयिष्यंति ये मर्त्यास्ते तु यांति परां गतिम् ॥ ४ ॥
या कन्या पतिसंयोगं संप्राप्यात्र समाहिता ॥
ततः पादप्रणामं च गायत्र्याश्च करिष्यति ॥
पतिं प्रजापतिं प्राप्य सा भविष्यत्यसंशयम् ॥ ५ ॥
सर्वकामसुखोपेता धनधान्यसमन्विता ॥
या नारी दुर्भगा वंध्या भविष्यति च शोभना ॥ ६ ॥
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं गते पंचोत्तरे शते ॥
पद्मजानां हरः प्रादादेतत्कथमनुत्त मम् ॥ ७ ॥
ब्राह्मणेभ्यः स संतुष्टः किंवाऽन्योऽस्ति महेश्वरः ॥
एतं नः संशयं भूयो यथावद्वक्तुमर्हसि ॥ ८ ॥
आयुष्यं शंकरस्यापि यत्प्रमाणं तथा हरेः ॥
ब्रह्मणोऽपि समाचक्ष्व परं कौतूहलं हि नः ॥ ९ ॥
॥ सूत उवाच ॥ ॥
अहं वः कीर्तयिष्यामि विस्तरेण द्विजोत्तमाः ॥
त्रयाणामपि चायुष्यं यत्प्रमाणं व्यवस्थितम् ॥ ६.१९४.१० ॥
निमेषस्य चतुर्भागस्त्रुटिः स्यात्तद्द्वयं लवः ॥
लवद्वयं कला प्रोक्ता काष्ठा तु दशपंचभिः ॥ ११ ॥
त्रिंशत्काष्ठां कलामाहुः क्षणस्त्रिंशत्कलो मतः ॥
मुहूर्तमानं मौहूर्ता वदंति द्वादशक्षणम् ॥ १२ ॥
त्रिंशन्मुहूर्तमुद्दिष्टमहोरात्रं मनीषिभिः ॥
मासस्त्रिंशदहोरात्रैर्द्वौ मासावृतुसंज्ञितः ॥ १३ ॥
ऋतुत्रयं चायनं च अयने द्वे तु वत्सरम् ॥
दैविकं च भवेत्तच्च ह्यहोरात्रं द्विजोत्तमाः ॥ १४ ॥
उत्तरं चायनं तत्र दिनं रात्रिस्तथाऽपरम्॥
लक्षैः सप्तदशाख्यैस्तु मनुष्याणां च वत्सरैः ॥ १५ ॥
अष्टाविंशतिभिश्चैव सहस्रैस्तु तथा परैः ॥
आद्यं कृतयुगं चैव तद्भ विष्यति सद्द्विजाः ॥ १६ ॥
ततो द्वादशभिर्लक्षैः षोडशानां सहस्रकैः ॥
त्रेतायुगं समादिष्टं द्वितीयं द्विजसत्तमाः ॥ १७ ॥
द्वापरं चाष्टभिर्लक्षैस्तृ तीयं परिकीर्तितम् ॥
चतुःषष्टिसहस्रैस्तु यथावत्परिसंख्यया ॥ १८ ॥
चतुर्लक्षं समादिष्टं युगं कलिसमुद्भवम् ॥
द्वात्रिंशता सहस्रैस्तु चतुर्थं तद्विदुर्बुधाः ॥ १९॥
चतुर्युगसहस्रेण दिनं पैतामहं भवेत् ॥
तेषां त्रिंशद्दिनैर्मासो मासैर्द्वादशभिर्वत्सरो भवेत् ॥६.१९४.२॥।
ब्रह्मा तेषां शतं यावत्स जीवति पितामहः ॥
सांप्रतं चाष्टवर्षीयः षण्मासश्चैव संस्थितः ॥२१॥
प्रतिपद्दिवसस्यास्य प्रथमस्य तथा गतम् ॥
यामद्वयं शुक्रवारे वर्तमाने महात्मनः ॥ ॥२२॥
ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ॥२३॥
सोपि वर्षशतंयावदात्ममानेन जीवति ॥
पंचपचाशदादिष्टास्तस्य जातस्य वत्सराः ॥ २४ ॥
तिथयः पंच यामार्द्धं सोमवारेण संगतम् ॥
