स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २२५

॥ आनर्त उवाच ॥ ॥
एकोद्दिष्टविधिं ब्रूहि मम त्वं वदतां वर ॥
पार्वणं तु यथा प्रोक्तं विस्तरेण महामते ॥ १ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
त्रीणि संचयनादर्वाक्तानि त्वं शृणु सांप्रतम् ॥
यस्मिन्स्थाने भवेन्मृत्युस्तत्र श्राद्धं तु कारयेत् ॥२॥
एकोद्दिष्टं ततो मार्गे विश्रामो यत्र कारितः ॥
ततः संचयनस्थाने तृतीयं श्राद्धमिष्यते ॥ ३ ॥
प्रथमेऽह्नि द्वितीयेह्नि पञ्चमे सप्तमे तथा ॥
नवमे दशमे चैव नव श्राद्धानि तानि च ॥ ४ ॥
वैतरिण्याश्च संप्राप्तौ प्रेतस्तृप्तिमवाप्नुयात् ॥
एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकम् ॥ ५ ॥
आवाहनपरित्यक्तं कार्यं पार्थिवसत्तम ॥
तृप्तिप्रश्नस्तथा कार्यः स्वदितं च सकृत्ततः ॥ ६ ॥
अभिरम्यतामिति मन्त्रेण ब्राह्मणस्य विसर्जनम् ॥
अच्छिन्नाग्रमभिन्नाग्रं कुर्याद्दर्भतृणद्वयम् ॥
पवित्रं तद्विजानीयादेकोद्दिष्टे विधीयते ॥ ७ ॥
सर्वत्रैव पितः प्रोक्तं पिता तर्पणकर्मणि ॥
पित्र्ये संकल्पकाले च पितुरक्षय्यदापने ॥ ८ ॥
गोत्रं स्वरांतं सर्वत्र गोत्रे तर्पणकर्मणि ॥
गोत्राय कल्पनविधौ गोत्रस्याक्षय्यदापने ॥ ९ ॥
शर्मन्नर्घ्यादिकर्तव्ये शर्मा तर्पणकर्मणि ॥
शर्मणे सस्यदाने च शर्मणोऽक्षय्यके विधौ ॥ ६.२२५.१० ॥
मातर्मात्रे तथा मातुरासने कल्पनेऽक्षये ॥
गोत्रे गोत्रायै गोत्रायाः प्रथमाद्या विभक्तयः ॥ ११ ॥
देवि देव्यै तथा देव्या एवं मातुश्च कीर्तयेत् ॥
प्रथमा च चतुर्थी च षष्ठी स्याच्छ्राद्धसिद्धये ॥ १२ ॥
विभक्तिरहितं श्राद्धं क्रियते वा विपर्ययात् ॥
अकृतं तद्विजानीयात्पितृणां नोपतिष्ठति ॥ ॥ १३ ॥
तस्मात्सर्वप्रयत्नेन ब्राह्मणेन विजानता ॥
विभक्तिभिर्यथोक्ताभिः श्राद्धे कार्यो विधिः सदा ॥ १४ ॥
ततः सपिंडीकरणं वत्सरा दूर्ध्वतः स्थितम् ॥
वृद्धिर्वाऽऽगामिनी चेत्स्यात्तदार्वागपि कारयेत् ॥ १५ ॥
पार्वणोक्तविधानेन त्रिदैवत्यमदैविकम् ॥
प्रेतमुद्दिश्य कर्तव्यमेको द्दिष्टं च पार्थिव ॥ १६ ॥
एकेनैव तु पाकेन मम चैतन्मतं स्मृतम् ॥
अर्घपात्रं समादाय यत्प्रेतार्थं प्रकल्पितम् ॥ १७ ॥
पितृपात्रेषु त्रिष्वेव त्रिधा तच्च परिक्षिपेत् ॥
एवं पिंडं त्रिधा कृत्वा पितृपिंडेषु च त्रिषु ॥ १८ ॥
ये समानेति मन्त्राभ्यां न स्यात्प्रेतस्ततः परम् ॥
अवनेजनं ततः कृत्वा पितृपूर्वं यथाक्रमम् ॥ १९ ॥
गन्धधूपादिकं सर्वं पुनरेव प्रदापयेत् ॥
पितृपूर्वं समुच्चार्य वर्जयेच्च चतुर्थकम् ॥ ६.२२५.२० ॥
केचिच्चतुर्थं कुर्वंति प्रेतं च स्वपितुस्ततः ॥
पितुः पूर्वं भवेच्छ्राद्धं परं नैतन्मतं मम ॥ २१ ॥
सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं न कारयेत् ॥
क्षयाहं च परित्यज्य शस्त्राहत चतुर्दशीम् ॥ २२ ॥
यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् ॥
अकृतं तद्विजानीयात्पितृहा चोपजायते ॥।२३ ॥
पिता यस्य तु निर्वृत्तो जीवते च पितामहः ॥
पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम् ॥ २४ ॥
पितामहस्तु प्रत्यक्षं भुक्त्वा गृह्णाति पिण्डकम् ॥
पितामहक्षयाहे च पार्वणं श्राद्धमिष्यते ॥ २५ ॥
जनकं स्वं परित्यज्य कथंचिन्नास्य दीयते ॥
तस्याकृतेन श्राद्धेन न स्वल्पं पितृतो भयम् ॥ २६ ॥
अमावास्यासु सर्वासु मृते पितरि पार्वणम् ॥
नभस्यापरपक्षस्य मध्ये चैतदुदाहृतम्॥ २७ ॥
यावत्सपिंडता नैव न तावच्छ्राद्धमाचरेत् ॥ २८ ॥
जनके मृत्युमापन्ने श्राद्धपक्षे समागते ॥
पितामहादेः कर्तव्यं श्राद्धं यन्नैकपिंडता ॥२९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सपिंडीकरणविधिवर्णनंनाम पञ्चविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२५ ॥