स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २०२
॥ विश्वामित्र उवाच ॥ ॥
तच्छ्रुत्वा ब्राह्मणाः सर्वे विनयावनताः स्थिताः ॥
तं पप्रच्छुर्नरश्रेष्ठ कौतुकाविष्टचेतसः ॥ १ ॥
कस्यचिन्निर्णयो देयो मध्यस्थस्य द्विजोत्तमैः ।।
वेदवाक्येन संत्यज्य वाक्यं मनुजसंभवम् ओ। २ ।।
कस्मात्तालत्रयं देयं मध्यगेन महात्मना ॥
एतन्नः सर्वमाचक्ष्व परं कौतूहलं हि नः ॥ ३ ॥
तच्छ्रुत्वा भर्तृयज्ञस्तु तानुवाच द्विजोत्तमान् ॥
श्रूयतामभिधास्यामि यदेतत्कारणं स्थितम् ॥ ४ ॥
नासत्यं जायते वाक्यं नागराणां कथंचन ॥
ब्रह्मशालास्थितानां च शुभं वा यदि वाऽशुभम् ॥ ५ ॥
वेदोक्तेः सवनैस्तस्माद्दर्शयंति द्विजोत्तमाः ॥
इष्टं वा यदि वानिष्टं पृच्छमानस्य चा र्थिनः ॥ ६ ॥
भूयोभूयस्ततः कुर्यान्मध्यस्थः स द्विजन्मनाम् ॥
प्रश्नं तस्य निमित्तं च यावत्तस्य विनिर्णयः ॥ ७ ॥
ब्रह्मशालोपविष्टानां यदि वाक्यं वृथा भवेत् ॥
माहात्म्यं नश्यते तेषां ततः क्रोधः प्रजायते ॥ ८ ॥
क्रोधात्सञ्जायते द्रोहो द्रोहात्पापस्य संगमः ॥
एतस्मात्कारणाद्विप्रा मध्यस्थः पृच्छ्यते मुहुः ॥ ९ ॥
समुदायः समस्तानां यथा चैव प्रजायते ॥
तदा तालत्रयं यच्च मध्यस्थः संप्रयच्छति ॥ ६.२०२.१० ॥
तासां तु पूर्वया कामं हंति पृच्छाप्रदायिनाम् ॥
द्वितीयया तथा क्रोधं हंति लोभं तृतीयया ॥ ११ ॥
एतस्मात्कारणाद्देयं तेन तालत्रयं द्विजाः ॥ १२ ॥ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
आथर्वणश्चतुर्थस्तु ब्राह्मणः परिकीर्तितः ॥
स कस्मात्प्रथमः प्रश्नो नागराणां प्रकीर्तितः ॥ १३ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
आथर्वः प्रथमः प्रश्नो यस्मात्प्रोक्तो मया द्विजाः ॥
तदहं संप्रवक्ष्यामि शृणुध्वं सुसमाहिताः ॥ १४ ॥
नेर्ष्या चैवात्र कर्तव्या स्वस्थानस्य विनाशनी ॥
निरूपितं मया सम्यक्स्थानस्थस्य विशुद्धये ॥ १५ ॥
ऋग्यजुःसामसंज्ञाख्या अग्निष्टोमादिका मखाः ॥
पारत्रिकाः प्रवर्तंते नैहिकाश्चाभिचारिकाः ॥ १६ ॥
अथर्ववेदे तच्चोक्तं सर्वं चैवाभिचारिकम् ॥
हिताय सर्वलोकानां ब्रह्मणा लोककारिणा ॥ १७ ॥
अथर्ववेदः प्रथमं द्रष्टव्यः कार्यसिद्धये ॥
एतस्मात्कारणादाद्यः स चतुर्थोऽपि संस्थितः ॥ १८ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
पृच्छा संबंधजं सर्वमेकं कार्यं सदैव हि ॥ १९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये भर्तृयज्ञवाक्यनिर्णयवर्णनंनाम द्व्युत्तरद्विशततमोऽध्यायः ॥ २०२ ॥