वैष्णवेन तु वर्षेण दिनं माहेश्वरं भवेत् ॥ २५ ॥
शिवो वर्षशतं यावत्तेन रूपेण च स्थितः ॥
यावदुच्छ्वसितं वक्त्रं सदाशिवसमुद्भवम् ॥ २६ ॥
पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् ॥
निश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ॥ २७ ॥
ब्रह्मविष्णुशिवानां च गन्धर्वोरगरक्षसाम् ॥
एकविंशत्सहस्राणि शतैः षड्भिः शतानि च ॥ २८ ॥
अहोरात्रेण चोक्तानि प्रमाणे द्विज सत्तमाः ॥
षड्भिरुच्छ्वासनिश्वासैः पलमेकं प्रवर्तते ॥ २९ ॥
नाडी षष्टिपला प्रोक्ता तासां षष्ट्या दिनं निशा ॥
निश्वासोच्छ्वसितानां च परिसंख्या न विद्यते ॥
सदाशिवसमुत्थानामेतस्मात्सोऽक्षयः स्मृतः ॥ ६.१९४.३० ॥
अन्येऽपि ये प्रगच्छंति ब्रह्मज्ञानसमन्विताः ॥
अक्षयास्तेऽपि जायंते सत्यमेतन्मयोदितम् ॥ ३१ ॥
॥ ऋषय ऊचुः ॥ ॥
यद्येवं सूतपुत्रात्र ब्रह्मविष्णुमहेश्वराः ॥
आत्मवर्षशते पूर्णे यांति नाशमसंशयम् ॥ ॥ ३२ ॥
तत्कथं मानुषाणां च मर्त्यलोकेल्पजीविनाम् ॥
कथयंति च ये मुक्तिं विद्वांसश्चैव सूतज ॥ ३३ ॥
नूनं तेषां मृषा वादो मोक्षमार्गसमु द्भवः ॥ ३४ ॥
॥ सूत उवाच ॥ ॥
अनादिनिधनः कालः संख्यया परिवर्जितः ॥
असंख्याता गता मोक्षं ब्रह्मविष्णुमहेश्वराः ॥ ३५ ॥
निजे वर्षशते पूर्णे वालुकारेणवो यथा ॥
निजमानेन या श्रद्धा ब्रह्मज्ञानसमुद्भवा ॥
तेषां चेन्मानुषाणां च तन्मुक्तिः स्यादसंशयम् ॥ ३६॥
यथैते दंशमशका मानुषाणां च कीटकाः ॥
जायंते च म्रियंते च गण्यंते नैव कुत्रचित् ॥
इन्द्रादीनां तथा मर्त्याः संभाव्या जगतीतले ॥ ३७ ॥
देवानां च यथा मर्त्याः कीटस्थाने च संस्थिताः ॥
तथा देवा अपि ज्ञेया ब्रह्मणोऽव्यक्तजन्मनः ॥ ३८ ॥
ब्रह्मणस्तु यथा देवाः कीटस्थाने व्यवस्थिताः ॥
तथा ब्रह्मापि विष्णोश्च कीटस्थाने व्यवस्थितः ॥ ३९ ॥
पितामहो यथा विष्णोः कीटस्थाने व्यवस्थितः ॥
तथा स शिवशक्तिभ्यां परिज्ञेयो द्विजोत्तमाः ॥ ६.१९४.४० ॥
यथा विष्णुः कृमिर्ज्ञेयस्ताभ्यामेव द्विजोत्तमाः ॥
सदाशिवस्य विज्ञेयौ तथा तौ कृमिरूपकौ ॥ ४१ ॥
एवं च विविधैर्यज्ञैः श्रद्धा पूतेन चेतसा ॥
ब्रह्मज्ञानात्परं यांति सदाशिवसमुद्भवम् ॥ ४२ ॥
अग्निष्टोमादिभिर्यज्ञैः कृतैः संपूर्णदक्षिणैः ।।
तदर्थं ते दिवं यांति भुक्त्वा भोगान्पृथग्विधान् ॥ ४३ ॥
क्षये च पुनरायांति सुकृतस्य महीतले ॥
ब्रह्मज्ञानात्परं प्राप्य पुनर्जन्म न विद्यते ॥ ४४ ॥
तस्मात्सर्वप्रयत्नेन तत्राभ्यासं समा चरेत् ॥
जन्मभिर्बहुभिः पश्चाच्छनैर्मुक्तिमवाप्नुयात् ॥ ४५ ॥
एकजन्मनि संप्राप्तो लेशो ज्ञानस्य तस्य च ॥
द्वितीये द्विगुणस्तस्य तृतीये त्रिगु णो भवेत् ॥ ४६ ॥
एकोत्तरो भवेदेवं सदा जन्मनिजन्मनि ॥ ४७ ॥
॥ ऋषय ऊचुः ॥ ॥
ब्रह्मज्ञानस्य संप्राप्तिर्मर्त्यानां जायते कथम् ॥
एतन्नः सर्वमाचक्ष्व यदि त्वं वेत्सि सूतज ॥ ४८ ॥
।। सूत उवाच ॥ ॥
का शक्तिर्मम वक्तव्ये ज्ञाने मर्त्यसमुद्भवे ॥
स्वयमेव न यो वेत्ति स परस्य वदेत्कथम् ॥ ४९ ॥
उपदेशः परं यो मे पित्रा दत्तो द्विजोत्तमाः ॥
तमहं वः प्रवक्ष्यामि ब्रह्मज्ञानसमुद्भवम् ॥ ६.१९४.५० ॥
हाटकेश्वरजे क्षेत्रे ह्यस्ति तीर्थद्वयं शुभम् ॥
कुमारिकाभ्यां विहितं ब्रह्मज्ञानप्रदं नृणाम् ॥ ५१ ॥
ब्राह्मण्या चैव शूद्र्या च कुमारीभ्यां विनिर्मितम् ॥
अष्टम्यां च चतुर्दश्यां यस्ताभ्यां स्नानमाचरेत् ॥ ५२ ॥
पश्चात्पूजयते भक्त्त्या प्रसिद्धे सिद्धिपादुके ॥
सुगुप्ते गर्तमध्यस्थे कुमार्या परिपूजिते ॥ ५३ ॥
तस्य संवत्सरस्यान्ते ब्रह्मज्ञानं प्रजायते ॥
शक्त्या विनिहिते ते च स्वदर्शनविवृद्धये ॥ ५४ ॥
लोकानां मुक्तिकामानां ब्रह्मज्ञानसुखावहे ॥
मम तातो गतस्तत्र ततश्च ज्ञानवान्स्थितः ॥ ५५ ॥
तस्यादेशादहं तत्र गतः संवत्सरं स्थितः ॥
पादुके पूजयामास ततो ज्ञानं च संस्थितम् ॥ ५६ ॥
यत्किञ्चिद्वा श्रुतं लोके पुराणाग्र्यं व्यवस्थितम् ॥
वर्तमानं भविष्यच्च तदहं वेद्मि भो द्विजाः ॥ ५७ ॥
तत्प्रसादादसंदिग्धं प्रमाणं चात्र संस्थितम् ॥
मुक्त्वैकं वेदपठनं सूतत्वं च यतो मयि ॥ ५८ ॥
तस्यापि वेद्मि सर्वार्थं भर्तृयज्ञो यथा मुनिः ॥
अस्मादत्रैव गच्छध्वं यदि मुक्तेः प्रयोजनम् ॥ ॥ ५९ ॥
किमेतैः स्वर्गदैः सत्रैः पुनरावृत्तिकारकैः ॥
आराधयध्वं ते गत्वा पादुके सिद्धिदे नृणाम् ॥
येन संवत्सरस्यान्ते ब्रह्मज्ञानं प्रजायते ॥ ॥ ६.१९४.६० ॥
॥ ऋषय ऊचुः ॥ ॥
साधुसाधु महाभाग ह्युपदेशः कृतो महान् ॥
तेन संतारिताः सर्वे वयं संसारसागरात् ॥ ६१ ॥
यास्यामोऽपि वयं तत्र सत्रे द्वादशवार्षिके ॥
समाप्तेऽस्मिन्न संदेहः सर्वे च कृतनिश्चयाः ॥ ६२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मज्ञानप्राप्त्यर्थं कुमारिकातीर्थद्वयगर्तक्षेत्रस्थपादुकामाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरशततमोऽध्यायः ॥ ॥ १९४ ॥